This page has not been fully proofread.

१०८
 
काव्यमाला ।
 
णेन जलाधिक्यादिति भावः । कटाक्षशालिनि । पक्षे कोपवशात्कुटिलभ्रुकुटिमति ।
तव नयने क्षिप्तहले हलधर इव बलदेव इव वलति सति समग्रं नगरमर्जितं स्वाधीनी-
कृतम् । पक्षे युधिष्ठिरं प्रति कोपाद्धस्तिनापुरस्य हलेन विपरीतकरणोद्यमादिति भावः ।
एवं च तव कटाक्षमात्राधीनाः सर्वेऽपि युवान इति नायिकाधिक्यकथनेनान्यनायिका-
निन्दा योयते ॥
 
विरहिणी सखीं वक्ति–
 
दयितप्रार्थितदुर्लभमुखमदिरासारसेकसुकुमारः ।
 
व्यथयति विरहे बकुलः क्व परिचयः प्रकृतिकठिनानाम् ॥ २९० ॥
दयितेति । दयितेन प्रार्थितोऽपि दुर्लभो मुखासवकणसेकस्तेन सुकुमारः संजातप-
ल्लवादिः । 'शोकं जहाति बकुलो मुखसीधुसिक्तः' इति प्रसिद्धिः । प्रकृतिकठिनानाम् ।
काष्ठत्वादिति भावः । यद्वा 'नायक प्रार्थनावगणनापुरःसरमदिरागण्डूषसंपादितपल्लवादिरयं
बकुलो विरहे मां कथं व्यथयति' इति नायकाप्रश्ने केल्यागुत्तरं सख्याः ॥
सखी नायिकां वक्ति-
द्वित्रैरेष्यामि दिनैरिति किं तद्वचसि सखि तवाश्वासः ।
कथयति चिरपथिकं तं दूरनिखातो नखाङ्कस्ते ॥ २९१ ॥
द्वित्रैरिति । द्वित्रिसंख्या कैदिवसैरहमागमिष्यामीति तस्य नायकस्य वचसि । तस्ये-
त्यनेन नायकेऽन्यथाभाषित्वं द्योत्यते । कस्तव समाश्वासः । दूरनिखातो नखाङ्कः । दूर-
प्रवासे गम्भीरनखक्षतस्य कामशास्त्रे विहितत्वादिति भावः । तं नायकं चिरप्रवासिनं
कथयति । एवं च सत्वरमयमायास्यतीति ज्ञानेनान्यनायकसंगतिमकुर्वाणा भ्रान्तासि
त्वमिति व्यज्यते ॥
 
सखी नायिकां वक्ति -
 
दयितस्पर्शोन्मीलितघर्मजलस्खलितचरणनखलाक्षे ।
 
गर्वभरमुखरिते सखि तच्चिकुरान्किमपराधयसि ॥ २९२ ॥
 
दयितेति । प्रियस्पर्शप्रसृतस्वेदजलविचलितचरणनखलाक्षे गर्वभरेण मुखरीकृते सखि
नायक शिरोरुहान्किमित्यपराधयसि । त्वत्सात्त्विकभावरूपस्वेदेनैव चरणनखलाक्षापगमे
प्रियप्रणतिसंलग्नशिरोरुहैर्लाक्षापगतेति मिथ्या तमपराधयसीति भावः । एवं च तवै-
वायमपराध इसि व्यज्यते ॥
 
कश्चिद्दुष्टपुत्रदुःखितो गेहिनीं बक्ति-
दुष्टग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।
भौमेनेव निजं कुलमङ्गारकवत्कृतं येन ॥ २९३ ॥
दुष्टेति । हे गेहिनि, तेन । दुष्टो ग्रह आग्रहो यस्य तेन । पक्षे
 
दुका
 
दुष्टश्चासौ ग्रहश्च
 
Sri Gurgeshwari Digital Fundation