2023-08-18 15:12:04 by Pathan Vali Khan
This page has been fully proofread twice.
आर्यार्थग्रहणे तावदार्या एवाधिकारिणः ।
अतोऽत्र दृष्टिस्तैरेव कार्या नान्यैः कदाचन ॥
गभीरार्थप्राप्तौ नियतवचसामाशयजुषां
गुणालंकाराणां भवति घटना सत्वरतरम् ।
अतो हेतोश्वेतो विपुलमतिना तत्र विषये
नियोज्यं येनान्तः सततसुखसंबाधवसतिः ॥
संत्यज्य दोषं गुण एव दृष्टिर्विधीयतामित्यफलं वचो मे ।
विहाय नीरं सकलोऽपि हंसः पयः प्रगृह्णात्युपदेशतः किम् ॥
विशिष्टशिष्टेष्टकर्तव्यतापत्तिप्राप्तमङ्गलमनुषङ्गतो व्याख्यातृश्रोतृमङ्गलायोपनिबध्नाति--
पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति ।
अङ्कुरित इव मनोभूर्यस्मिन्भस्मावशेषोऽपि ॥ १ ॥
पाणिग्रह इति । भूतिभूषितं भस्मनालंकृतम् । भस्मनो भूषणत्वं मनोभवीयत्वेन ।
यत्तु 'भूत्यैश्वर्येण' इति व्याख्यानं तदैशमित्यनेन गतार्थत्वात्प्रकृतानुपयुक्तत्वाच्चोपेक्ष्यम् ।
पाणिग्रहे । अर्थादत्यन्तानुरक्तकामिन्याः । पुलकितं जातरोमाञ्चम् । सात्त्विकभावोद-
यादिति भावः । ऐशमीशसंबन्धि । चैत्रादिवदीशपदस्य कर्पूरगौरत्वादिमच्छरीरोपहि-
तात्मनि शक्तौ गौरवात्, लाघवात्तादृशशरीर एव शक्तत्वात्, नित्यज्ञानादिमदात्मनि
लक्षणा । यद्वा 'ईश ऐश्वर्ये' इति धातोरचि निष्पन्नेनेशपदेन शक्त्या जगत्कर्तृत्वाद्यै-
श्वर्यवत्त्वं बोध्यते । तत्संबन्धस्य शरीरान्तरे सत्त्वेऽपि भूतिभूषितविशेषणमहिम्ना
शंकरीयत्वमायाति वपुषि । एवं च मनोभूभस्मसंबन्धि सर्वोत्कर्षशालित्वयोग्यत्वं व्य-
ज्यते । वपुर्जयति । यद्वा भूतिभूषितमित्यनेन भूषणसामान्याभावप्रतिपादनेऽपि सर्वो-
त्कर्षशालत्वे देवीपाणिग्रहणजन्यपुलकवत्ता हेतुः । जयतीत्यनेनेशे सर्वोत्कर्षशालित्वप्रति-
पादनेन सर्वान्तर्गते स्वस्मिन्नपकर्षप्रतिपादनान्नतिरावेद्यते । भस्मावशेषोऽपि । एवं
चाङ्कुरीभावानर्हत्वेऽपि तद्भवनेन देवीपाणौ सुधारूपत्वमावेद्यते । मनोभूः । एवं च
मनसो बीजरूपताप्रतिपादनेन तस्यान्तर्गतत्वाद्वपुष्यङ्कुरवत्तायोग्यत्वं व्यज्यते । विशि-
ष्यानाकलनीयरूपस्यापि भवनयोग्यत्वेन वपुषि विशेषभवनयोग्यत्वं वा । यस्मिन्वपुष्य-
ङ्कुरित इव संजाताङ्कुर इवेति भस्मसंसर्गिरोमाञ्चेऽङ्कुरोत्प्रेक्षा । एवं च यथाङ्कुरसंजातम-
हत्तरतरुकिसलयकुसुमफलादिनान्यजनोपकारस्तथैतदङ्कुरभाविकुमारफलादिना तारक-
वधेन सकलजनोपकारो भवितेति ध्यन्यते । अत्राङ्कुरितत्वेन पाणिस्पर्शस्यामृतरूपत्वं
वस्तुना वस्तु व्यज्यते ॥
मा वम संवृणु विषमिदमिति सातङ्कं पितामहेनोक्तः ।
प्रातर्जयति सलज्जः कज्जलमलिनाधरः शंभुः ॥ २ ॥
मा वमेति । इदमित्यपलापानर्हत्वम् । अथवा जगद्विनाशविदितविभवत्वमिति व्य-