ऊरुभङ्गम् Click on words to see what they mean. ( नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) ▼ Edit Permalink Bookmark सूत्रधारः —भीष्मद्रोणतटां जयद्रथजलां गान्धारराजहृदांकर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसं ।तीर्णः शत्रुनदीं शरासिसिकतां येन प्लवेनार्जुनःशत्रूणां तरणेषु वः स भगवानस्तु वः केशवः ॥ १ ॥एवमार्यमिश्रान्विज्ञापयामि । अये, किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । ▼ Edit Permalink Bookmark ( नेपथ्ये ) ▼ Edit Permalink Bookmark एते स्मो भोः ! एते स्मः । ▼ Edit Permalink Bookmark सूत्रधारः —भवतु, विज्ञातम् । ▼ Edit Permalink Bookmark ( प्रविश्य ) ▼ Edit Permalink Bookmark पारिपार्श्विकः —भाव कुतो नु खल्वेते,स्वर्गार्थमाहवमुखोद्यतगात्रहोमानाराचतोमरशतैर्विषमीकृताङ्गाः ।मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरै-रन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २ ॥ ▼ Edit Permalink Bookmark सूत्रधारः —मार्ष ! किं नावगच्छसि । तनयशतनयनशून्ये दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशेषे युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके,एतद्रणं हतगजाश्वनरेन्द्रयोधंसंकीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।युद्धे वृकोदरसुयोधनयोः प्रवृत्तेयौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३ ॥ ▼ Edit Permalink Bookmark ( निष्क्रान्ती ) ▼ Edit Permalink Bookmark स्थापना ▼ Edit Permalink Bookmark ( ततः प्रविशति भटास्त्रयः । ) ▼ Edit Permalink Bookmark सर्वे —एते स्मो भोः ! एते स्मः । ▼ Edit Permalink Bookmark प्रथमः —वैरस्यायतनं बलस्य निकषं मानप्रतिष्ठागृहंयुद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् ।राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुंसंप्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसंक्रमम् ॥ ४ ॥ ▼ Edit Permalink Bookmark द्वितीयः —सम्यग्भवानाह ।उपलविषमा नागेन्द्राणां शरीरधराधरादिशि दिशि कृता गृध्रावासा हतातिरथा रथाः ।अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणेप्रतिमुखमिमे तत्तत्कृत्वा चिरं निहताहताः ॥ ५ ॥ ▼ Edit Permalink Bookmark तृतीयः —एवमेतन् ।करिवरकरयूपो बाणविन्यस्तदर्भोहतगजचयनोच्चो वैरवह्निप्रदीप्तः ।ध्वजविततवितानः सिंहनादोच्चमन्त्रःपतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥ ६ ॥ ▼ Edit Permalink Bookmark प्रथमः —इदमपरं पश्येतां भवन्तौ ।एते परस्परशरैर्हृतजीवितानांदेहै रणाजिरमहीं समुपाश्रितानाम् ।कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गाराज्ञां शरीरशिथिलानि विभूषणानि ॥ ७ ॥ ▼ Edit Permalink Bookmark द्वितीय: —प्रसक्तनाराचनिपातपातितः समग्रयुद्धोद्यतकल्पितो गजः ।विशीर्णवर्मा सशरः सकार्मुको नृपायुधागारमिवावसीदति ॥ ८ ॥ ▼ Edit Permalink Bookmark तृतीयः —इदमपरं पश्येतां भवन्तौ ।माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालंलग्नैकसायकवरं रथिनं विपन्नम् ।जामातरं प्रवहणादिव बन्धुनार्योहृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९ ॥ ▼ Edit Permalink Bookmark सर्वे —अहोतुखलु निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य शक्तिप्रासपरशुभिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पणशङ्कुत्रासिगदादिभिरायुधैरवकीर्णस्य समन्तपञ्चकस्य प्रतिभयता । ▼ Edit Permalink Bookmark प्रथमः —इह हि,रुधिरसरितो निस्तीर्यन्ते हतद्विपसंक्रमानृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः ।पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाःपुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १० ॥ ▼ Edit Permalink Bookmark द्वितीयः —इदमपरं पश्येतां भवन्तौ । एते,गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षादैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः ।