This page has been fully proofread once and needs a second look.

नैतदपि स्थलं रतयोग्यमिति द्योत्यते । गेहे सख्यः । एवं च तासामपि तव लज्जाक-
रणौचित्येन गृहमपि रतानईमिति व्यज्यते । कालासह । सुरतोत्सुकेत्यर्थः । प्रिय । एवं
त्वदाज्ञालङ्घनानर्हाहमित्यावेद्यते । प्रसीद । तत्फलमाह--क्षमख । समयाभावादिति
भावः । ननु कदा समयो भावीत्यत्राह - --अहः प्रयातं गतमेव । एवं चागतप्राया नि-
शैव सुरतयोग्येति ध्वन्यते ॥
 
सखी नायिकामुपदिशति--
 
दधिकणमुक्ताभरणश्वासोत्तुङ्गस्तनार्पणमनोज्ञम् ।
प्रियमालिङ्गति गोपी मन्थश्रममन्थरैरङ्गैः ॥ २८६ ॥
 
दधीति । दधिकणरूपमुक्ताफलानामलंकरणं ययोः । श्वासेन । श्रमजन्येनेति भावः।
उच्चौ यौ स्तनौ तत्समर्पणाभिरामं यथा स्यात्तथा गोपी दधिमथनश्रमनिश्चलाङ्गैः प्रिय-
मालिङ्गति । एवं च शृङ्गारादिरचनां विनापि श्रममगणयित्वैव तथाविधज्ञान विधुरापि
गोपाङ्गना स्वयं प्रियमालिङ्गति, त्वं त्वत्यन्तचतुरापि प्रियालिङ्गने विलम्ब मावहसीति
भ्रान्ता त्वमिति व्यज्यते । तेन च नैवं विधेयमिति । यद्वा यथैककार्यनियुक्तापि गोपी
तत्समयेऽपि प्रियालिङ्गनं करोति तथा त्वयापि विधेयमिति व्यज्यते ॥
 
नायिका सखीं वक्ति--
 
दलितोद्वेगेन सखि प्रियेण लग्नेन रागमावहता ।
मोहयता- शयनीयं ताम्बूलेनेव नीतास्मि ॥ २८७ ॥
 
दलितेति । हे सखि, भञ्जितक्लेशेन । पक्षे चूर्णीकृतपूगवता । कण्ठलग्नेन रागं प्रीतिम्।
पक्षे लौहित्यम् । आवहता। मोहयता विषयान्तरज्ञानाभावं कुर्वता । पक्षे भ्रान्तितिं
नयता । प्रियेण ताम्बूलेनेव शयनं नीतास्मि । एवं च प्रियसङ्गे मम न किमप्यन्यविषयकं
ज्ञानमिति व्यज्यते ॥
 
कश्चित्कंचिद्वक्ति--
 
दृष्टमदृष्टप्रायं दयितं कृत्वा प्रकाशितस्तनया ।
हृदयं करेण ताडितमथ मिथ्या व्यञ्जितत्रपयांया ॥ २८८ ॥
 
दृष्टमिति । अथेत्यनन्तरं हृदयं करेण ताडितम् । अनुचितं मया कृतमिति प्रदर्श-
नार्थमिति भावः । जातिवर्णनमेतत् ॥
 
सखी नायिकां वक्ति--
 
दर्शितयमुनोच्छ्र।ये भ्रूविभ्रमभाजि वलति तव नयने ।
क्षिप्तहले हलधर इव सर्वेवं पुरमर्जितं सुतनु ॥ २८९ ॥
 
दर्शितेति । हे सुतनु, दर्शितो यमुनात उच्छ्राय आधिक्यं यस्य तस्मिन् । श्यामलात्वा-
दिति भावः । पक्षे दर्शितयमुनाधिक्ये । मथुरामण्डले रामहलेन प्रवाहस्य विपरीतकर-