This page has not been fully proofread.

आर्यासप्तशती ।
 
देहस्तम्भः स्खलनं शैथिल्यं वेपथुः प्रियध्यानम् ।
 
सखी नायिकां वक्ति-
१०५
 
पथि पथि गगनाश्लेषः कामिनि कस्तेऽभिसारगुणः ॥ २७७ ॥
देहेति । हे कामिनि, गति निरोधस्खलनशैथिल्य कम्पप्रियतमचिन्तना काशालिङ्गनानि
मार्गे मार्गे, अतस्तेऽभिसारगुणः कः । एवं चाभिसारे सर्वमेतद्विघ्नरूपम्, अतस्त्वयैतन्न वि-
धेयमिति ध्वन्यते । तेन चात्यन्तासक्तिर्नायके तवास्तीति ॥
नायिकासखी नायकं वक्ति--
द्राघयता दिवसानि त्वदीयविरहेण तीव्रतापेन ।
 
ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः ॥ २७८ ॥
द्वाघयतेति । दिवसानि । 'वा तु क्लीबे दिवसवासरौ' इत्यमरः । महत्कुर्वता । दुःखो-
द्रेकात् । तद्दिनमानमाहात्म्यादलसत्वादिति भावः । तीव्रस्तापः संतापो यस्य तेन ।
पक्षे तापो घर्मः । तस्यास्त्वदीयविरहेण नलिन्या ग्रीष्मेणेव जीवनमायुः । पक्षे ज-
लम् । अल्पीकृतम्, न तु नाशितम् । एवं च यथातथैतत्समयोऽतिवाहितस्तया परं तु
वर्षासु प्राणाः परित्याज्या इत्यवगत्य त्वयानुप्राया सेति व्यज्यते ॥
 
दुष्टसंसर्गादपि सांधोः साधुत्वं नापैतीति कश्चिद्वक्ति–
 
दुर्जनसहवासादपि शीलोत्कर्षं न सज्जनस्त्यजति ।
 
प्रतिपर्वतपनवासी निःसृतमात्रः शशी शीतः ॥ २७९ ॥
दुर्जनेति । पर्वामावस्या । अमायां चन्द्रस्य सूर्यान्तर्गतत्वमिति ज्योतिर्वित्प्रवादः ॥
सखी नायिकां वक्ति-
दयितप्रहितां दूतीमालम्ब्यं करेण तमसि गच्छन्ती ।
स्वेदच्युतमृगनाभिर्दूराद्गौराङ्गि दृश्यासि ॥ २८० ॥
 
दयितेति । प्रियप्रेषितां दूतीं करेणालम्ब्यान्धकारे गच्छन्ती स्वेदगलितकस्तूरिका त्वं
गौराङ्गि दूरादृश्यासि । दयितदूतीत्वेनातिप्रियतया तत्करस्पर्शमात्रादेव संजातसात्त्विक
भावस्वेदपूरदूरीभूतान्धकाराभिसरणानुकूलमृगमदवत्तया गौरशरीरतया दूरादपि दृश्या-
सीति भावः । एवं च नायकविषयासक्तिविशेषो ध्वन्यते ॥
 
काचित्कंचिद्वक्ति -
 
दयितागुणः प्रकाशं नीतः स्वस्यैव वदनदोषेण ।
 
प्रतिदिन विदलितवाटीवृतिघटनैः खिद्यसे किमिति ॥ २८१ ॥
दयितागुण इति । स्वस्यैव मुखदोषेण नायिकागुणः प्रकटीकृतः । प्रतिदिनं विघटित
गृहावरणसंपादनैः किमिति खेदं प्राप्नोषि । एवं च त्वदुक्तनायिकागुणश्रवणेनासक्त्या
 
आ० स० १०