This page has been fully proofread once and needs a second look.

प्रेम्णो भङ्गे पुनः संधानं न तथेति काचित्कांचिद्वक्ति--
 
तानवमेत्य च्छिन्नः परोपहितरागमदनसंघटितः ।
कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥ २७० ॥
 
तानवमिति । तानवं स्वल्पत्वम् । पक्षे कार्यम् । प्राप्य च्छिन्नः । परेणान्येनोप-
हितः कृतो रागोऽनुरागो यस्य स चासौ मन्मथसंघटितश्च । कस्यचिद्वचनेन मन्मथ-
विकारेण च पुनः कृत इति भावः । पक्षे परेणान्येन द्रव्येणोपहितो रागो रञ्जनं यस्यै-
तादृङ्ख्दनेन मधूच्छिष्टेन संधानं नीतः कामिनीनां प्रेमा कर्ण इव निर्भर आधिक्यशून्यः ।
पक्षे भरासहः । न शोभते । 'विराजते' इति पाठे काकुः । एवं च त्वया तथा न वि-
धेयं यथा प्रेमभंङ्गो भवेदिति ध्वन्यते ॥
 
'तथाविधगुणाभाववति महन्नामकरणं विडम्बनमात्रफलकम्' इति कश्चित्कंचिद्वक्ति--
 
तस्मिन् गतार्द्रभावे वीतरसे शुण्ठिशकल इव पुरुषे ।
अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय ॥ २७१ ॥
 
तस्मिन्निति । तस्मिन् गत आर्द्रभावः करुणा । पक्षे आर्द्रत्वम् । तस्मिन्नपि । अपि-
रग्रेऽप्यन्वेति । वीतो रसः शृङ्गारादिः । पक्षे पुराणत्वाद्गततिकाक्तादिरसे । 'गतार्द्रभावे
इत्यस्य विवरणं वीतरसे' इति ऋजवः । भूतिरैश्वर्यम् । पक्षे भस्मादि । तद्वति । मलिने
पापवति । पक्ष उज्ज्वलत्वाभाववति । पुरुषे शुण्ठिशकल इव । शकलपदेनानुपयुक्तलंत्वं
ध्वन्यते । नागरशब्दो विडम्बनाय। नगरे भवो नागरः । पक्षे 'अथ शुण्ठी महाषैधम् ।
स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥' इत्यमरः ॥
 
कश्चिद्विपत्तौ कंचिदुद्दिश्य गतः, तेन च संभाषणादिविषयतामप्यनीतः कंचिद-
न्योक्त्या वक्ति--
 
तमसि घने विषमे पथि जम्बुकमुल्कामुखं प्रपन्नाः स्मः ।
किं कुर्मः सोऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥ २७२ ॥
 
तमसीति । निबिडेऽन्धकारे, कठिनतरे पथि, उल्का मुखे यस्य तं जम्बुकं प्रपन्नाः
स्मः । एतन्मुखप्रकाशेनायं मार्गो विलङ्घनीय इति घिधियेति भावः । हे सखे । एवं च
दुःखकथनार्हत्वं द्योत्यते । सोऽपि मुखं मुद्रयित्वैव स्थितः । किमत्र कुर्मः । एवं चा-
स्माकं दुर्दैववशानीचावलम्बनमपि कर्तुमुद्यतानां न तत्र शब्दमात्रावलम्बनं किमुतान्य-
दिति ध्वन्यते ॥
 
कश्चित्कांचिदङ्गनां प्रति वक्ति--
 
त्वामभिलषतो मानिनि मम गरिमगुणोऽपि दोषतां यातः ।
पङ्किलकूलां तटिनीं पिपासतः सिन्धुरस्येव ॥ २७३ ॥
 
त्वामिति । हे मानिनि । मानः प्रतिष्ठा । त्वदभिलाषवतो मम पड्ङ्किलतीरां नदीं ग-