This page has not been fully proofread.

११२
 
का
धकारव्यमाला ।
 
धकारव्
रज्या ।
 

 
कस्याश्चित्सखी कंचिदन्योक्त्या वक्ति-
-
 
धूमैरश्रु निपातय दह शिखया दहन मलिनयाङ्गारैः ।

जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥ ३०४ ॥

 
धूमैरिति । हे दहन । अनागमनादिना संतापकत्वात्सामर्थ्यविशेषवत्त्वाद्वेति भावः ।

दुर्गतगृहिणीत्यनेन सुरतसौख्याभावो द्योत्यते । शिशिरनिशीत्यनेन यथेच्छसुरतयोग्यत्वं

निशि ध्वन्यते । एवं च त्वदीयदुष्टव्यवहारेणाश्रुसंतापमालिन्यजननेऽपि त्वां सा न

त्यक्ष्यतीति ध्वन्यते ॥
 

 
सखी नायिकामुपदिशति-
-
 
धैर्य निधेहि गच्छतु रजनी सोऽप्यस्तु सुमुखि सोत्कण्ठः ।

प्रविश हृदि तस्य दूरं क्षणधृतमुक्ता स्मरेषुरिव ॥ ३०९ ॥

 
धैर्यमिति । निधेहि कुरु । तस्य हृदि दूरं प्रविश । एवंप्रकारेण सोऽव्यत्यन्तासक्तो

भावीति ध्वन्यते । क्षणभृतमुक्तात्वेनातिभेदकत्वं द्योत्यते । 'इषुर्द्वयोः' इत्यमरः ॥
 

 
घवलनखलक्ष्म दुर्बलमकलितनेपथ्यमल कपिहिताक्ष्याः ।
 

द्रक्ष्यामि मदवलोकद्विगुणाश्रु वपुः पुरद्वारि ॥ ३०६ ॥
 

 
धवलेति । श्वेतनखचिह्नम् । पुराणत्वादिति भावः । दुर्बलम् । विरहक्षीणत्वादिति

भावः । अकलितभूषणम् । असामर्थ्यादिति भावः चूर्णकुन्तलाच्छादितनयनायाः

संस्काराभावादिति भावः । वपुर्मद्विलोकनेन द्विगुणाश्रु । प्रेमभरादिति भावः । पुर-

द्वारि । अत्यन्तविरहेण धैर्याभावादिति भावः । द्रक्ष्यामीति काकुः । वैदेशिकाशंसनमेतत् ॥

 
असतां धर्मारम्भोऽप्यनर्थहेतुरिति कश्चिद्वक्ति–
 

 
धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति ।
 

काकानामभिषेकेऽकारणतां वृष्टिरनुभवति ॥ ३०७ ॥

 
धर्मेति । असाधूनां धर्मारम्भेऽपि । अपिनाधर्मारम्भकालीनवार्ता किं वक्तव्येति

व्यज्यते । परहिंसैव प्रयोजिका भवति । परहिंसामुद्दिश्यैवासतां धर्मारम्भ इति भावः ।

अत्र दृष्टान्तमाह — काकानां स्नाने वृष्टिरकारणतां कारणाभावत्वं प्राप्नोति । काकैः

स्नाने कृते वृष्टिर्न भवतीति वृद्धव्यवहारः ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता धकारव्रज्या ।
 

--------------------------------
 
नकारव्रज्या ।
 

 
कश्चित्कांचित्संकेतं वक्ति-
-
 
नीरावतरणदन्तुरसैकतसंमेदमेदुरैः शिशिरे।GDE
 

राजन्ति तूलराशिस्थूलपटैरिव तटैः सरितः ॥ ३०८ ॥
 
Sri Gurgeshwari Digital Foundation