यमुनाष्टकम् (१)

मुरारिकायकालिमाललामवारिधारिणीतृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी ।मनोनुकूलकूलकुञ्जपुञ्जधूतदुर्मदाधुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ १ ॥
मलापहारिवारिपूरिभूरिमण्डितामृताभृशं प्रवातकप्रपञ्चनातिपण्डितानिशा ।सुनन्दनन्दिनाङ्गसङ्गरागरञ्जिता हिताधुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ २ ॥
लसत्तरङ्गसङ्गधूतभूतजातपातकानवीनमाधुरीधुरीणभक्तिजातचातका ।तटान्तवासदासहंससंवृताह्निकामदाधुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ३ ॥
विहाररासखेदभेदधीरतीरमारुतागता गिरामगोचरे यदीयनीरचारुता ।प्रवाहसाहचर्यपूतमेदिनीनदीनदाधुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ४ ॥
तरङ्गसङ्गसैकतान्तरातितं सदासिताशरन्निशाकरांशुमञ्जुमञ्जरी सभाजिता ।भवार्चनाप्रचारुणाम्बुनाधुना विशारदाधुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ५ ॥
जलान्तकेलिकारिचारुराधिकाङ्गरागिणीस्वभर्तुरन्यदुर्लभाङ्गताङ्गतांशभागिनीस्वदत्तसुप्तसप्तसिन्धुभेदिनातिकोविदाधुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ६॥
जलच्युताच्युताङ्गरागलम्पटालिशालिनीविलोलराधिकाकचान्तचम्पकालिमालिनी ।सदावगाहनावतीर्णभर्तृभृत्यनारदाधुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ७ ॥
सदैव नन्दिनन्दकेलिशालिकुजमञ्जुलातटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला ।जलावगाहिनां नृणां भवाब्धिसिन्धुपारदाधुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ यमुनाष्टकं संपूर्णम् ॥

Settings