2023-03-13 17:34:39 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
धकारव्रज्या ।
कस्याश्चित्सखी कंचिदन्योक्त्या वक्ति--
धूमैरश्रु निपातय दह शिखया दहन मलिनयाङ्गारैः ।
जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥ ३०४ ॥
धूमैरिति । हे दहन । अनागमनादिना संतापकत्वात्सामर्थ्यविशेषवत्त्वाद्वेति भावः ।
दुर्गतगृहिणीत्यनेन सुरतसौख्याभावो द्योत्यते । शिशिरनिशीत्यनेन यथेच्छसुरतयोग्यत्वं
निशि ध्वन्यते । एवं च त्वदीयदुष्टव्यवहारेणाश्रुसंतापमालिन्यजननेऽपि त्वां सा न
त्यक्ष्यतीति ध्वन्यते ॥
सखी नायिकामुपदिशति--
धैर्यं निधेहि गच्छतु रजनी सोऽप्यस्तु सुमुखि सोत्कण्ठः ।
प्रविश हृदि तस्य दूरं क्षणधृतमुक्ता स्मरेषुरिव ॥ ३०५ ॥
धैर्यमिति । निधेहि कुरु । तस्य हृदि दूरं प्रविश । एवंप्रकारेण सोऽप्यत्यन्तासक्तो
भावीति ध्वन्यते । क्षणधृतमुक्तात्वेनातिभेदकत्वं द्योत्यते । 'इषुर्द्वयोः' इत्यमरः ॥
धवलनखलक्ष्म दुर्बलमकलितनेपथ्यमलकपिहिताक्ष्याः ।
द्रक्ष्यामि मदवलोकद्विगुणाश्रु वपुः पुरद्वारि ॥ ३०६ ॥
धवलेति । श्वेतनखचिह्नम् । पुराणत्वादिति भावः । दुर्बलम् । विरहक्षीणत्वादिति
भावः । अकलितभूषणम् । असामर्थ्यादिति भावः चूर्णकुन्तलाच्छादितनयनायाः
संस्काराभावादिति भावः । वपुर्मद्विलोकनेन द्विगुणाश्रु । प्रेमभरादिति भावः । पुर-
द्वारि । अत्यन्तविरहेण धैर्याभावादिति भावः । द्रक्ष्यामीति काकुः । वैदेशिकाशंसनमेतत् ॥
असतां धर्मारम्भोऽप्यनर्थहेतुरिति कश्चिद्वक्ति–
धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति ।
काकानामभिषेकेऽकारणतां वृष्टिरनुभवति ॥ ३०७ ॥
धर्मेति । असाधूनां धर्मारम्भेऽपि । अपिनाधर्मारम्भकालीनवार्ता किं वक्तव्येति
व्यज्यते । परहिंसैव प्रयोजिका भवति । परहिंसामुद्दिश्यैवासतां धर्मारम्भ इति भावः ।
अत्र दृष्टान्तमाह — काकानां स्नाने वृष्टिरकारणतां कारणाभावत्वं प्राप्नोति । काकैः
स्नाने कृते वृष्टिर्न भवतीति वृद्धव्यवहारः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता धकारव्रज्या ।
--------------------------------
नकारव्रज्या ।
कश्चित्कांचित्संकेतं वक्ति--
नीरावतरणदन्तुरसैकतसंमेभेदमेदुरैः शिशिरे।
राजन्ति तूलराशिस्थूलपटैरिव तटैः सरितः ॥ ३०८ ॥

नीरावतरणदन्तुरसैकतसं