2023-02-27 22:10:32 by ambuda-bot
This page has not been fully proofread.
आर्यासप्तशती ।
११३
नीरेति । नद्यो जलन्यूनतयोच्चावचं यत्सैकतं तत्संघट्टनमांसलैः । तूलस्य कार्पासस्य
पतयो येषु तादृशस्थूलपटैरिव तीरैः शिशिरे राजन्ति । एवं च शिशिरे शीतबाहुल्ये-
नान्यजनागमनशङ्काभावेनोच्चावचसैकतवत्तयान्यानवलोकनीयत्वेन वायुनिवारकतया
स्वस्य शीतबाधाजनकत्वेन च तूलयुतस्थूलपटोत्प्रेक्षया मृदुलस्पर्शवत्ता प्रतिपादनेन
स्वतः सिद्धराय्यासत्त्वेन च सरित्तीरमेव संकेतस्थलमिति व्यज्यते ॥
कश्चित्कांचिदन्योक्त्या वक्ति-
निजकायच्छायायां विश्रम्य निदाघविपदमपनेतुम् ।
बत विविधास्तनुभङ्गीर्मुग्धकुरङ्गीयमाचरति ॥ ३०९ ॥
निजेति । स्वशरीरच्छायायां विश्रान्तिमासाद्य धर्मविपत्ति दूरीकर्तुम् । बतेति खेदे ।
इयं मुग्धकुरङ्गी विविधशरीरचेष्टाः करोति । परं तु न तापोपशमनं भावीति भावः ।
एवं च खदेहच्छायारूपस्वाधीननायकमात्रावलम्बनेन मदनसंतापनिवारणाय विविधचे-
ष्टाकरणेऽपि मूढनायिकायास्तव न तन्निवारणम्, अतोऽन्यन्नायकावलम्बनमेव मदनसं-
तापनिवारकमिति द्योत्यते । यद्वा सख्युपदेशोऽयम् । जातिवर्णनमेतदित्यृजवः ॥
कार्येणैव कारणप्रतिष्ठेति काचित्कांचिद्वति-
न हसन्ति जरठ इति यल्लववनिता नमन्ति नन्दमपि ।
सखि स यशोदातनयो नित्यं कन्दलितकंदर्पः ॥ ३१० ॥
न हसन्तीति । यद्यस्मात्कारणात्स प्रसिद्धो यशोदातनयः कृष्णो नित्यमभिवर्धमानम-
दनः, अतो हे सखि, बल्लववनिता नन्दं जठर इति न हसन्ति । न केवलं हास्याभावः, अपि
तु प्रणमन्ति । एवं च कृष्णस्य कंदर्पशालित्वावगमेन नन्देऽपि जरठाभावनिर्णयो मूढस्त्री •
•णामपि तत्र किमु वाच्यं चतुराङ्गनानां कार्येण कारणस्वरूपज्ञानमिति व्यज्यते । यद्वा ख-
कार्यमेव साधनीयमिति कांचित्काचिदुपदिशति । एवं च हास्यार्हेऽपि हास्याकरणेन प्रत्युत-
प्रणामादिना नन्दं परितोष्य मदनातिशयशालिश्रीकृष्णायनुसरणं बल्लववनिता अपि कु-
र्वन्ति । त्वं त्वत्यन्तचतुरात एवमेव स्वकार्य साधयेति व्यज्यते । अथवा नायकार्थे
श्वशुरादिसमाधानं त्वया विधेयमिति सखी श्वशुरादिदुःखवतीं नायिकामन्य निदर्शनव्या-
जेनोपदिशति । एवं च परपुरुषीयरतिकलाप्रावीण्यमालक्ष्यैव माचरन्त्यन्यास्तत्र स्खीय-
नायकपरितोषाय किं किं न विधेयमिति व्यज्यते ॥
सर्वात्मना स्त्रियः संरक्षणीया इति कश्चिद्वति-
नीता स्वभावमर्पितवपुरपि वाम्यं न कामिनी त्यजति ।
हरदेहार्धग्रथिता निदर्शनं पार्वती तत्र ॥ ३११ ॥
-
नीतेति । स्वसदृशीकृतापि दत्तखशरीरापि । एवं चालंकरणादिदानमेतदमेऽकिंचि-
त्करमिति भावः । कामिनी वाम्यं कौटिल्यं वामशरीरभागित्वं च न त्यजति । अत्र
Sri Gargeshwari Digital Foundation