This page has not been fully proofread.

आर्यासप्तशती ।
 
९३
 
नित्यनिरतिशयोल्लासवत्कलङ्कहीनतया लोके वदाननस्तुतिरिति भावः । एवं च निरुपमानं

त्वदाननमिति व्यज्यते । तेन च कोपादिमालिन्यं न विधेयमिति । अत्र कूटत्वमवसादः ।

संकोच इति यावत् । अथवा प्रमोदाभाव एव कूटत्वम् । 'कूट अप्रमोदावसादनयोः'

इति चुरादिः । 'कूटं कुप्रदाप्रमुदोः' इति कल्पद्रुमः । यद्वा कूटलं परितापभावम् ।

संकोचमिति यावत् । 'कूट परितापे' ।

 
नायिका सखीं वक्ति-
-
 
छायामात्रं पश्यन्नधोमुखोऽप्युद्गतेन धैर्येण ।
 

तुदति मम हृदयमिषुणा राधाचक्रं किरीटीव ॥ २३४ ॥

 
छायामात्रमिति । छायामात्रं पश्यन् । एवं च लोकभीतिरावेद्यते । अधोमुखोऽपि ।

एवं च तरलवाभावो व्यज्यते । उद्गतेन धैर्येण मम हृदयं तुदति । अर्जुनो बाणेन राधा-

चक्रमिव । पाञ्चालीवयंवरेऽर्जुनेनाघस्तनध्वजाग्रस्थितचपलमीनच्छायामात्रमालोकयता

मीननयनं बाणेन हतमिति पुराणप्रसिद्धिः । एवं च गुरुसमक्षं छायामात्रमालोकयन्मल्ल-

जारक्षणमकरोदित्यासक्तिविशेषो ध्वन्यते । अथवा यद्यप्ययं न साक्षादवलोकयति

तथापि मन्मनोपहृतमनेनेति व्यज्यते ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता छकारव्रज्या ।
 

-------------------------------
 
जकारव्रज्या ।
 

 
प्रस्थानावसरे नायको नायिकां वक्ति -
 
-
 
---
 
जलबिन्दवः कतिपये नयनाद्गमनोद्यमे तव स्खलिताः ।

कान्ते मम गन्तव्या भूरेतैरेव पिच्छिलिता ॥ २३९ ॥
 

 
जलेति । गमनोद्यमे । ममेति भावः । तव नयनात्किचित्संख्याका जलबिन्दवः स्ख-

लिताः, न तु निर्गताः । मङ्गलाभावशङ्कयेति भावः । एवं च निबिडपक्ष्मशालित्वं नेत्रे

द्योत्यते । कान्ते मनोज्ञे ममैतैरेवाश्रुबिन्दुभिरेव पिच्छिला । एवं च चरणावस्थित्य-

नर्हत्वं द्योत्यते । भूर्गन्तव्या । गन्तव्येत्यनेनावश्यकत्वं ध्वन्यते । एवं च त्वदपेक्षया

ममातिशयितदुःखमित्यावेद्यते ॥
 

 
नायको वयस्यं वक्ति-
-
 
जृम्भोत्तम्भितदोर्युगयन्त्रितताटङ्कपीडितकपोलम् ।
 

तस्याः स्मरामि जलकणलुलिताजनमलसदृष्टि मुखम् ॥ २३६ ॥

 
जृम्भेति । जृम्भयोर्ध्वंकृतहस्तद्वयसंघट्टितताटङ्कपीडितकपोलम् । जलकणैः । नेत्र-

संबन्धिभिरिति भावः । लुलितं विस्तृतमञ्जनं यस्य । अलसा दृष्टिर्यस्य तस्या मुखं

स्मरामि । जातिवर्णनमेतत् ॥
 
या तिच्या
 
आ० स० ९
 
Sl Gargeskuwri Diginal Fodarion