भान्त्यम्बरे विततलम्बविकीर्णपक्षामांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११ ॥ ▼ Edit Permalink Bookmark तृतीयः —एषा निरस्तहयनागनरेद्रयोधाःव्यक्तीकृता दिनकरोग्रकरैः समन्तात् ।नाराचकुन्तशरतोमरखड्गकीर्णातारागणं पतितमुद्वहतीव भूमिः ॥ १२ ॥ ▼ Edit Permalink Bookmark प्रथमः —अहो ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः । इह हि,स्रस्तोद्वर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्कराभ्रूभेदाञ्चितकेसरा स्वमुकुटव्याविद्धसंवर्तिका ।वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नताविष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥ १३ ॥ ▼ Edit Permalink Bookmark द्वितीय: —ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवतीति न शक्यं खलु विषमस्थैः पुरुषैरात्मबलाधानं कर्तुम् । ▼ Edit Permalink Bookmark तृतीयः —मृत्युरेव प्रभवति क्षत्रियाणामिति । ▼ Edit Permalink Bookmark प्रथमः —कः संशयः । ▼ Edit Permalink Bookmark द्वितीय: —मा मा भवानेवम् ।स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनंस्वर्गानन्दहरं निवातकवचप्राणोपहारं धनुः ।पार्थेनास्त्रबलान्महेश्वररणक्षेपावशिष्टैः शरै-र्दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥ १४ ॥ ▼ Edit Permalink Bookmark सर्वे —अये शब्दः ।किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वतानिर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही ।किं मुञ्चत्यनिलावधूतचपलक्षुब्धोर्मिमालाकुलंशब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥ १५ ॥भवतु, पश्यामस्तावत् । ( सर्वे परिक्रामन्ति । ) ▼ Edit Permalink Bookmark प्रथमः —अये एतत्खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं गदायुद्धम् । ▼ Edit Permalink Bookmark द्वितीय: —भीमस्योरसि चारुकांचनारीलापीने प्रतिस्फालितेभिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले ।अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधेयस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥ १६ ॥ ▼ Edit Permalink Bookmark तृतीय: —एष महाराजः,शीर्षोत्कंपनवल्गमानमकुटः क्रोधाग्निकाक्षाननः स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः । यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गदा कैलासस्य गिरेरिवाग्ररचिता सोल्का महेन्द्राशनिः ॥ १७ ॥ ▼ Edit Permalink Bookmark प्रथम : —एष संप्रहाररुधिरसिक्ताङ्गस्तावद्दश्यतां पाण्डवः ।निर्भिन्नाप्ग्रललाटवान्तरुधिरो भग्नांसकूटद्वयःसान्द्रैर्निर्गलितप्रहाररुधिरैराद्रीकृतोरःस्थलः ।भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणःशैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ॥ १८ ॥ ▼ Edit Permalink Bookmark द्वितीयः —भीमां गदां क्षिपति गर्जति वल्गमानःशीघ्रं भुजं हरति तस्य कृतं भिनत्ति ।चारीं गतिं प्रचरति प्रहरत्यभीक्ष्णंशिक्षान्वितो नरपतिर्बलवांस्तु भीमः ॥ १९ ॥ ▼ Edit Permalink Bookmark तृतीय: —एष वृकोदरः,शिरसि गुरुनिखातस्रस्तरक्तार्द्रगात्रोधरणिधरनिकाशः संयुगेष्वप्रमेयः ।प्रविशति गिरिराजो मेदिनीं वज्रदग्धःशिथिलविसृतधातुर्हेमकूटो यथाद्रिः ॥ २० ॥ ▼ Edit Permalink Bookmark प्रथमः —एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा,एकाग्रांगुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः ▼ Edit Permalink Bookmark द्वितीय: —दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः । ▼ Edit Permalink Bookmark तृतीय: —स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते ▼ Edit Permalink Bookmark सर्वे —शिष्यप्रीततया हलं भ्रमयते रामो रणप्रेक्षकः ॥ २१ ॥ ▼ Edit Permalink Bookmark प्रथमः —एष महाराजः,वीर्यालयो विविधरत्नविचित्रमौलि-र्युक्तोऽभिमानविनयद्युतिसाहसैश्च ।