This page has been fully proofread once and needs a second look.

ज्ञेयमिति धियाकारगोपनवानिव । एवं चाकारगोपनस्याशक्यत्वं द्योत्यते । मुखरः । वारं-
वारं त्वत्कथासूत्तरप्रत्युत्तरकारी । एवं च यदि न तव तेन सह संगतिस्तर्हीदृग्व्यवहारस्त-
स्मिन् कथं भवेत् । अतस्त्वयास्मान् प्रतार्य तेन सह संगतिः कृतेति ध्वन्यते । 'पुरतः'
इति पाठे सखीनामस्मद्विधानां पुरतस्त्वद्वदनविनिःसृतमद्गोष्ठीषु सनिन्दसानन्दसावहित्थ
इव मुखरो वक्तुं प्रौढः । अतः खलु त्वया कृतार्थीकृतः । एवं च त्वया सहैतत्संगति-
रस्ति । कथमन्यथा त्वद्वदनविनिःसृतविचित्रवार्ताविज्ञोऽयमिति ध्वन्यते । यद्वा सखीनां
पुरतः सनिन्दसानन्दसावहित्य इव त्वद्विषयकवार्तासु मुखरः । सुभगः । एवं च संग-
तियोग्यत्वं ध्वन्यते । कृतार्थीकृत इति काक्वा प्रश्नः । एवं चैतादृशोऽहर्निशमस्मत्समक्षं
त्वदेकवार्ताविधानप्रवणः सुभगः कथमद्यापि नानुगृह्यते । अपि तु झटित्यनुप्राह्य इति
द्योत्यते ॥
 
नायिकासखी नायकं वक्ति--
 
त्वयि सर्पति पथि दृष्टिः सुन्दर वृतिविवरनिर्गता तस्याः ।
दरतरलभिन्नशैवलजाला शफरीव विस्फुरति ॥ २६७ ॥
 
त्वयीति । हे सुन्दर । एवं च स्पृहणीयत्वं ध्वन्यते । त्वयि मार्गे चलति सति वृति-
रावरणं तद्रन्ध्रनिर्गता तस्या दृष्टिः शैवालप्राबल्यादीषच्चञ्चला चासौ भिन्नशैवलजाला
च शफरीव विस्फुरति । एवं च त्वय्यासक्ता सेति व्यज्यते ॥
 
नायको नायिकां वक्ति--
 
ते सुतनु शून्यहृदया ये शङ्खं शून्यहृदयमभिदधति ।
अङ्गीकृतकरपत्त्रो यस्तव हस्तग्रहं कुरुते ॥ २६८ ॥
 
त इति । हे सुतनु, ये शङ्खं हृदयविहीनम् । यद्वा शून्यं बिन्दुरूपमवकाशरूपं वा हृ-
दयं यस्य । एवं च प्राणशून्यत्वं व्यज्यते । वदन्ति ते हृदयशून्याः । मूर्खा इत्यर्थः । यः
शङ्खोऽङ्गीकृतक्रकचस्तव करग्रहं कुरुते । एवं च यद्ययं हृदयशून्यः स्यात्तर्हि त्वत्करग्र-
हाय करपत्त्रविदारणं कथं कुर्यादिति भावः । एवं च प्रयागे करपत्त्रकर्तनादिना येन श-
रीरं त्यज्यते तेनैव त्वं प्राप्येति व्यज्यते ॥
 
कञ्चन महान्तं गुणिनं सीदन्तं कश्चिदन्योक्त्या वक्ति--
 
ते श्रेष्ठिनः क्व संप्रति शक्रध्वज यैः कृतस्तवोच्छ्रायः ।
ईषां वा मेढिं वाधुनातनास्त्वां विधित्सन्ति ॥ २६९ ॥
 
ते श्रेष्ठिन इति । हे शक्रध्वज, यैस्तवोच्छ्रायः कृतस्ते श्रेष्ठिनो वणिजः संप्रति क्व ।
न सन्तीति भावः । अधुनातनास्त्वामीषां लाङ्गलपद्धति मेढिं स्तम्भं वा करिष्यन्ति ।
एवं चाधुनातनेषु मूर्खत्वं व्यज्यते । एवं च प्राक्तनगुणज्ञसद्वृत्तलोकाभावात्तवैतादृशाः
"क्लेशा इति व्यज्यते । यद्वा प्राक्तनलोकाभावान तव तथाविधप्रतिष्ठादीति कश्चित् कञ्चिद-
न्योक्त्या वक्ति ॥