This page has been fully proofread once and needs a second look.

ज्यते । विषं मा वम, किं तु संवृण्विति सातङ्कम् । सातङ्कत्वं च सकलजगद्विनाशे पुनस्त-
द्विधानदुष्करत्वविनिर्णयेन । पितामहेन । एवं च भ्रमयोग्यत्वं हरस्य च लज्जायो-
ग्यत्वं ध्वन्यते । प्रातरुक्तः । प्रातरित्यनेन कज्जले स्फुटयोग्यत्वं ध्वन्यते । अतः स-
लज्जः । न त्वपत्रपावान् । पितामहेन कज्जलत्वेनाज्ञानात् । कज्जलमलिनाधरः ।
नेत्रचुम्बनादिति भावः । शंभुः । एवं च कामिनीप्रीत्यतिशयशालित्वं द्योत्यते । जयति ।
पितामहसंत्रासजनकगरलगिलनेन, ब्रह्मणः प्रार्थनया, सुभगकामिनीरतचिह्नत्वेन वा ॥
 
जयति प्रियापदान्ते गरलग्रैवेयकः स्मरारातिः ।
विषमविशिखे विशन्निव शरणं गलबद्धकरवालः ॥ ३ ॥
 
जयतीति । गरलं ग्रैवेयकं कण्ठभूषा यस्य स स्मरारातिः प्रियापदान्ते जयति ।
एवं च कुपितकामिनीप्रसादनकर्तव्यतायाः परमपुरुषार्थत्वं व्यज्यते । गरलग्रैवेयेक इ-
त्यनेन जीवनायोग्यत्वम् । स्मरारातिरित्यनेन स्मरबाधावत्वेन क्वचिदपि सुखावस्थाना-
योग्यत्वं ध्वन्यते । एवं चैतादृशस्यापि सर्वोत्कर्षशालित्वे प्रियापदान्तेऽवस्थितिरेव
हेतुः । अतः प्रियापदान्तावस्थितेर्नान्यदधिकतरं वस्त्विति द्योत्यते । यद्वा गरलग्रैवे-
यक इत्यनेन जीवननिःस्पृहत्वम् । एवं चैतादृशस्यापि कुपितकामिनी प्रसादनलम्पटत्व-
म्, किमुतान्येषामिति ध्वन्यते । गलबद्धखङ्गः । विषमविशिखे । एवं च शरणार्हत्वं
व्यज्यते । शरणं विशन्निव गच्छन्निव । विषमविशिखे विशन्निवेत्युत्प्रेक्षया विषमवि-
शिखस्यापि प्रियापदसांनिध्येनाधिकत्वम्, किं पुनरन्यस्येति द्योत्यते । अत एव स्त्रीणां
चरणे मदन इति कामतन्त्रे । अन्योऽपि शस्त्रं गले बद्ध्वा शरणं गच्छतीति लौकिकम् ॥
 
जयति ललाटकटाक्षः शशिमौले: पक्ष्मलः प्रियाप्रणतौ ।
धनुषि स्मरेण निहितः सकण्टकः केतकेषुरिव ॥ ४ ॥
 
जयतीति । शशिमौले: । एवं च सकलङ्कस्याप्येतादृशादरसंपादनेन संतापातिभी-
रुत्वं ध्वन्यते । तेन च कुपितकामिनीप्रसादनेऽवश्यकर्तव्यत्वम् । पक्ष्मलः प्रशस्तपक्ष्मवा-
न् । पक्ष्मलपदं केतकोत्प्रेक्षादार्ढ्याय । ललाटकटाक्षः । एवं च भ्रूमध्यसंबन्धित्वं द्यो-
त्यते । तेन च धनुर्निहितबाणोत्प्रेक्षादार्ढ्यम् । प्रियाप्रणतौ । प्रियाविषयकहरप्रणतौ
सत्यां जयति । चाटुवचनाद्यसाध्य मानापनोदकार्यकारित्वेनेति भावः । स्मरेण सकण्ट-
कः । एवं च निःसरणानर्हत्वं ध्वन्यते । धनुषि निहितः । न तु शीघ्रं परित्यक्तः ।
एवं च मुष्टिबन्धनदार्ढ्येन भेदविशेषकारित्वम् । तेन च मानलक्ष्यभङ्गेऽतिशीघ्रविधेयत्वं
ध्वन्यते । केतकेषुरिव । स्मरस्य पुष्पसायकत्वादिति भावः । एवं च मानापनोदनत्वं
व्यज्यते । केचित्तु प्रियाकर्तृकसेवाप्रणतौ समान्मथविकारललाटकटाक्षो जयतीत्यपि
बदन्ति ।
 
जयति जटाकिंजल्कं गङ्गामधु मुण्डवलयबीजमयम् ।
गलगरलपङ्कसंभवमम्भोरुहमाननं शंभोः ॥ ५ ॥