This page has been fully proofread once and needs a second look.

मादेरनर्थकत्वेऽपि त्वदीयदरतरलनेत्रादिभिरेव चित्रधनुष्मानस्तु स्मर इति व्यज्यते ।
'दरतरलेक्षिणि' इति पाठे संबुद्धिः । अथवा हे चञ्चलेक्षिणि, तव वक्षसीषदुन्नमिते, व-
दने चेषद्धसितशालिनि सति पुष्पमास्तां चित्रधनुषाप्यालेख्यगतधनुषापि स्मरोऽधुना
तवैतादृशयौवनकाले वीरः । एवं च कुसुमस्य कार्याक्षमत्वेन तद्रूपधनुषा स्मरस्य वी-
रत्वे न किंचिद्दार्ढ्यमधुना त्वालेख्यगतधनुषापि स्मरस्य जगज्जयः सुकर इति भाव
इत्यर्थः । यद्वा वीरोऽपि स्मरश्चित्ररूपधनुषाप्यास्ताम् । एवं चैतादृशरूपवत्या भवत्यैव
मदनेन विजयः कर्तुं शक्यः । अतो मदनप्राक्तनधनुर्बाणाश्चित्रन्यस्ता इवानर्थकाः
सन्त्विति ध्वन्यते । अथवा कुसुमं रजः । 'अपिः' अवधारणार्थकोऽधुने त्यत्रान्वेति ।
एवं च त्वदीयैतादृशयौवनप्रादुर्भाव एव विजयातिशयसाधनभूतया त्वया मदनधनुर-
नर्थकं जातम्, किमु वाच्यं पुष्पोद्गमोत्तरमिति द्योत्यते ॥
 
नायकसखी नायकं वक्ति--
 
दुष्टसखीसहितेयं पूर्णेन्दुमुखी सुखाय नेदानीम् ।
राकेव विष्टियुक्ता भवतोऽभिमताय निशि भवतु ॥ ३०१ ॥
 
दुष्टसखीति । पूर्णेन्दुवन्मुखं यस्याः । पक्षे पूर्णेन्दुरेव वदनं यस्याः । दुष्टसखीसहि-
तेयं नायिका भद्रायुतपौर्णवासीवाधुना । दिन इत्यर्थः । तवाभिप्रायविषयीभूताय सुखाय
निशि भवतु । यथा दिन एव भद्राया अतिक्रान्तत्वात्पूर्णिमा निशि कार्यार्हा तथा संख्या अ-
न्यत्र रात्रावासक्ततयैतत्सांनिध्याभावेनावश्यं रात्रौ त्वदुपयोगायेयं भविष्यतीति द्योत्यते ॥
 
काचित्कांचिद्वक्ति--
 
दलिते पलालपुञ्जे वृषभं परिभवति गृहपतौ कुपिते ।
निभृतनिभालितवदनौ हलिकवधूदेवरौ हसतः ॥ ३०२ ॥
 
दलित इति । दलित इतस्ततः कृते सति कोपवति गृहपतौ हलिके वृषभं ताडयति
सति । अनेनैव पलालं नाशितमिति धियेति भावः । गुप्तपरस्परकृतावलोकनौ । निभृत-
पदमन्यज्ञानभीतिमावेदयति । हलिकाङ्गनादेवरौ । देवरो भर्तुः कनिष्ठभ्राता । देवरश-
ब्दस्य ससंबन्धिकतया तदीयत्वं लभ्यते । एवं चैतादृक्कार्यकरणानर्हत्वं ध्वन्यते । ह-
सतः । अस्मत्सुरतविमर्दवशात्पलालपुञ्जस्यैतादृश्यवस्थामविज्ञाय निरपराधिनं वृषभमयं
ताडयतीति धियेति भावः । 'पथिकवधू-' इति पाठे देवरेण तन्मातृगृहानयनावसर
इदं कृतमिति काचित्कंचिद्वक्ति । एवं चैतादृशाह्वानमनुचितमिति व्यज्यते ॥
 
महद्भिरेव स्वप्रतापः प्रदर्शनीयः, न लघुभिरिति कश्चिद्वक्ति--
 
दीप्यन्तां ये दीप्त्यै घटिता मणयश्च वीरपुरुषाश्च ।
तेजः स्वविनाशाय तु नृणां तृणानामिव लघुनाम ॥ ३०३ ॥
 
दीप्यन्तामिति । घटिता विधातृनिष्पादिताः ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गधाग्यार्थदीपनया समेता दकारम्व्रज्या ।
---------------------------------------