This page has been fully proofread once and needs a second look.

न्तुमिच्छतो गजस्येव गौरवगुणोऽपि दोषत्वं प्राप्तः । एवं च त्वत्सदने ममागमनस्यौ-
चित्येऽपि दुष्टप्रतिवेशिभयात्प्रतिष्ठावतोऽन्यत्स्वल्पजनवदागमनमसंभवीति स्वमहत्त्वं मह-
द्दोषत्वेन गणयामि, अतस्त्वयैव मत्सदने समागन्तव्यमिति प्रार्थयामीति ध्वन्यते । यद्वा
पराङ्गनां मानिनीं प्रति कश्चित्संदेशं प्रेषयति । एवं च मम वारंवारागमने दुष्टत्वत्प्रतिवे-
शिजनैरवश्यं ज्ञातव्यम् । अतो मानं त्यत्क्वा त्वयागन्तव्यमिति व्यज्यते ॥
 
परपुरुषसंयोगाभिलाषिणी काचिद्वक्ति--
 
तिमिरेऽपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च ।
शङ्खमयवलयराजी गृहपतिशिरसा सह स्फुटतु ॥ २७४ ॥
 
तिमिर इति । अन्धकारेऽपि दूरतो दृश्या । श्वैत्यादिति भावः । आलिङ्गने क-
ठिना । एकान्ते मुखरा । शङ्खविकारकङ्कणपङ्किक्तिः । गृहपतेर्न तु प्रियस्य । मस्तकेन
सह स्फुटतु । एवं च पतिमरणोत्तरं सुखेन मया स्वेच्छाविहारो विधेय इति व्यज्यते ॥
 
सखी नायिकां वक्ति--
 
तव वृत्तेन गुणेन च समुचितसंपन्नकण्ठलुठनायाः ।
हारस्रज इव सुन्दरि कृतः पुनर्नायकस्तरलः ॥ २७५ ॥
 
तवेति । हे सुन्दरि । एवं चासक्तियोग्यत्वं व्यज्यते । समुचितप्राप्तालिङ्गनायाः ।
पक्षे समुचितं धनिनः कण्ठलुठनं यस्याः । हारस्रज इव मुक्तामालाया इव तव वृत्तेन
शीलेन । पक्षे वर्तुलेन । चातुर्यादिगुणेन । पक्षे सूत्रेण । नायकः कान्तः । पक्षे मु-
ख्यमणि: । तरलश्चञ्चलः । पक्षे हारमध्यगः । पुनर्वारंवारं कृतः । एवं च त्वच्छील-
गुणेष्वासक्त्या स्वधैर्येयं परित्यज्य नायकस्त्वामेवानुचिन्तयन्नास्त इति व्यज्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता तकारव्रज्या ।
----------------------------
 
दकारव्रज्या ।
 
नायकोऽधुना गृहिणीमानापनोदनाय प्रणामादि करिष्यतीति दुःखितां सपत्नीं त-
त्सखी वक्ति--
 
दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोलतलम् ।
चुम्बननिषेधमिषतो वदनं पिदधाति पाणिभ्याम् ॥ २७६ ॥
 
दर्शनेति । दर्शनविनीतमाना । एवं च गुणोत्कर्षशून्यत्वं ध्वन्यते । गृहिणी । हर्षे-
णोल्लसत्कपोलतलं मुखम् । स्वस्येति भावः । चुम्बननिषेधव्याजाद्धस्ताभ्यामाच्छादयति ।
एवं च त्वां विहायागतं नायकमवलोक्य चिरकालीनबह्वपेक्षितदर्शनसंजात हर्षसमुदित-
पुलकगोपनेन स्वस्य सौभाग्याविष्करणायैवमकरोन्न वास्तवमानदार्ढ्यं तस्यामिति द्यो-
त्यते । तेन च नायकप्रणामादीति ॥