This page has not been fully proofread.

नासीत् । तपस्याविभेदायेन्द्रप्रहितोर्वश्याद्यप्सरोऽवगणनादिति भावः । पक्ष उत्तरायणा-
रम्भात् प्रौढतेजसोऽभावादिति भावः । अधुना मधुना वसन्तेन । पक्षे चैत्रेण । मधुप-
दमुन्मादजनकतां व्यञ्जयति । उत्कृष्टोन्मादशालिनं मदनं सूर्यमिव कः सहते । न कोऽपी-
त्यर्थः । एवं च वसन्तकालीनमदन वेदनात्यन्तमसह्येति ध्वन्यते ॥
 
सखी नायिकाविरहं नायकं प्रति वक्ति--
 
त्वद्गमन दिवसगणनावलक्षरेखाभिरङ्किता सुभग ।
गण्डस्थलीव तस्याः पाण्डुरिता भवनभित्तिरपि ॥ २६० ॥
 
त्वद्गमनेति । हे सुभग । एतादृशनायिकाप्रेमसत्त्वादिति भावः । त्वद्गमनदिवसानां
गणना तया वलक्षा अर्जुनाः । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । या रेखास्ताभिश्चि-
ह्निता । इयन्ति दिनानि जातानीति ज्ञानार्थमिति भावः । तस्या गेहभित्तिरपि । एवं च
तद्गेहभुवः का वार्तेति व्यज्यते । गण्डस्थलीव पाण्डुरिता । एवं चातःपरं विलम्बो न
विधेय इति ध्वन्यते ॥
 
कथमन्यत्रानुरागं बध्नासीति वादिनीं सखीं प्रति नायिका वक्ति--
 
तस्याग्राम्यस्याहं सखि वक्रस्निग्धमधुरया दृष्ट्या ।
विद्धा तदेकनेया पोत्रिण इव दंष्ट्रया धरणी ॥ २६१ ॥
 
तस्येति । हे सखि । एवं च रहस्यकथनार्हत्वं ध्वन्यते । तस्याग्राम्यस्य । नागरिक-
स्येत्यर्थः । एवं चासक्तियोग्यत्वं ध्वन्यते । पक्षे वन्यस्य । वक्रप्रेमार्द्रसु-
न्दरया । 'तीव्र' इति पाठे वेधजननयोग्यत्वं ध्वन्यते । दृष्ट्या विद्वाधा । विद्धापदमन्यत्र-
गमनानर्हत्वं ध्वनयति । पोत्रिणो वराहस्य दंष्ट्रया धरणीवाहं तदेकनेया । एवं चान्यत्र
न ममानुराग इति द्योत्यते ॥
 
बहुतरवसुसत्त्वेऽपि कुग्रामे वसतौ केवलं तव चण्डालानुग्रहादेवाभयं नान्यत इति
कश्चित्कं कञ्चिदन्योक्त्या वक्ति--
 
त्वयि कुग्रामवद्रुम वैश्रवणो वसतु वसतु वा लक्ष्मीः ।
पामर कुठारपातात् कासरशिरसैव ते रक्षा ॥ २६२ ॥
 
त्वयीति । हे कुग्रामवद्रुम । कुग्रामपदेन निवासानर्हत्वं द्योत्यते । वैश्रवणः कुबेरः ।
'किंनरेशो वैश्रवणः' इत्यमरः । वसतु । अथवा लक्ष्मीर्वसतु । पामरस्य मूर्खस्य । एवं
च कुबेरादिवसत्या छेदानर्हत्वज्ञानविधुरत्वमिति व्यज्यते । कुठारपातात्ते रक्षणं कास-
रस्य महिषस्य मस्तकेनैव । चण्डालसदनस्थत्वादिति भावः ॥
 
नायिकासखी नायकं वक्ति--
 
तव मुखर वदनदोषं सहमाना मोक्तुमक्षमा सुतनुः ।
सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥ २६३ ॥
 
तवेति । हे मुखर, तव वदनदोषम् । असमीचीनभाषणमिति भावः । यद्वा मुखरं