This page has not been fully proofread.

तकारव्रज्या ।
 
नायिकासखी नायकं वक्ति--
 
तां तापयन्ति मन्मथबाणास्त्वां प्रीणयन्ति बत सुभग ।
तपनकरास्तपनशिलां ज्वलयन्ति विधुं मधुरयन्ति ॥ २४८ ॥
 
तामिति । मदनबाणास्तां नायिकां तापयन्ति । त एव बाणा हे सुभग । दुःखदबा-
णानामपि सुखदत्वादिति भावः । त्वां तोषयन्ति । एवं च कथमन्यथैतादृशविलम्बकरण-
मिति व्यज्यते । नन्विदमसंभवीत्यत्र दृष्टान्तमाह--तपनकिरणास्तपनशिलां ज्वलय-
न्ति । तपनशिलासाम्येन स्वीयात्वप्रतिपादनेन तत्तुल्यत्वं नायिकायामावेद्यते । विधुं च-
न्द्रम् । एवं च चन्द्रसाम्येन संतापापनोदकत्वेन नायिकास्पृहणीयत्वं नायके द्योत्यते ।
यद्वा मदनतुल्यरूपशालित्वेन मदनविरोधित्वं नायके द्योत्यते । तेन च पीडाकरणौचि-
त्येऽपि तदकरणेनाज्ञत्वं मदने व्यज्यते । मधुरयन्ति । पुष्टिदत्वादिति भावः । यद्वा त-
पनखिन्नानामेव चन्द्रमसः सुखदत्वादिति भावः ॥
 
कश्चित् काञ्चिद्वक्ति--
 
तव सुतनु सानुमत्या बहुधातुजनितनितम्बरागायाः ।
गिरिवरभुव इव लाभेनाप्नोमि द्व्यङ्गुलेन दिवम् ॥ २४९ ॥
 
तवेति । हे सुतनु । एवं च स्पृहणीयत्वं ध्वन्यते । यद्वदसि तद्विधेयं मयेत्यनुमतिस-
हितायाः । पक्षे शिखरवत्याः । तु इति निश्चयेन बहुप्रकारमुत्पादितो नितम्बे रागः
प्रीतिर्यया तस्याः । पक्षे बहुप्रकारगैरिकादिधातुभिर्जनितो नितम्बे कटके । 'कटकोऽस्त्री
नितम्बोऽद्रेः' इत्यमरः । रागो लौहित्यादिर्यस्याः । हिमालयवसुधाया इव तव लाभेन
द्व्यङ्गुलेन स्वर्गं प्राप्नोमि । लाभे इति छेदे नञि काकुः । 'आप्नोति' इति पाठे मल्लक्षण
इति शेषः । एवं च तव प्राप्तिहर्षोत्कर्षेणाहं स्वर्गमपि द्व्यङ्गुलान्तरितं मन्य इति भावः ।
एवं च त्वत्प्राप्त्या स्वर्गसुखमपि ममात्यन्तनिकटमिति व्यज्यते ॥
 
काचिन्नायिका सखीं वक्ति--
 
त्यक्तो मुञ्चति जीवनमुज्झति नानुग्रहेऽपि लोलत्वम् ।
किं प्रावृषेव पद्माकरस्य करणीयमस्य मया ॥ २५० ॥
 
व्यक्त इति। त्यक्तो जीवनं प्राणनम् । पक्षे जलम् । त्यजति । अनुग्रहेऽपि लोलत्वं
चाञ्चल्यम् । पक्ष उच्छलद्वीचिकत्वम् । नोज्झति । प्रावृषा पद्माकरस्येव तडागस्येव म
यास्य किं करणीयम् । एवं चोभयतोऽपि काठिन्यं ममेति ध्वन्यते ॥
 
नायिकात्यन्तं त्वद्विरहक्षीणेति सखी नायकं वक्ति---
 
त्वद्विरहापदि पाण्डुस्तन्वङ्गी छाययैव केवलया ।
हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥ २५१ ॥