This page has not been fully proofread.

एतत्संगत्या स्वनिर्वाहो मया विधेय इति बुद्ध्या कृतनायकसङ्गां नायिकामप्रतिष्ठा-
दिभीत्या परित्यक्तुमुद्यतं नायकं सखा समुपदिशति--
 
जीवनहेतोर्मिलिता मुञ्चति करकर्षणेन न खलु त्वाम् ।
नौरिव निम्नं सुन्दर मुग्धा तद्विरसतां मा गाः ॥ २४१ ॥
 
जीवनहेतोरिति । जीविकार्ये मिलिता करकर्षणेन परित्यागेन खलु त्वां न मुञ्चति ।
निम्नं नौरिव तद्विरसतां मा गाः । एवं च त्वयैतत्त्यागे क्रियमाणेऽपि नेयं त्वां त्यक्ष्यति
परं त्वेतत्करणे लौकिकमात्रं भावीति व्यज्यते । यद्वा नायिकासखी नायकं वक्ति--
जीवनेति । जीवनाद्धेतोर्मिलिता जीवनार्थमागता । पक्षे जलहेतुना समागता । मुग्धा
सुन्दरी । एवं च स्पृहणीयत्वं व्यज्यते । करस्य हस्तस्याकर्षणेन । पक्षे करेण कर्षणं तेन ।
त्वां न खलु मुञ्चति । नौरिव निम्नम् । पक्षे नीचम् । अत एव मूढार्थकं मुग्धेति पद-
मर्थवत् । हे सुन्दर तद्वैरस्यम् । पक्षे जलाभाववत्त्वं मा गाः । एवं च नीचमपि त्वा-
मियं विरहभीता न त्यजतीति ध्वन्यते ॥
 
काचित्कं कञ्चिद्वक्ति--
 
जघनेन चापलं तव वितन्वतेयं तनूकृतापि तनुः ।
शाणेनेव क्षीणा स्मरासिपुत्री मनो विशति ॥ २४२ ॥
 
जघनेनेति । चाश्ञ्चल्यं विस्तारयता जघनेन । अर्थादन्याङ्गनानाम् । क्षीणीकृतापि तव
तनुः । शाणेन क्षीणा । एवं च तीक्ष्णत्वं ध्वन्यते । स्मरस्य च्छुरिकेव मनो विशति ।
एवं च विपरीतसुरतातिशयक्षीणमपि तव शरीरं मन्मनोमोहजनकमिति व्यज्यते । एवं
चैतादृशं दृष्ट्वापि न मया मानः क्रियत इति स्वस्मिन् साधुत्वमावेदयति ॥
 
कश्चित्कां काञ्चिद्वक्ति--
 
ज्योत्स्नाभिसारसमुचितवेषे व्याकोशमल्लिकोत्तंसे ।
विशसि मनो निशितेव स्मरस्य कुमुदत्सरुच्छुरिका ॥ २४३ ॥
 
ज्योत्स्नेति । ज्योत्स्नाभिसारे समुचितो वेषो यस्यास्तत्संबुद्धिः । अत एव विकसित-
मल्लिकोत्तंसे । निशिता स्मरस्य कुमुदरूपा त्सरुर्मुष्टिर्यस्याः । 'त्सरुः खड्गादिमुष्टौ स्यात्'
इत्यमरः । एतादृशी छुरिकेव मनो विशसि । एवं चैतादृशवेषशालिनी त्वं मन्मनोमोह-
जनिकेति द्योत्यते ॥
 
कश्चित्कं कञ्चिदुपदिशति--
 
जड सुखयसि परतरुणीं गृहिणीं कारयसि केवलं सेवाम् ।
आलिङ्गति दिशमिन्दुः स्वां तु शिलां वारि वाहयति ॥ २४४ ॥
 
जडेति । जड । एवं च कार्याकार्य विवेकवैधुर्येयं ध्वन्यते । पक्षे जलमयत्वाज्जडत्वम् ॥
परयुवतिम् । तरुणीपदेन साहजिकरूपशालिवाभावो व्यज्यते । सुखयसि । स्वाङ्गनां