This page has not been fully proofread.


 
काव्यमाला ।
 
आर्यार्थग्रहणे तावदार्या एवाधिकारिणः ।

अतोऽत्र दृष्टिस्तैरेव कार्या नान्यैः कदाचन ॥

 
गभीरार्थप्राप्तौ नियतवचसाम। माशयजुषां
 

गुणालंकाराणां भवति घटना सत्वरतरम् ।

अतो हेतोश्वेतो विपुलमतिना तत्र विषये
 

नियोज्यं येनान्तः सततसुखसंबाधवसतिः ॥

 
संत्यज्य दोषं गुण एव दृष्टिर्विधीयतामित्यफलं वचो मे ।

विहाय नीरं सकलोऽपि हंसः पयः प्रगृह्णात्युपदेशतः किम् ॥

 
विशिष्टशिष्टेष्टकर्तव्यतापत्तिप्राप्तमङ्गलमनुषङ्गतो व्याख्यातृश्रोतृमङ्गलायोपनिबध्नाति -
-
 
पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति ।
 

अङ्कुरित इव मनोभूर्यस्मिन्भस्मावशेषोऽपि ॥ १ ॥
 

 
पाणिग्रह इति । भूतिभूषितं भस्मनालंकृतम् । भस्मनो भूषणत्वं मनोभवीयत्वेन ।

यत्तु 'भूत्यैश्वर्येण' इति व्याख्यानं तदैशमित्यनेन गतार्थत्वात्प्रकृतानुपयुक्तत्वाच्चोपेक्ष्यम् ।

पाणिग्रहे । अर्थादत्यन्तानुरक्तकामिन्याः । पुलकितं जातरोमाञ्चम् । सात्त्विकभावोद-

यादिति भावः । ऐशमीशसंबन्धि । चैत्रादिवदीशपदस्य कर्पूरगौरत्खावादिमच्छरीरोपहि-

तात्मनि शक्तौ गौरवात्, लाघवात्तादृशशरीर एव शक्तत्वात्, नित्यज्ञानादिमदात्मनि

लक्षणा । यद्वा 'ईश ऐश्वर्ये' इति धातोरचि निष्पन्नेनेशपदेन शक्त्या जगत्कर्तृत्वाद्यै-

श्वर्यवत्त्वं बोध्यते । तत्संबन्धस्य शरीरान्तरे सत्त्वेऽपि भूतिभूषित विशेषणमहिना
म्ना
शंकरीयत्वमायाति वपुषि । एवं च मनोभूभस्मसंबन्धि सर्वोत्कर्षशालित्वयोग्यत्वं व्य-

ज्यते । वपुर्जयति । यद्वा भूतिभूषितमित्यनेन भूषणसामान्याभावप्रतिपादनेऽपि सर्वो-

त्कर्षशालत्वे देवीपाणिग्रहणजन्यपुलकवत्ता हेतुः । जयतीत्यनेनेशे सर्वोत्कर्षशालित्वप्रति-

पादनेन सर्वान्तर्गते स्वस्मिन्नपकर्षप्रतिपादनान्नतिरावेद्यते । भस्मावशेषोऽपि । एवं

चाङ्कुरीभावानर्हत्वेऽपि तद्भवनेन देवीपाणौ सुधारूपत्वमावेद्यते । मनोभूः । एवं च

मनसो बीजरूपताप्रतिपादनेन तस्यान्तर्गतत्वाद्वपुष्यङ्कुरवत्तायोग्यत्वं व्यज्यते । विशि-
ध्

ष्
यानाकलनीयरूपस्यापि भवनयोग्यत्वेन वपुषि विशेषभवनयोग्यत्वं वा । यस्मिन्वपुष्य-

ङ्कु
रित इव संजाताङ्कुर इवेति भस्मसंसर्गिरोमावेञ्चेऽङ्कुरोत्प्रेक्षा । एवं च यथाङ्कुरसंजातम-

हत्तरतरु किसलयकुसुमफलादिनान्य जनोपकारस्तथैतदङ्कुरभाविकुमारफलादिना तारक-

धेन सकलजनोपकारो भवितेति ध्यन्यते । अत्राङ्कुरितत्वेन पाणिस्पर्शस्यामृतरूपत्वं
 

वस्तुना वस्तु व्यज्यते ॥
 

 
मा वम संवृणु विषमिदमिति सातङ्कं पितामहेनोक्तः ।

प्रातर्जयति सलज्जः कज्जलमलिनारः शंभुः ॥ २ ॥
 
DF
 

 
मा वमेति । इदमित्यपलापानर्हत्वम् । अथवा जगद्विनाश विदितविभवत्वमिति व्य-
shChrysmargarin