This page has not been fully proofread.

१०६
 
काव्यमाला ।
 
लोकेनैव रात्रौ वृतिघटनं विधीयत इति व्यज्यते । तेन च त्वदीय एवायमपराध इति ।

तेन च न कदापि नायिकागुणवर्णनं विधेयमिति ॥

 
चातुर्यवशात्साधुतामवलम्बमानं मैनमवगणयन्त्वित्यन्योक्त्या कश्चिदुपदिशति-
-
 
दाक्षिण्यान्प्रदिमानं दधतं मा भानुमेनमवमंस्थाः ।

रौद्रीमुपागतेऽस्मिन्कः क्षमते दृष्टिमपि दातुम् ॥ २८२ ॥
 

 

 
दाक्षिण्यादिति । दाक्षिण्याद्दक्षिणदिक्संबन्धादित्यर्थः । पक्षे चातुर्यात् । मृदुत्वमसं-

तापकत्वम् । पक्षे साधुत्वम् । भजन्तमेनं भानुम् । पक्षे सूर्यतुल्यतेजखिनमित्यर्थः ।

मावगणयेथाः । अस्मिन्रौद्रीमीशानीं दिशम् । पक्षे रोषमित्यर्थः । प्राप्ते दृष्टिमपि दातुं कः

क्षमते । न कोऽपीत्यर्थः । एवं चातिसंतापकत्वं द्योत्यते । यद्वा रौद्री मध्याह्नवेला ॥

 
कश्चित्पथिकः पथि व्याधबाणाहतिगच्छत्प्राणां हरिणीमालोक्य सखायं वक्ति-
-
 
दृष्टयैव विरहकातरतारकया प्रियमुखे समर्पितया ।
 

यान्ति मृगवल्लभायाः पुलिन्दबाणार्दिताः प्राणाः ॥ २८३ ॥
 

 
दृष्टयैवेति । भिल्लशरपीडिताया हरिण्या वियोगभीतनेत्रकनीनिकया । एवं च मरण-

भीत्यभावो द्योत्यते । अत एव प्रियवदनस्थापितया दृष्टयैव न मुखादिद्वारा प्राणाः प्र-

यान्ति । एवं च पश्वङ्गनाया अपि मरणकारणबाणव्यथातोऽपि विरहव्यथा दुःसहा ।

किमु मनुष्याङ्गनाया इति व्यज्यते । तेन च यो हि नायिकां विहाय परदेशे गच्छति

स मृगतुल्यः पशुरिति । यद्वा नायकादपि नायिकाया विरहभीतिरिति व्यज्यते ॥

 
खलसंगतिर्न विधेयेति कश्चिदुपदिशति-

 
-
 
दूरस्थापितहृदयो गूढरहस्यो निकाममाशङ्कः ।
 

आश्लेषो बालानां भवति खलानां च संभेदः ॥ २८४ ॥
 
-
 

 

 
दूरेति । दूरे स्थापितं हृदयं वक्षःस्थलम् । पक्षेऽन्तःकरणम् । येन सः । गूढं रह-

स्यमन्तःकरणविषयीभूतम् । पक्षे मन्त्रादि । यस्य सः । निकाममत्यन्तमाशङ्का भीतिः ।

पक्षे विश्वासाभावः । यस्य सः । क्वचित् 'गूढरहस्यं निकामसाशङ्कः' इति पाठः । गूढ-

रहस्यमत्यन्तरहस्यम् । बालानां मुग्धाङ्गनानामाश्लेष आलिङ्गनं खलानां च संभेदः सङ्गो

भवति । एवं चोभयोः साम्यं व्यज्यते ॥
 

 
असमयरताभिलाषिणं नायकं नायिका वक्ति-
-
 
द्वारे गुरवः कोणे शुकः सकाशे शिशुगृहे सख्यः ।
 

कालासह क्षमस्व प्रिय प्रसीद प्रयातमहः ॥ २८५ ॥
 

 
द्वार इति । द्वारे गुरवः । एवं च बहिर्गमनानर्हत्वं दर्शनानर्हत्वं च व्यज्यते । कोणे

शुकः। एवं च वचनंरचनाशीलशुकाधिष्ठानेन कोणदेशेऽपि रतानर्हत्वं ध्वन्यते । सकाशे

शिशुः । एवं च बालकापसारण एतत्कोलाहलादिना निकटवर्तिगुरुजनागमनसंभावनया
 
Sri Gurgeshwari Digital Foundation