वाक्यं वदत्युपहसन्न तु भीम ! दीनंवीरो निहन्ति समरेषु भयं त्यजेति ॥ २२ ॥ ▼ Edit Permalink Bookmark द्वितीयः —एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा स्वमूरुमभिहत्य कामपि संज्ञां प्रयच्छति जनार्दनः । ▼ Edit Permalink Bookmark तृतीयः —एष संज्ञया समाश्वासितो मारुतिः,संहृत्य भ्रुकुटीललाटविवरे स्वेदं करेणाक्षिपन्बाहुभ्यां परिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् ।पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलंगर्जन सिंहवृषेक्षणः क्षितितलाद्भूयः समुत्तिष्ठति ॥ २३ ॥ ▼ Edit Permalink Bookmark प्रथमः —हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि,भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकंसन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता ।त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य संज्ञासमंगान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥ २४ ॥ ▼ Edit Permalink Bookmark सर्वे —हा धिक् पतितो महाराजः । ▼ Edit Permalink Bookmark तृतीयः —एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः । य एषः,मालासंवृतलोचनेन हलिना नेत्रोपरोधः कृतःदृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया ।संभ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितोभीमः कृष्णभुजावलंबितगतिर्निर्वाह्यते पाण्डवैः ॥ २५ ॥ ▼ Edit Permalink Bookmark प्रथमः —अये अयमप्यमर्षोन्मीलितरभसलोचनो भीमसेनापक्रमणमुद्वीक्षमाणः इत एवाभिवर्तते भगवान् हलायुधः । य एषः,चलविलुलितमौलिः क्रोधताम्रायताक्षोभ्रमरमुखविदष्टां किंचिदुत्कृष्य मालाम् ।असिततनुविलम्बिस्रस्तवस्त्रानुकर्षीक्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६ ॥ ▼ Edit Permalink Bookmark द्वितीयः —तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः । ▼ Edit Permalink Bookmark उभौ —बाढम् । प्रथमः कल्पः । ▼ Edit Permalink Bookmark ( निष्कान्ताः । ) ▼ Edit Permalink Bookmark विष्कम्भकः । ▼ Edit Permalink Bookmark ( ततः प्रविशति बलदेवः । ) ▼ Edit Permalink Bookmark बलदेवः —भो भोः पार्थिवाः ! न युक्तमिदम् ।मम रिपुबलकालं लाङ्गलं लङ्घयित्वारणकृतमतिसंधिं मां च नावेक्ष्य दर्पान् ।रणशिरसि गदां तां तेन दुर्योधनोर्वोःकुलविनयसमृध्या पातितः पातयित्वा ॥ २७ ॥भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् । सौमोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशंकालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् ।हस्तोत्क्षिप्तहलं करोमि रुधिरस्वेदार्द्रपंकोत्तरंभीमस्योरसि यादवद्य विपुले केदारमार्गाकुलम् ॥ २८ ॥ ▼ Edit Permalink Bookmark ( नेपथ्ये ) ▼ Edit Permalink Bookmark प्रसीदतु प्रसीदतु भगवान् हलायुधः । ▼ Edit Permalink Bookmark बलदेवः —अये एवंगतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । य एषः,श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छवि-र्भूसंसर्पणरेणुपाटलभुजो बालव्रतं ग्राहितः ।निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सामुरै-राकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ॥ २९ ॥ ▼ Edit Permalink Bookmark ( ततः प्रविशति भग्नोरुयुगलो दुर्योधनः । ) ▼ Edit Permalink Bookmark दुर्योधनः —एष भोः !भीमेन भित्वा समयव्यवस्थां गदाभिघातक्षतजर्जरोरुः ।भूमौ भुजाभ्यां परिकृष्यमाणं स्वं देहमर्धोपरतं वहामि ॥ ३० ॥प्रसीदतु प्रसीदतु भगवान हलायुधः । त्वत्पादयोर्निपतितं पतितस्य भूमा-वेतच्छिरः प्रथममद्य विमुञ्च रोषम् ।जीवन्तु ते कुरुकुलस्य निवापमेघावैरं च विग्रहकथाश्च वयं च नष्टाः ॥ ३१ ॥ ▼ Edit Permalink Bookmark बलदेवः —भोः दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् । ▼ Edit Permalink Bookmark दुर्योधनः —किं भवान्करिष्यति । ▼ Edit Permalink Bookmark बलदेवः —भो श्रूयताम्,आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरै-निर्दारितांसहृदयान्मुसलप्रहारैः ।