This page has not been fully proofread.

९८
 
काव्यमाला ।
 
त्वद्विरहेति । सा तन्वङ्गी वद्विरहापदि पाण्डुः केवलया छाययैव कान्त्यैव । पक्षे

यथाश्रुतम् । ज्योत्स्नायां हंसीव । सुभग । यत एतादृश्यपि नायिका वद्विरहेण खिद्यत

इति भावः । प्रत्यभिज्ञेया ज्ञातुं शक्या । एवं चातिक्षीणत्वमावेद्यते । अत्र केवलपदैव-

कारान्यतरदनर्थकमाभाति ॥
 

 
कथमितो गतेयमिति वादिनं नायकं नायिकासखी वक्ति-
-
 
त्वयि विनिवेशितचित्ता सुभग गता केवलेन कायेन ।

घनजालरुद्धमीना नदीव सा नीरमात्रेण ॥ २१२ ॥
 

 
त्वयीति । हे सुभग । नायिकासक्तिमत्त्वादिति भावः । त्वयि विनिवेशितम् । बुद्धि-

पुरःसरं स्थापितमिति भावः । चित्तं यया । केवलशरीरेण गता । अत्र दृष्टान्तमाह-

निबिडं यजालं तद्रुद्धमत्स्या जलमात्रेण गता नदीव । चेतसञ्चाञ्चल्यान्मत्स्यसाम्यम् ।

एवं च पुनरधुनैवायास्यतीति व्यज्यते ॥
 

 
त्वय्यासक्तिवशादत्यन्तदुःखभागिनी कामिनी संजातेति सखी नायकं वक्ति -
-
 
त्वयि संसक्तं तस्याः कठोरतर हृदयमसमशरतरलम् ।

मारुतचलमञ्चलमिव कण्टकसंपर्कतः स्फुटितम् ॥ २९३ ॥
 

 
त्वयीति । हे कठोरतर । कथमन्यथैतादृशमौदासीन्यं कृतवानिति भावः । त्वयि

संसक्तम् । आसक्तिमदिति भावः । 'सं' पदेन निःसारणानर्हत्वं व्यज्यते । मदनचपलं

तस्या हृदयं वायुचञ्चलं कण्टकसंलग्नमञ्चलमिव विदीर्णम् । मारुतचलकण्टकसंपर्कार्थी-

न्वययोग्यतावशादञ्चलपदेन चेलाञ्चल एव प्रतीयते । अत्र कण्टकसाम्येन नायिकाचि-

त्तवेधक्षमत्वं नायके द्योत्यते । अञ्चलसाम्येन नायिकाचित्ते सूक्ष्मत्वं ध्वन्यते । मारुत-

साम्येन सर्वगततया निवारणानर्हत्वं ध्वन्यते ॥
 

 
यद्यपि त्वया भूयसी लजा क्रियते तथापि बहवस्त्वय्यासक्ता इति सखी नायिका

मन्योक्त्या वक्ति-
-
 
त्वमसूर्येपश्या सखि पदमपि न विनापवारणं भ्रमसि ।
 

छाये किमिह विधेयं मुञ्चन्ति न मूर्तिमन्तस्त्वाम् ॥ २९४ ॥

 
त्वमिति । हे छायारूपे सखि, त्वं सूर्यदर्शनं न करोषि । छायाया अधोमुखत्वान्न

सूर्यदर्शनम् । अपवारणमन्तधि विना पदमपि न भ्रमसि छायाप्यन्तधि विना न

भवति । मूर्तिमन्तः । सर्वेऽपीत्यर्थः । पक्ष इयत्तावच्छिन्नपरिमाणशालिनः । त्वां न

मुञ्चन्ति । इह किं विधेयम् । एवं चात्र न ममापि प्रतीकारस्फुरणमिति भावः । एवं

चैतादृशलजाकरणमनर्थकमिति द्योयते ॥
 

 
नायिकाविरहदुःखातिशयं सखी नायकं वक्ति-

-
 
तव विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे ।
बिसिनीव माघमासे विना हुताशेन सा दुग्धा ॥ २५९ ॥
 
तव विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे GDF
 
Su Gurgeshwari Digital Fundation