This page has not been fully proofread.

आर्यासप्तशती ।
 
१०७
 
नैतदपि स्थलं रतयोग्यमिति द्योत्यते । गेहे सख्यः । एवं च तासामपि तव लजाक-

रणौचित्येन गृहमपि रतानईमिति व्यज्यते । कालासह । सुरतोत्सुकेत्यर्थः । प्रिय । एवं

च लदाज्ञालङ्घनानर्हाहमित्यावेद्यते । प्रसीद । तत्फलमाह – क्षमख । समयाभावादिति

भावः । ननु कदा समयो भावीत्यत्राह - अहः प्रयातं गतमेव । एवं चागतप्राया नि-

शैव सुरतयोग्येति ध्वन्यते ॥
 

 
सखी नायिकामुपदिशति-
-
 
दधिकणमुक्ताभरणश्वासोत्तुङ्गस्तनार्पणमनोज्ञम् ।
 

प्रियमालिङ्गति गोपी मन्थश्रममन्थरैरङ्गैः ॥ २८६ ॥
 

 
दधीति । दधिकणरूपमुक्ताफलानामलंकरणं ययोः । श्वासेन । श्रमजन्येनेति भावः।

उच्चौ यौ स्तनौ तत्समर्पणाभिरामं यथा स्यात्तथा गोपी दधिमथनश्रमनिश्चलाङ्गैः प्रिय-

मालिङ्गति । एवं च शृङ्गारादिरचनां विनापि श्रममगणयित्वैव तथाविधज्ञान विधुरापि

गोपाङ्गना स्वयं प्रियमालिङ्गति, त्वं त्वत्यन्तचतुरापि प्रियालिङ्गने विलम्ब मावहसीति

भ्रान्ता त्वमिति व्यज्यते । तेन च नैवं विधेयमिति । यद्वा यथैककार्यनियुक्तापि गोपी

तत्समयेऽपि प्रियालिङ्गनं करोति तथा त्वयापि विधेयमिति व्यज्यते ॥
 

 
नायिका सखीं वक्ति-
-
 
दलितोद्वेगेन सखि प्रियेण लग्नेन रागमावहता ।
 

मोहयता- शयनीयं ताम्बूलेनेव नीतास्मि ॥ २८७ ॥
 

 
दलितेति । हे सखि, भजितक्लेशेन । पक्षे चूर्णीकृतपूगवता । कण्ठलग्नेन रागं प्रीतिम्।

पक्षे लौहित्यम् । आवहता। मोहयता विषयान्तरज्ञानाभावं कुर्वता । पक्षे भ्रान्ति ज

नयता । प्रियेण ताम्बूलेनेव शयनं नीतास्मि । एवं च प्रियसङ्गे मम न किमप्यन्यविषयकं

ज्ञानमिति व्यज्यते ॥

 
कश्चित्कंचिद्वक्ति
 
--
 
दृष्टमदृष्टप्रायं दयितं कृत्वा प्रकाशितस्तनया ।
 

हृदयं करेण ताडितमथ मिथ्या व्यञ्जितत्रपयां ॥ २८८ ॥

 
दृष्टमिति । अथेत्यनन्तरं हृदयं करेण ताडितम् । अनुचितं मया कृतमिति प्रदर्श-

नार्थमिति भावः । जातिवर्णनमेतत् ॥
 

 
सखी नायिकां वक्ति -
 
--
 
दर्शितयमुनोच्छ्र।ये भ्रूविभ्रमभाजि वलति तव नयने ।
 

क्षिप्तहले हलधर इव सर्वे पुरमर्जितं सुतनु ॥ २८९ ॥
 

 
दर्शितेति । हे सुतनु, दर्शितो यमुनात उच्छ्राय आधिक्यं यस्य तस्मिन् । श्यामला-

दिति भावः । पक्षे दर्शितयमुनाधिक्ये । मथुरामण्डले रामहलेन प्रवाहस्य विपरीतकर-
Sri Gargeshwari Digital Foundation