2023-03-12 14:01:27 by Pathan Vali Khan
This page has not been fully proofread.
तवेति । विस्तारिता रात्रिर्येन तस्मिन् । निद्राविरहादिति भावः । पक्षे रात्रिमान-
स्याधिक्यादिति भावः । जनितश्चन्द्रचन्दनद्वेषो येन तस्मिन् । उद्दीपकत्वादिति भावः ।
पक्षे शीतलत्वादिति भावः । तव विरहे माघमासे बिसिनीव सा हुताशेनामिग्निं विना
दग्धा । हिमेन बिसिनीविनाशनमिति लोकप्रसिद्धिः । एवं चैतादृशैतत्कालीन नायिकाव-
स्थास्ति, अतोऽवश्यं भवतानुग्राह्या सेति व्यज्यते ॥
सखी नायिकां वक्ति--
तरुणि त्वच्चरणाहतिकुसुमित कङ्केल्लिकोरकप्रकरम् ।
कुटिलचरिता सपत्नी न पिबति बत शोकविकलापि ॥ २९५६ ॥
तरुणीति । हे तरुणि । एवं च नायकासक्तियोग्यत्वं ध्वन्यते । त्वच्चरणहननजात-
कुसुमाशोककलिकासमूहम् । 'कलिका कोरकः पुमान्' इत्यमरः । कुटिलाचरणा स-
पत्नी शोकविकलापि न पिबति । अशोककलिकारसपानेन शोकहानिर्भवतीति लौकि-
कम् । एवं च शोककालेऽप्येतादृशद्वेषवत्त्वेन समीचीनकाले किं किं तया न विधेयम्,
अतस्त्वया सर्वप्रकारेण मानाद्यपहाय नायकोऽनुरञ्जनीय इति व्यज्यते ॥
कश्चिन्नायिकां स्तौति--
तल्पे प्रभुरिव गुरुरिव मनसिजतन्त्रे श्रमे भुजिष्येव ।
गेहे श्रीरिव गुरुजनपुरतो मूर्तेव सा. ब् व्रीडा ॥ २१५७ ॥
तल्प इति । प्रभुरिव । प्रौढिमत्त्वादिति भावः । तन्त्रं शास्त्रम् । गुरुरिव । मन्मथ-
कलाकलापोपदेशकत्वादिति भावः । भुजिष्या दासी । एवं चैतादृशी नायिका नान्येति
ध्वन्यते । तेन च तद्वत्तया स्वाधिक्यम् ॥
नायकः पुष्पितां नायिकां वक्ति--
त्वमलभ्या मम तावन्मोक्तुमशक्तस्य संमुखं व्रजतः ।
छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥ २९५८ ॥
त्वमिति । संमुखं व्रजतः । चुम्बनार्थमिति भावः । मोक्तुमशक्तस्य । आसक्तिविशे-
षादिति भावः । ममापसरन्ती । स्पर्शानर्हत्वादिति भावः । भित्त्या कुड्यादिना यावत्रन्न
निवार्य सेऽपसरणप्रतिबन्धवती न क्रियसे तावत्त्वं छायेवालभ्या । एवं च भित्तिप्रतिब-
द्धापसरणां त्वां विना चुम्बनदानं न विमोचयामीति व्यज्यते ॥
वसन्ते मदनवेदनासह्येति कश्चिद्वक्ति--
तपसा क्लेशित एष प्रौढबलो न खलु फाल्गुनेऽप्यासीत् ।
मधुना प्रमत्तमधुना को मदनं मिहिरमिव सहते ॥ २५९ ॥
तपसेति । तपसा तपश्चर्यया । पक्षे माघमासेन । क्लेशिते । कार्यश्यं गमित इत्यर्थः ।
पक्षे क्लेशिते । निस्तेजस्कत्वादिति भावः । फाल्गुनेऽर्जुने । पक्षे मासि । एष मदनो मि.
हिरश्च । खलु निश्चयेन प्रौढबलोऽपि । अपिना प्रौढबलफलजनकत्वाभावो द्योलत्यते ।
स्याधिक्यादिति भावः । जनितश्चन्द्रचन्दनद्वेषो येन तस्मिन् । उद्दीपकत्वादिति भावः ।
पक्षे शीतलत्वादिति भावः । तव विरहे माघमासे बिसिनीव सा हुताशेना
दग्धा । हिमेन बिसिनीविनाशनमिति लोकप्रसिद्धिः । एवं चैतादृशैतत्कालीन
स्थास्ति, अतोऽवश्यं भवतानुग्राह्या सेति व्यज्यते ॥
सखी नायिकां वक्ति--
तरुणि त्वच्चरणाहतिकुसुमित
कुटिलचरिता सपत्नी न पिबति बत शोकविकलापि ॥ २
तरुणीति । हे तरुणि । एवं च नायकासक्तियोग्यत्वं ध्वन्यते । त्वच्चरणहननजात-
कुसुमाशोककलिकासमूहम् । 'कलिका कोरकः पुमान्' इत्यमरः । कुटिलाचरणा स-
पत्नी शोकविकलापि न पिबति । अशोककलिकारसपानेन शोकहानिर्भवतीति लौकि-
कम् । एवं च शोककालेऽप्येतादृशद्वेषवत्त्वेन समीचीनकाले किं किं तया न विधेयम्,
अतस्त्वया सर्वप्रकारेण मानाद्यपहाय नायकोऽनुरञ्जनीय इति व्यज्यते ॥
कश्चिन्नायिकां स्तौति--
तल्पे प्रभुरिव गुरुरिव मनसिजतन्त्रे श्रमे भुजिष्येव ।
गेहे श्रीरिव गुरुजनपुरतो मूर्तेव सा
तल्प इति । प्रभुरिव । प्रौढिमत्त्वादिति भावः । तन्त्रं शास्त्रम् । गुरुरिव । मन्मथ-
कलाकलापोपदेशकत्वादिति भावः । भुजिष्या दासी । एवं चैतादृशी नायिका नान्येति
ध्वन्यते । तेन च तद्वत्तया स्वाधिक्यम् ॥
नायकः पुष्पितां नायिकां वक्ति--
त्वमलभ्या मम तावन्मोक्तुमशक्तस्य संमुखं व्रजतः ।
छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥ २
त्वमिति । संमुखं व्रजतः । चुम्बनार्थमिति भावः । मोक्तुमशक्तस्य । आसक्तिविशे-
षादिति भावः । ममापसरन्ती । स्पर्शानर्हत्वादिति भावः । भित्त्या कुड्यादिना याव
निवार्य
द्धापसरणां त्वां विना चुम्बनदानं न विमोचयामीति व्यज्यते ॥
वसन्ते मदनवेदनासह्येति कश्चिद्वक्ति--
तपसा क्लेशित एष प्रौढबलो न खलु फाल्गुनेऽप्यासीत् ।
मधुना प्रमत्तमधुना को मदनं मिहिरमिव सहते ॥ २५९ ॥
तपसेति । तपसा तपश्चर्यया । पक्षे माघमासेन । क्लेशिते । कार्
पक्षे क्लेशिते । निस्तेजस्कत्वादिति भावः । फाल्गुनेऽर्जुने । पक्षे मासि । एष मदनो मि.
हिरश्च । खलु निश्चयेन प्रौढबलोऽपि । अपिना प्रौढबलफलजनकत्वाभावो द्यो