वटुकोपनिषत्

अथ वटुकोपनिषदं व्याख्यास्यामः ।
वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् ।तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिर्भविता नेतरेषाम्
यो वै वटुकः स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्च विष्णुस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च रुद्रस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्चेन्द्रस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्चाग्निस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्च वायुस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च सूर्यस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्च सोमस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च ग्रहास्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्चोपग्रहास्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च भूस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्च भुवस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च स्वस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्चान्तरिक्षं तस्मै वै नमो नमः
यो वै वटुकः स भगवान् यश्च द्यौस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्चापस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च तेजस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्च कालस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च मृत्युस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्चामृत्युस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्चाकाशस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्च विश्वं तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च शुक्लं तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्च दम्भस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्वादम्भस्तस्मै वै नमो नमः ।यो वै वटुकः स भगवात् यश्च सूक्ष्मं तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च स्थूलं तस्मै वै नमो नमः ।यो वै वटुकः स भगवान् यश्च कृष्णस्तस्मै वै नमो नमः
यो वै वटुकः स भगवान् यश्चाकृष्णस्तस्मै वै नमो नमः । यो वै वटुकः स भगवान् यश्च सत्यं तस्मै वै नमो नमः । यो वै वटुकः स भगवान् यश्च सर्व तस्मै वै नमो नमः ॥
भूस्ते आदिर्मध्यं भुवः स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकत्वं द्विधा त्रिधा बुद्धिस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम् । अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्य । सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः । सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं सौम्यं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन प्रसति स्वेन तेजसा तस्मादुपसंहर्त्रे महाग्रासाय वै नमो नमः ।
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः ॥
तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारो य ओङ्कारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं यत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एको य एकः स रुद्रो यो रुद्रः स ईशानो य ईशानः स भगवान् महेश्वरो यो भगवान् महेश्वरः स भगवान् वटुकेश्वरो यो भगवान् वटुकेश्वरः ।
अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यत ओङ्कारः । अथ कस्मादुच्यते प्रणवो यस्मादुच्चार्यमाण एव ऋग्यजुस्सामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव सर्वान् लोकान् व्याप्नोति स्नेहो यथा पललपिण्डमिव शान्तरूपमोतप्रोतमनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी । अथ कस्मादुच्यते ऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः । अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मव्याधि-जरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते तारम् । अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एवं क्लन्दते क्लामयति च तस्मादुच्यते शुक्ल । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एवाव्यक्ते महति तमसि द्योतयति तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यते परं ब्रह्म यस्मात् परमपरं परायणं च बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म । अथ कस्मादुच्यत एको यः सर्वान् प्राणान् संभक्ष्य संभक्षणेनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह सद्गतिः । साकं स एको भूतश्चरति प्रजानां तस्मादुच्यत एकः । अथ कस्मादुच्यते रुद्रो यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः । अथ कस्मादुच्यत ईशानो यः सर्वान् देवानीशत ईशानीभिर्जननीभिश्च परमशक्तिभिः । अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमिन्द्र तस्थुषः । तस्मादुच्यत ईशानः । अथ कस्मादुच्यते भगवान् महेश्वरो यस्माद्भक्ता ज्ञानेन भजन्त्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान् महेश्वरः । अथ कस्मादुच्यते भगवान् वटुकेश्वरो यस्मादन्तर्जलौषधिवीरुधानाविश्येमं विश्वं भुवनानि वा अवते तस्मादुच्यते भगवान् वटुकेश्वरः । तदेतद्रुद्रचरितम् ।
एको ह देवः प्रदिशो नु सर्वाःपूर्वो ह जातः स उ गर्भे अन्तः ।स एव जातः स जनिष्यमाणःप्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥
एको वटुको न द्वितीयाय तस्मैय इमान् लोकानीशत ईशनीभिः ।प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकालेसंसृज्य विश्वा भुवनानि गोप्ता ॥
यस्मिन् क्रोधं यां च तृष्णां क्षमां चह्यक्षमां हित्वा हेतुजालस्य मूलम् ।बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रेशाश्वतं वै रुद्रमेकत्वमाहुः ॥
वटुको हि शाश्वतेन पुराणेनवेषमूर्जेण तपसा नियन्ता ॥
अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं ह वेदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्मनाङ्गानि संस्पृशेत्तस्माद्ब्रह्म तदेतद्वटुकं पशुपाशविमोक्षणाय ।
यस्मिन्निदं सर्वमोतप्रोतंतस्मादन्यन्न परं किञ्चनास्ति ।न तस्मात् पूर्वं न परं तदस्तिन भूतं नोत भव्यं यदासीत् ॥
अक्षराज्जायते कालः कालाद्व्यापक उच्यते ।
व्यापको हि भगवान् वटुको भोगायमानो यदा शेते रुद्रस्तदा संहरते प्रजाः । उच्छ्वासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुर्वायोरोङ्कार ओङ्कारात्सावित्री सावित्र्या गायत्री गायत्र्या लोकाःभवन्ति । एतद्धि परमं तपः । आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवःस्वरों नम इति ।
य इमां वटुकोपनिषदं ब्राह्मणोऽधीतेऽश्रोत्रियः श्रोत्रियो भवति । अनुपनीत उपनीतो भवति । स हाग्निपूतो भवति । स वायुपूतो भवति । स सूर्यपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वैर्देवैरनुज्ञातो भवति । स सर्वैर्वेदैरनुध्यातो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वविद्भवति । स सर्वायुरारोग्यवान् भवति । स कालज्ञानी भवति । स गुर्वनुग्रहभागी भवति । इत्येवं भगवद्वटुकेश्वरं यः स्तौति स वेद्यं वेदेति ॥
इत्याथर्वणरहस्ये वटुकोपनिषत् समाप्ता

Settings