This page has not been fully proofread.

काव्यमाला ।
 
१०२
ज्ञेय मिति धियाकारगोपनवानिव
 
। एवं चाकारगोपनस्याशक्यत्वं द्योत्यते । मुखरः । वारं-

वारं त्वत्कथासूत्तरप्रत्युत्तरकारी । एवं च यदि न तव तेन सह संगतिस्तर्हीदृग्व्यवहारस्त-

स्मिन्कथं भवेत् । अतस्त्वयास्मान्प्रतार्य तेन सह संगतिः कृतेति ध्वन्यते । 'पुरतः'

इति पाठे सखीनामस्मद्विधानां पुरतस्त्वद्वदनविनिःसृतमद्गोष्ठीषु सनिन्दसानन्दसावहित्य

इव मुखरो वक्तुं प्रौढः । अतः खलु त्वया कृतार्थीकृतः । एवं च त्वया सहैतत्संगति-

रस्ति । कथमन्यथा त्वद्वदनविनिःसृतविचित्रवार्ताविज्ञोऽयमिति ध्वन्यते । यद्वा सखीनां

पुरतः सनिन्दसानन्दसावहित्य इव त्वद्विषयकवार्तासु मुखरः । सुभगः । एवं च संग-

तियोग्यत्वं ध्वन्यते । कृतार्थीकृत इति काक्का प्रश्नः । एवं चैतादृशोऽहर्निशमस्मत्सम

त्वदेकवार्तांविधानप्रवणः सुभगः कथमद्यापि नानुगृह्यते । अपि तु झटित्यनुप्राह्य इति

द्योयते ॥
 

 
नायिकासखी नायकं वक्ति -
 
-
 
त्वयि सर्पति पथि दृष्टिः सुन्दर वृतिविवरनिर्गता तस्याः ।

दरतरलभिन्नशैवलजाला शफरीव विस्फुरति ॥ २६७ ॥

 
त्वयीति । हे सुन्दर । एवं च स्पृहणीयत्वं ध्वन्यते । त्वयि मार्गे चलति सति वृति-

रावरणं तद्रन्ध्रनिर्गता तस्या दृष्टिः शैवालप्राबल्यादीषचञ्चला चासौ भिन्नशैवलजाला

च शफरीव विस्फुरति । एवं च त्वय्यासक्ता सेति व्यज्यते ॥
 

 
नायको नायिकां वक्ति-
-
 
ते सुतनु शून्यहृदया ये शङ्खं शून्यहृदयमभिदधति ।

अङ्गीकृतकरपत्रो यस्तव हस्तग्रहं कुरुते ॥ २६८ ॥
 

 
त इति । हे सुतनु, ये शङ्खं हृदयविहीनम् । यद्वा शून्यं बिन्दुरूपमवकाशरूपं वा ह

दयं यस्य । एवं च प्राणशून्यत्वं व्यज्यते । वदन्ति ते हृदयशून्याः । मूर्खा इत्यर्थः । यः

शङ्खोऽङ्गीकृतक्रकचस्तव करग्रहं कुरुते । एवं च यद्ययं हृदयशून्यः स्यात्तर्हि त्वत्करग्र-

हाय करपत्रविदारणं कथं कुर्यादिति भावः । एवं च प्रयागे करपत्रकर्तनादिना येन श-

रीरं त्यज्यते तेनैव लं प्राप्येति व्यज्यते ॥
 

 
कंचन महान्तं गुणिनं सीदन्तं कश्चिदन्योक्त्या वक्ति-
-
 
ते श्रेष्ठिनः क्व संप्रति शऋध्वज यैः कृतस्तवोच्छ्रायः ।
 
-
 

ईषां वा मेढिं वाधुनातनास्त्वां विधित्सन्ति ॥ २६९ ॥

 
ते श्रेष्ठिन इति । हे शक्रध्वज, यैस्तवोच्छ्रायः कृतस्ते श्रेष्ठिनो वणिजः संप्रति क्व ।

न सन्तीति भावः । अधुनातनास्त्वामीषां लाङ्गलपद्धति मेढिं स्तम्भं वा करिष्यन्ति ।

एवं चाधुनातनेषु मूर्खत्वं व्यज्यते । एवं च प्राक्तनगुणज्ञसद्वृत्तलो काभावात्तवैतादृशाः

"क्लेशा इति व्यज्यते । यद्वा प्राक्तनलोकाभावान तव तथाविधप्रतिष्ठादीति कश्चित्कंचिद-

न्योक्त्या वक्ति ॥
 
Sri Gargeskuari Digital Foundation