This page has not been fully proofread.

केवलं सेवां कारयसि । अत्र दृष्टान्तमाह--चन्द्रो दिशम् । अन्यखास्वामिकामिति भावः ।
आलिङ्गति । स्शिलां जलं वाहयति । चन्द्रोदये चन्द्रोपलानां स्रवणं भवतीति लोकप्र-
सिद्धिः । एवं चैतादृशकार्यकरणेन कलङ्कादिभूषणमेव भावीति द्योत्यते । तेन नैतादृक्क-
र्तव्यमिति । यद्वा सिद्धानुवादोत्तरमुत्तरार्धम् । अत्र 'वह प्रापणे' इत्यस्य गत्यर्थकत्वेन
प्राप्तद्विकर्मकत्वस्य 'नीवह्योर्न' इति निषेधाच्छिलयेत्यपेक्षितम् ॥
 
कश्चित्कां काञ्चित् संकेतं वक्ति--
 
ज्योत्स्नागर्मितसैकतमध्यगतः स्फुरति यामुनः पूरः ।
दुग्धनिधौ नागाधिपतल्पतले सुप्त इव कृष्णः ॥ २४५ ॥
 
ज्योस्नेति । चन्द्रिकायां गर्भितम् । चन्द्रिकागर्भमध्ये स्थितमिति भावः । क्वचित् 'ग-
विंर्वित' इति पाठः । यत्सैकतं तन्मध्यगतः । एवं च शरत्कालीनवं व्यज्यते । तेन च
निश्चलत्वम् । यमुनासंबन्धी पूरः स्फुरति । अत्र दृष्टान्तमाह - --दुग्धसमुद्रे शेषरूपतल्पे ।
तल्पपदेन समत्वमावेद्यते । सुप्तः कृष्ण इव । सर्वतो विद्यमानतयोज्ज्वलतया चन्द्रि-
कायां दुग्धोदधेः, लम्बतया श्वैत्याच्च सैकते शेषस्य, श्यामतया निश्चलतया च पूरे
सुप्तकृष्णस्योपमानता । एवं च यमुनासैकततुल्यं नान्यस्थलमिति व्यज्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्यङ्गथाग्यार्थदीपनया समेता जकारव्रज्या ।
----------------------------------
 
झकारव्रज्या ।
 
नायको नायिकां वक्ति--
 
झंकृतकङ्कणपाणिक्षेपैः स्तम्भावलम्बनैर्मौनैः ।
शोभयसि शुष्करुदितैरपि सुन्दरि मन्दिरद्वारम् ॥ २४६ ॥
 
झंकृतेति । एवं चैतादृश्यवस्थितिरपि नवोढाया नायकसुखदेति व्यज्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता झकारव्रज्या ।
-------------------------------
 
ढकारव्रज्या ।
 
नायकीयोन्माददौःशील्यमाकलय्य स्वयमपि दौःशील्यं विधातुकामां नायिकां सखी वक्ति--
 
ढक्कामाहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ।
स्त्रीणां करिणीनामिव मदः पुनः स्वकुलनाशाय ॥ २४७ ॥
 
ढक्कामिति । ढक्कां यशःपटहम् । 'स्याद्यशःपटहो ढक्का' इत्यमरः । आहत्य वादयित्वा
करिण इव पुरुषा बहुकालं मदं वितन्वते । करिणीनामिव स्त्रीणां मदः स्वकुलनाशाय ।
एवं च पुरुषाणां मदो यशसे, स्त्रीणां तु कुलकलङ्कायेति व्यज्यते । तेन च त्वयैतादृङ्नसि
न विधेयमिति ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता ढकारव्रज्या ।
--------------------------------