2023-02-27 22:10:28 by ambuda-bot
This page has not been fully proofread.
आर्यासप्तशती ।
१०१
यद्वदनं तद्दोषम् । सहमाना मोक्तुम् । त्वामिति भावः । असमर्था । प्रेमवशादिति भावः।
यद्वा कुलीनत्वादिति भावः । सा सुतनुः । विट । न केवलं मौखर्यम्, अपि तु वेश्यासक्ति-
रिति भावः । एवं चोपदेशानर्हत्वं ध्वन्यते । भवन्तं शालभञ्जी काष्ठपुत्तलिका की-
टमिवान्तः खान्तेऽभ्यन्तरे च वहति । एवं चैतादृशान्तर्दुःखशुष्काया अपि तस्यास्त-
वासक्तिरिति व्यज्यते ॥
निरपराधिनं कमपि कैश्चित्पीड्यमानं कश्चिदन्योक्त्या वक्ति -
तृणमुखमपि न खलु त्वां त्यजन्त्यमी हरिण वैरिणः शबराः ।
यशसैव जीवितमिदं त्यज योजितशृङ्गसङ्ग्रामः ॥ २६४ ॥
तृणेति । हे हरिण । तृणमुखमपि । एवं च निरपराधिलं ध्वन्यते । शरणागतत्वं
वा । त्वाममी वैरिणः शबरा भिल्लाः खलु न त्यजन्ति । योजितविषाणयुद्धः कीर्लेवेदं
जीवितं त्यज । एवं च प्रबलदुष्टशत्रुसंबन्धे युद्धेन मरणमेव वरम्, न पुनः पलायनं न
वा शरणगमन मिति व्यज्यते ॥
कश्चिन्मानिनीचरणकृतमस्तकं तया च केशाकर्षणेन दूरीकृतमात्मानं विज्ञाय
तां वक्ति -
त्रिपुररिपोरिव गङ्गा मम मानिनि जनितमदनदाहस्य ।
जीवनमर्पितशिरसो ददासि चिकुरग्रहेणैव ॥ २६५ ॥
त्रिपुरेति । हे मानिनि । जनितो मदनेन दाहो यस्य । पक्षे जनितो मदनस्य दाहो
येन । तस्य । अर्पितमस्तकस्य । चरणयोः प्रणामार्थम् । पक्षे गङ्गाप्रवाहग्रहणार्थमिति
भावः । मम त्वं महादेवस्य गङ्गेव चिकुरग्रहेणैव जीवनं जीवितम् । पक्षे जलम् । द-
दासि । एवं च त्वत्कोपेन जीवननिरपेक्षस्यापि मम क्रोधादपि त्वत्करस्पर्शेन संताप-
निवृत्त्या जीवनं किमु प्रसन्नया त्वया कृतकरस्पर्शेन जीवन मिति ध्वन्यते । गौतमप्रा-
थिंतगङ्गाप्रवाहसहनाय शिवेन शिरोऽग्रे कृतमिति पुराणप्रसिद्धिः ॥
सर्वसखीगोपनपुरःसरं केनचित्सह संयोगं विधाय स्थितां नायिकां काचित्सखी
'लया तेन सह रतं कृतम्' इति वक्ति -
त्वत्संकथासु मुखरः सनिन्दसानन्दसावहित्थ इव ।
स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥ २६६ ॥
त्वदिति । स सुभगो नायकः । सुभगत्वं च सकलसखीगोपनपुरःसरं नायिकया कृ-
तार्थीकरणात् । खलु निश्चयेन सखीनां निभृतं यथा स्यात्तथा । सखीनामिति बहुवच-
नेन सर्वप्रतारणकरणसमर्थायास्तव मत्प्रतारणमतिसुकर मि त्यावेद्यते । त्वया कृतार्थी कृतः ।
यतस्त्वदीयसद्वार्तासु । क्वचिजायमानास्विति भावः । सनिन्द इव । कथमधन्यैरस्म-
त्सदृशैः सा द्रष्टुं शक्येति लोकगोपनार्थमिति भावः । सानन्द इव । तदानीं त्वत्सांनि.
ध्याभावेऽपि त्वत्संनिधानजनितानन्द इव । सावहित्थ इव । केनाप्यानन्दचिह्नं न वि.