This page has not been fully proofread.

११०
 
दुर्गतेति । दरिद्रकामिनी । दुर्गतपदेन धात्र्यादिकरणसामर्थ्याभावो व्यज्यते । तनये ।

एवं चातिवात्सल्यमावेद्यते । करुणाशालिनी । नायकसङ्गे स्तन्यहान्या तनयस्य दुःखं

भविष्यतीति धियेति भावः । मुग्धा किं विधेयमिति निश्चयशून्या ॥
 

 
त्वं गेह एव जारोपभोगं सुखेन करोषि नास्माकं स इत्यन्योक्त्या काचित्कांचिद्वक्ति-
-
 
दुर्गतगेहिनि जर्जरमन्दिरसुप्तैव वन्दसे चन्द्रम् ।
 

वयमिन्दुवश्चितदृशो निचुलितदोलाविहारिण्यः ॥ २९७ ॥

 
दुर्गतगेहिनीति । दरिद्रकामिनि । दुर्गतपदेनोदरदरीभरणायेतस्ततः सर्वदा संचरणशी-

लत्वं व्यज्यते । तेन च जारानयनसौकर्यम् । जर्जरम् । एवं च कामुकागमनयोग्यत्वं

व्यज्यते । यन्मन्दिरं तत्र निद्रितैव । एवं चायासाभावो व्यज्यते । चन्द्रम् । एवं च

संतापोपशामकत्वं ध्वन्यते । तेन चावश्य दर्शनीयत्वम् । वञ्चितपदेनातिपश्चात्तापत्त्वमा-

वेद्यते । निचुलिताच्छादिता या दोला तया यो विहारस्तच्छालिन्यः । विहारिण्य इत्य-

नेन बहिर्गमनेऽप्यस्माकं निर्बन्ध इति ध्यन्यते । एवं चैतादृशास्मदीयभाग्यात्तव तादृ-

शदारिद्र्यमेव सम्यगिति । तेन चास्माकमेतद्भाग्यं न सुखदमिति व्यज्यते ॥

 
त्वं न तथा चतुरेति वादिनीं काचित्कांचिद्वक्ति-

 
काव्यमाला ।
 

 
दीपदशा कुलयुवतिर्वैदग्ध्येनैव मलिनतामेति ।
 

दोषा अपि भूषायै गणिकायाः शशिकलायाश्च ॥ २९८ ॥

 
दीपेति । दीपदशा वर्तिः कुलाङ्गना च । विशेषदग्धभावेन चातुर्येण च । मलिनतां

कज्जलादिमत्त्वं पापवत्त्वं च । दोषा अनुचितकारित्वादयः, दोषा रात्रिः ॥

 
सखी नायिकां वक्ति-
-
 
दीर्घगवाक्षमुखान्तर्निपातिनस्तरणिरश्मयः शोणाः ।

नृहरिनखा इव दानववक्षः प्रविशन्ति सौधतलम् ॥ २९९ ॥

 
दीर्घेति । दीर्घपदेन प्रकाशसंपादकत्वं ध्वन्यते । गवाक्षो वातायनं तन्मुख निःसृताः

शोणाः । प्रातःकालीनत्वादिति भावः । सूर्यकिरणा नृसिंहनखा हिरण्यकशिपुवक्षःस्थ-

लमिव सौधतलं प्रविशन्ति । नृहरिनखतुल्यताप्रतिपादनेन प्राणापहारसमदुःखदत्वं ध्व-

न्यते । एवं च सूर्योदयः संवृत्तः, अत इतो निःसारणीयः प्रिय इति व्यज्यते । अत्र

नृहरिपदसांनिध्याद्दानवपदं हिरण्यकशिपुं प्रतिपादयति ॥

 
सखी नायिकां स्तौति -
 
-
 
दरतरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दरहसिते ।
 

आस्तां कुसुमं वीरः स्मरोऽधुना चित्रधनुषापि ॥ ३०० ॥

 
दरेति । अक्षणि नेत्रे ईषच्चञ्चले सति, तवेषदुन्नमिते वक्षसि, मुखे च किंचिद्धसितवति

सति । एवं चाङ्कुरितयौवनात्वेन मुग्धात्वं द्योत्यते । कुसुमं पुष्पमास्ताम् । न किंचिदि-

त्यर्थः । किं तु स्मरो वीरश्चित्रधनुषापि । अपिना शरसंग्रह आस्ताम् । एवं च कुसु-
Sri Gurgeshwari Digital Foundation