2023-02-27 22:09:56 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
जयतीति । जटाः किंजल्कानि यत्रेति रूपकम् । एवमग्रेऽपि ॥
संध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् ।
गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥ ६ ॥
संध्येति । कङ्कणरूपफणिपीयमानमपि । कङ्कणपदेन प्रात्यक्षिकत्वं ध्वन्यते । फणि-
पदेन भूषणयोग्यत्वं ध्वन्यते । पीयमानमित्यनेन ज्ञानयोग्यत्वं ध्वन्यते । संध्यासलिला-
ञ्जलिम् । राजदन्तादिवदञ्जलेः सलिलमिति समासः । संध्यापदेन तदेकचित्तावश्यकत्वं
व्यज्यते । अञ्जलिपदेन भूयस्त्वं द्योत्यते । तेन च तत्पानस्य विलम्बसाध्यत्वेनावश्यज्ञेय-
त्वम् । अविजानन् । अत्र हेतुमाह - गौरीमुखार्पितमनाः । गौरीत्यनेन मनःसंलग्नतायो-
ग्यत्वं मुखे ध्वन्यते । अर्पितपदेन ग्रहणायोग्यत्वं ध्वन्यते । एवं चैतादृशविषयज्ञाना-
भावेनात्यन्तासक्तिर्गौर्यो गिरिशस्य व्यज्यते । अत एव । विजया गौरीसखी तया ह-
सितः शिवो जयति । एतादृशपरिहासस्याप्युत्कर्षाधायकत्वादिति भावः ॥
8
प्रतिबिम्बितगौरी मुखविलोकनोत्कम्पशिथिलकरगलितः ।
स्वेदभरपूर्यमाणः शंभोः सलिलाञ्जलिर्जयति ॥ ७ ॥
प्रतीति । सलिलाञ्जलिर्जयति । एवं चाञ्जलिजलप्रतिबिम्बितगौरीवदनविलोकनसं-
जातकम्परूपसात्त्विकभावविश्वथकरगलितत्वेऽपि स्वेदरूपसात्त्विकभावभराकस्मिकपूर-
णात्सर्वोत्कर्षशा लित्वमिति भावः ॥
।
प्रणयकुपितप्रियापदलाक्षासंघ्यानुबन्धमधुरेन्दुः
तद्वलय कनकनिकषग्रावग्रीवः शिवो जयति ॥ ८ ॥
प्रणयेति । प्रणयेन न वास्तवं कुपिता या प्रिया । एवं च चरणप्रणामयोग्यत्वं ध्व-
न्यते । तस्याश्चरणलाक्षारूपसंध्यासंबन्धसुन्दरश्चन्द्रो यस्य । तस्याः पार्वत्याः कङ्कणक-
नकस्य निकषोपलरूपा ग्रीवा यस्य । एवं च मानापनोदनात्कण्ठपुरःसरमालिङ्गना दि
ध्वन्यते । एतादृशः शिवो जयति । प्रियाप्रसादादिति भावः । स्वकार्योद्देशविहितप्रि-
याप्रणामेन संध्याचन्द्रमसोरपि सङ्गसंपादनादयासेन परोपकारित्वलाभादिति भावः ॥
पूर्णनखेन्दुर्द्विगुणितमञ्जीरा प्रेमशृङ्खला जयति ।
हरशशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु ॥ ९ ॥
पूर्णेति । गौर्यावरणाङ्गलिमध्यगुल्फेषु । अत्र मध्यस्याङ्गत्वाभावान्नैकवद्भावः । मध्य-
मपदलोपी समासो वा । पूर्णो नखेन्दुर्यया । पूर्व नखस्यार्धचन्द्रत्वादिति भावः । द्वि-
गुणीकृतं मञ्जीरं यया । पूर्वे मञ्जीरस्यैकगुणत्वादिति भावः । प्रेम्णः शृङ्खला यया । पूर्व
सुवर्णाभरणान्तरवत्त्वेऽपि प्रेमस्थितिसंपादकाभिनवभूषणत्वादिति भावः । एवं च यथा
यथा मानापनोदनं तथा तथा शिरश्चरणसंयोगोऽधिकतरः संवृत्त इति भावः । एवं च
Sri Gurgokwari Digital Foundation