This page has not been fully proofread.

९६
 
काव्यमाला ।
 
केवलं सेवां कारयसि । अत्र दृष्टान्तमाह–चन्द्रो दिशम् । अन्यखामिकामिति भावः ।

आलिङ्गति । स्खशिलां जलं वाहयति । चन्द्रोदये चन्द्रोपलानां स्रवणं भवतीति लोकप्र-

सिद्धिः । एवं चैतादृशकार्यकरणेन कलङ्कादिभूषणमेव भावीति द्योत्यते । तेन नैतादृक्क-

र्तव्यमिति । यद्वा सिद्धानुवादोतरमुत्तरार्धम् । अत्र 'वह प्रापणे' इत्यस्य गत्यर्थकत्वेन

प्राप्तद्विकर्मकत्वस्य 'नीवह्योर्न' इति निषेधाच्छिलयेत्यपेक्षितम् ॥

 
कश्चित्कांचित्संकेतं वक्ति-
-
 
ज्योत्स्नागर्मितसैकतमध्यगतः
 
स्फुरति यामुनः पूरः ।
 

दुग्धनिधौ नागाधिपतल्पतले सुप्त इव कृष्णः ॥ २४५ ॥

 
ज्योस्नेति । चन्द्रिकायां गर्भितम् । चन्द्रिकागर्भमध्ये स्थितमिति भावः । क्वचित् 'ग-

विंत' इति पाठः । यत्सैकतं तन्मध्यगतः । एवं च शरत्कालीनवं व्यज्यते । तेन च

निश्चलवम् । यमुनासंबन्धी पूरः स्फुरति । अत्र दृष्टान्तमाह - दुग्धसमुद्रे शेषरूपतल्पे ।

तल्पपदेन समत्वमावेद्यते । सुप्तः कृष्ण इव । सर्वतो विद्यमानतयोज्ज्वलतया चन्द्रि-

कायां दुग्धोदधेः, लम्बतया वैत्याच्च सैकते शेषस्य, श्यामतया निश्चलतया च पूरे

सुप्तकृष्णस्योपमानता । एवं च यमुनासैकततुल्यं नान्यस्थलमिति व्यज्यते ॥

 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्यङ्गथार्थदीपनया समेता जकारव्रज्या ।
 

----------------------------------
 
झकारव्रज्या ।
 

 
नायको नायिकां वक्ति-
-
 
झंकृतकङ्कणपाणिक्षेपैः स्तम्भावलम्बनैमनैः ।
 

शोभयसि शुष्करुदितैरपि सुन्दरि मन्दिरद्वारम् ॥ २४६ ॥

 
झंकृतेति । एवं चैतादृश्यवस्थितिरपि नवोढाया नायकसुखदेति व्यज्यते ॥

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता झकारव्रज्या ।
 

-------------------------------
 
ढकारव्रज्या ।
 

 
नायकीयोन्माददौःशील्यमाकलय्य स्वयमपि दौःशील्यं विधातुकामां नायकां सखी
 
वक्ति -
 
--
 
ढक्कामाहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ।
 

स्त्रीणां करिणीनामिव मदः पुनः स्वकुलनाशाय ॥ २४७ ॥

 
ढक्कामिति । ढक्कां यशःपटहम् । 'स्याद्यशःपटहो ढक्का' इत्यमरः । आहत्य वादयित्वा

करिण इव पुरुषा बहुकालं मदं वितन्वते । करिणीनामिव स्त्रीणां मदः स्वकुलनाशाय ।

एवं च पुरुषाणां मदो यशसे, स्त्रीणां तु कुलकलङ्कायेति व्यज्यते । तेन च त्वयैतादृङ्गनसि
 

न विधेयमिति ॥
 
तारा F
 
Sri Gurgeshwari Digital Fundation
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता ढकार
 
व्रज्या ।
--------------------------------