2023-03-13 16:43:28 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
लोकेनैव रात्रौ वृतिघटनं विधीयत इति व्यज्यते । तेन च त्वदीय एवायमपराध इति ।
तेन च न कदापि नायिकागुणवर्णनं विधेयमिति ॥
चातुर्यवशात्साधुतामवलम्बमानं मैनमवगणयन्त्वित्यन्योक्त्या कश्चिदुपदिशति--
दाक्षिण्यान्प्म्रदिमानं दधतं मा भानुमेनमवमंस्थाः ।
रौद्रीमुपागतेऽस्मिन्कः क्षमते दृष्टिमपि दातुम् ॥ २८२ ॥
दाक्षिण्यादिति । दाक्षिण्याद्दक्षिणदिक्संबन्धादित्यर्थः । पक्षे चातुर्यात् । मृदुत्वमसं-
तापकत्वम् । पक्षे साधुत्वम् । भजन्तमेनं भानुम् । पक्षे सूर्यतुल्यतेजखिस्विनमित्यर्थः ।
मावगणयेथाः । अस्मिन्रौद्रीमीशानीं दिशम् । पक्षे रोषमित्यर्थः । प्राप्ते दृष्टिमपि दातुं कः
क्षमते । न कोऽपीत्यर्थः । एवं चातिसंतापकत्वं द्योत्यते । यद्वा रौद्री मध्याह्नवेला ॥
कश्चित्पथिकः पथि व्याधबाणाहतिगच्छत्प्राणां हरिणीमालोक्य सखायं वक्ति--
दृष्टट्यैव विरहकातरतारकया प्रियमुखे समर्पितया ।
यान्ति मृगवल्लभायाः पुलिन्दबाणार्दिताः प्राणाः ॥ २८३ ॥
दृष्टट्यैवेति । भिल्लशरपीडिताया हरिण्या वियोगभीतनेत्रकनीनिकया । एवं च मरण-
भीत्यभावो द्योत्यते । अत एव प्रियवदनस्थापितया दृष्टट्यैव न मुखादिद्वारा प्राणाः प्र-
यान्ति । एवं च पश्वङ्गनाया अपि मरणकारणबाणव्यथातोऽपि विरहव्यथा दुःसहा ।
किमु मनुष्याङ्गनाया इति व्यज्यते । तेन च यो हि नायिकां विहाय परदेशे गच्छति
स मृगतुल्यः पशुरिति । यद्वा नायकादपि नायिकाया विरहभीतिरिति व्यज्यते ॥
खलसंगतिर्न विधेयेति कश्चिदुपदिशति--
दूरस्थापितहृदयो गूढरहस्यो निकाममाशङ्कः ।
आश्लेषो बालानां भवति खलानां च संभेदः ॥ २८४ ॥
दूरेति । दूरे स्थापितं हृदयं वक्षःस्थलम् । पक्षेऽन्तःकरणम् । येन सः । गूढं रह-
स्यमन्तःकरणविषयीभूतम् । पक्षे मन्त्रादि । यस्य सः । निकाममत्यन्तमाशङ्का भीतिः ।
पक्षे विश्वासाभावः । यस्य सः । क्वचित् 'गूढरहस्यं निकामसाशङ्कः' इति पाठः । गूढ-
रहस्यमत्यन्तरहस्यम् । बालानां मुग्धाङ्गनानामाश्लेष आलिङ्गनं खलानां च संभेदः सङ्गो
भवति । एवं चोभयोः साम्यं व्यज्यते ॥
असमयरताभिलाषिणं नायकं नायिका वक्ति--
द्वारे गुरवः कोणे शुकः सकाशे शिशुर्गृहे सख्यः ।
कालासह क्षमस्व प्रिय प्रसीद प्रयातमहः ॥ २८५ ॥
द्वार इति । द्वारे गुरवः । एवं च बहिर्गमनानर्हत्वं दर्शनानर्हत्वं च व्यज्यते । कोणे
शुकः। एवं च वचनंनरचनाशीलशुकाधिष्ठानेन कोणदेशेऽपि रतानर्हत्वं ध्वन्यते । सकाशे
शिशुः । एवं च बालकापसारण एतत्कोलाहलादिना निकटवर्तिगुरुजनागमनसंभावनया
तेन च न कदापि नायिकागुणवर्णनं विधेयमिति ॥
चातुर्यवशात्साधुतामवलम्बमानं मैनमवगणयन्त्वित्यन्योक्त्या कश्चिदुपदिशति--
दाक्षिण्यान्
रौद्रीमुपागतेऽस्मिन्कः क्षमते दृष्टिमपि दातुम् ॥ २८२ ॥
दाक्षिण्यादिति । दाक्षिण्याद्दक्षिणदिक्संबन्धादित्यर्थः । पक्षे चातुर्यात् । मृदुत्वमसं-
तापकत्वम् । पक्षे साधुत्वम् । भजन्तमेनं भानुम् । पक्षे सूर्यतुल्यतेज
मावगणयेथाः । अस्मिन्रौद्रीमीशानीं दिशम् । पक्षे रोषमित्यर्थः । प्राप्ते दृष्टिमपि दातुं कः
क्षमते । न कोऽपीत्यर्थः । एवं चातिसंतापकत्वं द्योत्यते । यद्वा रौद्री मध्याह्नवेला ॥
कश्चित्पथिकः पथि व्याधबाणाहतिगच्छत्प्राणां हरिणीमालोक्य सखायं वक्ति--
दृष्
यान्ति मृगवल्लभायाः पुलिन्दबाणार्दिताः प्राणाः ॥ २८३ ॥
दृष्
भीत्यभावो द्योत्यते । अत एव प्रियवदनस्थापितया दृष्
यान्ति । एवं च पश्वङ्गनाया अपि मरणकारणबाणव्यथातोऽपि विरहव्यथा दुःसहा ।
किमु मनुष्याङ्गनाया इति व्यज्यते । तेन च यो हि नायिकां विहाय परदेशे गच्छति
स मृगतुल्यः पशुरिति । यद्वा नायकादपि नायिकाया विरहभीतिरिति व्यज्यते ॥
खलसंगतिर्न विधेयेति कश्चिदुपदिशति--
दूरस्थापितहृदयो गूढरहस्यो निकाममाशङ्कः ।
आश्लेषो बालानां भवति खलानां च संभेदः ॥ २८४ ॥
दूरेति । दूरे स्थापितं हृदयं वक्षःस्थलम् । पक्षेऽन्तःकरणम् । येन सः । गूढं रह-
स्यमन्तःकरणविषयीभूतम् । पक्षे मन्त्रादि । यस्य सः । निकाममत्यन्तमाशङ्का भीतिः ।
पक्षे विश्वासाभावः । यस्य सः । क्वचित् 'गूढरहस्यं निकामसाशङ्कः' इति पाठः । गूढ-
रहस्यमत्यन्तरहस्यम् । बालानां मुग्धाङ्गनानामाश्लेष आलिङ्गनं खलानां च संभेदः सङ्गो
भवति । एवं चोभयोः साम्यं व्यज्यते ॥
असमयरताभिलाषिणं नायकं नायिका वक्ति--
द्वारे गुरवः कोणे शुकः सकाशे शिशुर्गृहे सख्यः ।
कालासह क्षमस्व प्रिय प्रसीद प्रयातमहः ॥ २८५ ॥
द्वार इति । द्वारे गुरवः । एवं च बहिर्गमनानर्हत्वं दर्शनानर्हत्वं च व्यज्यते । कोणे
शुकः। एवं च वच