This page has not been fully proofread.

९२
 
काव्यमाला ।
 
छायां यथा हन्ति, तथा रुद्धः प्रतिगजः करमास्फालयति । एवं चजनलजयैव न किं-
चिद्वक्तीति व्यज्यते ॥
कश्चित्सखायं वक्ति-
चुम्बनलोलुपमदधरहृतकाश्मीरं स्मरन्न तृप्यामि ।
 
हृदयद्विरदालानस्तम्भं तस्यास्तदूरुयुगम् ॥ २३० ॥
 
चुम्बनेति । चुम्बनसतृष्णस्य ममाधरेण हृतं केसरं यस्याः । कामशास्त्रे तत्रापि
चुम्बन विधानात् । चुम्बनलोलुपो यो मदधारीति गजपक्षेऽपि योज्यम् । हृदयरूपगज-
बन्धनस्तम्भम् । एवं च चित्तं ततोऽन्यत्र न गच्छतीति भावः । तस्यास्तदूरुयुगं
स्मरन्न तृप्यामि ॥
 
काचित्कांचिद्वक्ति–
 
चिकुरविसारणतिर्यङ्गतकण्ठी विमुखवृत्तिरपि बाला ।
त्वामियमङ्गुलिकल्पितकचावकाशा विलोकयति ॥ २३१ ॥
चिकुरेति । चिकुराणां विसारणं परिष्करणं तेन तिर्यङ्गतः कण्ठो यस्याः । विमुख-
वृत्तिरपीयं बालाङ्गुलीभिः कृतः केशावकाशो यया त्वां विलोकयति । एवं च त्वयापीयं
विलोकनादिनानुग्राह्येति द्योलते ॥
 
सखी नायिकां वक्ति–
 

 
चुम्बन हृताञ्जना स्फुटजागररागमीक्षणं क्षिपसि ।
 
किमुषसि वियोगकातरमसमेषुरिवार्धनाराचम् ॥ २३२ ॥
 
चुम्बनेति । चुम्बनेन हृतमञ्जनार्धे यस्याः । कामशास्त्रे नेत्रप्रान्तचुम्बनविधाना दिति
भावः । प्रकटो जागरेण रागो यस्य तत् । वियोगाय । भाविन इति भावः । भीतमी-
क्षणं प्रातः किमिति क्षिपसि । एवं च भीरुतातिशयो व्यज्यते । मदनोऽर्धनाराचमिव ।
एवं च निःसारणानर्हत्वेन नायके गमनसामर्थ्याभावो द्योत्यते । एवं च नायके नायिका-
सक्तिविशेषो ध्वन्यते ॥
 
इत्यनन्तपण्डितकृत गोवर्धन सप्तशतीव्यङ्गधार्थदीपनया समेता चकारव्रज्या ।
 
छकारव्रज्या ।
 
सखी कुपितनायिकां वक्ति-
छायाग्राही चन्द्रः कूटत्वं सततमम्बुज व्रजति ।
हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥ २३३ ॥
छायाग्राहीतिं । चन्द्रस्य सकलङ्कतया कमलस्य नित्यसंकोचितयोभयपरित्यागेन
 
२०११ मा पनि
 
Sri Gargeshwari Digital Foundation