This page has not been fully proofread.

तेन । प्रजातेनोत्पन्नेन । अत्रोपसर्गस्तथा नोपयोगीत्याभाति । कुत्सितपुत्रेण । पक्षे कुः
पृथ्वी । किम् । न किंचित्फलमित्यर्थः । येन मङ्गलेनेव स्वीयं कुलमङ्गारकवत्कृतम् ।
प्रज्वालितमिति भावः । पक्षे 'अङ्गारकः कुजो भौमः' इत्यमरः । एवं च दुष्टपुत्रवत्त्वा-
पेक्षयापुत्रतैव सम्यगिति व्यज्यते ॥
 
आपद्यपि शूराणां न नीचकार्यकारित्वमिति कश्चिद्वक्ति--
 
दर्शितचापोच्छ्रायैस्तेजोवद्भिः सुगोत्रसंजातैः ।
हीरैरप्स्वपि वीरैरापत्स्वपि गम्यते नाधः ॥ २९४ ॥
 
दर्शितेति । प्रकटीकृत इन्द्रधनुर्वदुच्छ्रायः कान्त्याधिक्यं धनुष औन्नत्यं च । 'ताप'
इति पाठे कान्तिः प्रतापश्च । तेजः प्रकाशकत्वं सामर्थ्यं च । गोत्रः पर्वतोऽन्वयश्च ।
हीरैर्वनैःज्रैः । अप्स्वपि । 'अप्स्विव' इति क्वचित्पाठः । वीरैरापत्स्वपि नाधो गम्यते । ज-
लसाम्यदर्शनेनापदि मान्द्यसंपादकत्वमावेद्यते । हीरसमताप्रदर्शनेन वीरेष्वतिकाठिन्यं
द्योत्यते । तेन चान्यजन्यभङ्गार्हत्वम् । जले हीरका न मज्जन्तीति [^१]हीरैक परीक्षा ॥
 
अतिसलज्जतया छन्नतनुवैभवादन्यदालोकयन्तीं तन्मध्य एव किंचित्कटाक्षविक्षेपेण
नायकमप्यवलोकयन्तीं नायको वक्ति--
 
दरनिद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून्मे ।
मुग्धे तव दृष्टिरसावर्जुनयन्त्रेषुरिव हन्ति ॥ २९९ ॥
 
दरेति । हे मुग्धे, दरेण भयेन । मुग्धास्वभावसुलभेनेति भावः । निद्राणस्यापि । नि-
लीनस्यापीत्यर्थः । निद्राणपदं निलीनत्वं लक्षयदसमर्थत्वं पराज्ञेयत्वं निभृतकार्यका रित्वं च
व्यनक्ति । स्मरस्य कलाकौशलेन निर्गतासौ तव दृष्टिरर्जुनयन्त्रबाण इव मे प्राणान्हन्ति ।
अपिनैतादृशमदन कौशलनिर्गत दृष्टेरेतादृशकार्यकारित्वं तत्र किमु वाच्यमनिद्रमदन कौशल-
निर्गतदृष्टेः कार्यकारित्वमित्यावेद्यते । यद्वा 'अपिः' निर्गतेत्यत्रान्वेति । एवं च निर्गतमात्रया
दृष्टया प्राणापहरणं क्रियते तत्र का वार्ता प्राप्तया क्रियमाणस्येति व्यज्यते । अथवासून-
पीति योजनया देहादिसमुच्चयः । पक्षे 'पत्री रोप इषुर्द्वयोः' इत्यभिधानादिषुशब्दस्य
स्त्रीलिङ्गतया कौशलेन निर्गतेतीषुविशेषणम् । एवं चैतादृशत्वदीयावलोकनेनाहमतिवि--
कलः, अतो मामालिङ्गनादिना जीवयेति ध्वन्यते । अर्जुनोऽप्यन्यत्र विलोकयन्नन्यल्लक्ष्य-
माजघानेति पुराणप्रसिद्धिः । 'शून्यम्' इति पाठे शून्यमभिसंधिरहितं निर्गता । पक्षे
आकाशम् ॥
 
दारिद्र्यमतिदुःखदमिति कश्चिद्वक्ति--
 
दुर्गतगृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी ।
मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥ २९६ ॥
-----------------------------------------------------------------------------------------
[^]. 'सर्वद्रव्याभेद्यं लघ्वम्भसि तरति रश्मिवत्स्निग्धम् । तडिदनलशऋचापोपमं च
तडिदुनलशफचापोपमं च
वज्रं हितायोक्तम् ॥" इति बृहत्संहिता (८०।१४).