This page has been fully proofread once and needs a second look.

त्वद्विरहेति । सा तन्वङ्गी त्वद्विरहापदि पाण्डुः केवलया छाययैव कान्त्यैव । पक्षे
यथाश्रुतम् । ज्योत्स्नायां हंसीव । सुभग । यत एतादृश्यपि नायिका वद्विरहेण खिद्यत
इति भावः । प्रत्यभिज्ञेया ज्ञातुं शक्या । एवं चातिक्षीणत्वमावेद्यते । अत्र केवलपदैव-
कारान्यतरदनर्थकमाभाति ॥
 
कथमितो गतेयमिति वादिनं नायकं नायिकासखी वक्ति--
 
त्वयि विनिवेशितचित्ता सुभग गता केवलेन कायेन ।
घनजालरुद्धमीना नदीव सा नीरमात्रेण ॥ २५२ ॥
 
त्वयीति । हे सुभग । नायिकासक्तिमत्त्वादिति भावः । त्वयि विनिवेशितम् । बुद्धि-
पुरःसरं स्थापितमिति भावः । चित्तं यया । केवलशरीरेण गता । अत्र दृष्टान्तमाह--
निबिडं यज्जालं तद्रुद्धमत्स्या जलमात्रेण गता नदीव । चेतसश्चाञ्चल्यान्मत्स्यसाम्यम् ।
एवं च पुनरधुनैवायास्यतीति व्यज्यते ॥
 
त्वय्यासक्तिवशादत्यन्तदुःखभागिनी कामिनी संजातेति सखी नायकं वक्ति--
 
त्वयि संसक्तं तस्याः कठोरतर हृदयमसमशरतरलम् ।
मारुतचलमञ्चलमिव कण्टकसंपर्कतः स्फुटितम् ॥ २५३ ॥
 
त्वयीति । हे कठोरतर । कथमन्यथैतादृशमौदासीन्यं कृतवानिति भावः । त्वयि
संसक्तम् । आसक्तिमदिति भावः । 'सं'पदेन निःसारणानर्हत्वं व्यज्यते । मदनचपलं
तस्या हृदयं वायुचञ्चलं कण्टकसंलग्नमञ्चलमिव विदीर्णम् । मारुतचलकण्टकसंपर्कार्था-
न्वययोग्यतावशादञ्चलपदेन चेलाञ्चल एव प्रतीयते । अत्र कण्टकसाम्येन नायिकाचि-
त्तवेधक्षमत्वं नायके द्योत्यते । अञ्चलसाम्येन नायिकाचित्ते सूक्ष्मत्वं ध्वन्यते । मारुत-
साम्येन सर्वगततया निवारणानर्हत्वं ध्वन्यते ॥
 
यद्यपि त्वया भूयसी लज्जा क्रियते तथापि बहवस्त्वय्यासक्ता इति सखी नायिका-
मन्योक्त्या वक्ति--
 
त्वमसूर्यंपश्या सखि पदमपि न विनापवारणं भ्रमसि ।
छाये किमिह विधेयं मुञ्चन्ति न मूर्तिमन्तस्त्वाम् ॥ २५४ ॥
 
त्वमिति । हे छायारूपे सखि, त्वं सूर्यदर्शनं न करोषि । छायाया अधोमुखत्वान्न
सूर्यदर्शनम् । अपवारणमन्तर्धिं विना पदमपि न भ्रमसि छायाप्यन्तर्धिं विना न
भवति । मूर्तिमन्तः । सर्वेऽपीत्यर्थः । पक्ष इयत्तावच्छिन्नपरिमाणशालिनः । त्वां न
मुञ्चन्ति । इह किं विधेयम् । एवं चात्र न ममापि प्रतीकारस्फुरणमिति भावः । एवं
चैतादृशलजाकरणमनर्थकमिति द्योयते ॥
 
नायिकाविरहदुःखातिशयं सखी नायकं वक्ति--
 
तव विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे ।
बिसिनीव माघमासे विना हुताशेन सा दुग्धा ॥ २५५ ॥