This page has not been fully proofread.

९४
 
काव्यमाला ।
 
काचित्कांचिद्वक्ति-
जागरयित्वा पुरुषं परं वने सर्वतो मुखं हरसि ।
 
अयि शरदनुरूपं तव शीलमिदं जातिशालिन्याः ॥ २३७ ॥
 
जागरेति । वने कानने । पक्षे जले। शयित मिति भावः । परमन्यम् । पक्ष उत्कृष्टम् ।
पुरुषं जागरयित्वा सर्वतो मुखं वदनं हरसि । कमपि लज्जया न संमुखमवलोकयसी-
त्यर्थः । पक्षे जलं हरसि । वर्षासमयस्य समाप्तत्वादिति भावः । अयि शरत्तुल्यं शीलं
जातिशालिन्या इति साकूतोक्ति: । पक्षे मालतीशालिन्याः । तवेदं शीलम् । एवं च
किमर्थमत्र मिथ्या लजां नाटयसीति व्यज्यते । यद्वान्योक्त्या काचिद्वक्ति । अयि शर-
जातिशालिन्या इदं शीलं तवानुरूपं नान्यस्या इति भावः । तदेवाह-जागरयित्वेत्यादि ।
कश्चित्सखायं वक्ति –
 

 
-
 
जीवामि लङ्घितावधिदिनेति लज्जावशेन गेहिन्या ।
 
मयि निद्भुतोऽपि बाष्पैरसंवरैर्व्यञ्जितो मानः ॥ २३८ ॥
 

 
जीवामीति । लङ्घितमवधिदिनं यया जीवामीति लज्जावशेन । वशपदेन खात-
न्त्र्याभावो व्यज्यते । गेहिन्या गोपितोऽपि मानः संवर्तुमशक्यैर्बाष्पैर्ज्ञापितः । एवं च
मानसंगोपनमसंभवीति व्यज्यते ॥
काचित्कंचिदन्योक्त्या वक्ति –
 
जाल्मो गुरुः सुधृष्टो वामेतरचरणभेद उपदेशः ।
 
ख्यातिर्गुणधवल इति भ्रमसि सुखं वृषभ रथ्यासु ॥ २३९ ॥
जाल्म इति । सुधृष्टो जाल्मः । 'सुघृष्टः' इति पाठ उपदेश विशेषणमेतत् । असमी-
क्ष्यकारी गुरुरुपदेष्टा । एवं च तवोपदेशकोऽपि न समीचीन इति व्यज्यते । वामं स-
व्यम् । 'वामं शरीरं सव्यं स्यात्' इत्यमरः । इतरो दक्षिणस्तयोर्भेदः, अयं वामोऽयं द-
क्षिण इति स एवोपदेशो ज्ञानम् । नान्यदिति भावः । यद्वा दक्षिणेन ताडनं तदेव त-
वोपदेशकमित्यर्थः । वृषभ रथ्यासु सुखं भ्रमसि । एवं च यथा शिक्षितवृषभो रथ्यासु भ्र-
मति तथा त्वमिति व्यज्यते । तेन च नास्मगृहागमनयोग्यस्त्वमसीति द्योत्यते ॥
वैद्यासक्ता काचिद्वक्ति-
ज्वर वीतौषधबाघस्तिष्ठ सुखं दत्तमङ्गमखिलं ते ।
 
असुलभलोकाकर्षणपाषाण सखे न मोक्ष्यसि माम् ॥ २४० ॥
 
ज्वरेति । हे ज्वर, वीतापगतौषधिबाधा यस्यैतादृशस्त्वं सुखं तिष्ठ । समग्रमङ्गं तव
दत्तम् । सर्वाङ्गमभिव्याप्य तिष्ठेति भावः । दुर्लभो यो वैद्यरूपो लोकस्तस्याकर्षणपाषाण ।
'चुम्बकः' इति लोके प्रसिद्धिः । एवं च नायके खत आगमनशून्यत्वमावेद्यते । सखे, मां
न मोक्ष्यसि । मा मुञ्चेत्यर्थः । एवं च त्वयि विद्यमाने तदागमनं नान्यथेति द्योत्यते ॥
 
Sri Gurgeshwari Digital Foundation