दास्यामि संयुगहतान्सरथाश्वनागान्स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ॥ ३२ ॥ ▼ Edit Permalink Bookmark दुर्योधनः —मा मा भवानेवम् ।प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम् ।मयि चैवं गते राम ! विग्रहः किं करिष्यति ॥ ३३ ॥ ▼ Edit Permalink Bookmark बलदेवः —मत्प्रत्यक्षं वञ्चितो भवानित्युत्पन्नो मे रोषः । ▼ Edit Permalink Bookmark दुर्योधनः —वञ्चित इति मां भवान् मन्यते । ▼ Edit Permalink Bookmark बलदेवः —कः संशयः । ▼ Edit Permalink Bookmark दुर्योधनः —हन्त भोः ! दत्तमूल्या इव मे प्राणाः । कुतःआदीप्तानलदारुणाज्जतुगृहाद्बुध्यात्मनिर्वाहिणायुद्धे वैश्रवणालयेऽचलशिलावेगप्रतिस्फालिना ।भीमेनाद्य हिडिंबराक्षसपतिप्राणप्रतिग्राहिणायद्येवं समवैषि मां छलजितं भो राम ! नाहं जितः ॥३४॥ ▼ Edit Permalink Bookmark बलदेवः —भीमसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति । ▼ Edit Permalink Bookmark दुर्योधनः —किं चाहं भीमसेनेन वञ्चितः । ▼ Edit Permalink Bookmark बलदेवः —अथ केन भवानेवंविधः कृतः । ▼ Edit Permalink Bookmark दुर्योधनः —श्रूयताम् ,येनेन्द्रस्य स पारिजातकतरुर्मानेन तुल्यं हृतोदिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया ।तीव्रां भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रिय-स्तेनाहं जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहितः ॥ ३५ ॥ ▼ Edit Permalink Bookmark ( नेपथ्ये ) ▼ Edit Permalink Bookmark उस्सरह उस्सरह अय्या ! उस्सरह । उत्सरतोत्सरतार्याः ! उत्सरत । ▼ Edit Permalink Bookmark बलदेव: —( विलोक्य ) अये अयमत्रभवान् धृतराष्ट्रः गान्धारी च दुर्जयेनादेशितमार्गोऽन्तःपुरानुबन्धः शोकाभिभूतहृदयश्चकितगतिरित एवाभिवर्तते । य एषः,वीर्याकरः सुतशतप्रविभक्तचक्षु-र्दर्पोद्यतः कनकयूपविलम्बबाहुः ।सृष्टो ध्रुवं त्रिदिवरक्षणजातशंकै-र्देवैररातितिमिराञ्जलिताडिताक्षः ॥ ३६ ॥ ▼ Edit Permalink Bookmark ( ततः प्रविशति धृतराष्ट्र गान्धारी देव्यौ दुर्जयश्च । ) ▼ Edit Permalink Bookmark धृतराष्ट्रः —पुत्र क्कासि । ▼ Edit Permalink Bookmark गान्धारी —पुत्तअ ! कहिं सि ।पुत्रक ! क्वासि । ▼ Edit Permalink Bookmark देव्यौ —महाराअ ! कहिं सि ।महाराज ! क्वासि । ▼ Edit Permalink Bookmark धृतराष्ट्रः —भोः ! कष्टम् ।वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम ।मुखमन्तर्गतास्राक्षमन्धमन्धतरं कृतम् ॥ ३७ ॥गान्धारि ! किं धरसे । ▼ Edit Permalink Bookmark गान्धारी —जीवाविद म्हि मन्दभाआ ।जीवितास्मि मन्दभागा । ▼ Edit Permalink Bookmark देव्यौ —महाराअ ! महाराअ !महाराज ! महाराज ! । ▼ Edit Permalink Bookmark राजा —भोः ! कष्टम् । यन्ममापि स्त्रियो रुदन्ति ।पूर्वं न जानामि गदाभिघात-रुजामिदानीं तु समर्थयामि ।यन्मे प्रकाशीकृतमूर्धजानिरणं प्रविष्टान्यवरोधनानि ॥ ३८ ॥ ▼ Edit Permalink Bookmark धृतराष्ट्रः —गान्धारि ! किं दृश्यते दुर्योधननामधेयः कुलमानी । ▼ Edit Permalink Bookmark गान्धारी —महाराअ ! ण दिस्सदि ।महाराज ! न दृश्यते । ▼ Edit Permalink Bookmark धृतराष्ट्रः —कथं न दृश्यते । हन्त भो ! अद्यास्म्यहमन्धो योऽहमन्वेष्टव्ये काले पुत्रं न पश्यामि । भोः कृतान्तहतक !रिपुसमरविमर्दं मानवीर्यप्रदीप्तंसुतशतमतिधीरं वीरमुत्पाद्य मानम्।धरणितलविकीर्णं किं स योग्यो न भोक्तुंसकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ॥ ३९ ॥ ▼ Edit Permalink Bookmark गान्धारी —जाद सुयोधण ! देहि मे पडिवअणं । पुत्तसदविणासदुत्थिदं समस्सासेहि महाराअं ।जात सुयोधन ! देहि मे प्रति३ वचनम् । पुत्रशतविनाशदुःस्थितं समाश्वासय महाराजम् । ▼ Edit Permalink Bookmark बलदेवः —अये ! इयमत्रभवती गान्धारी ।या पुत्रपौत्रवदनेष्वकुतूहलाक्षीदुर्योधनास्तमितशोकनिपीतधैर्या ।अस्त्रैरजस्रमधुना पतिधर्मचिह्न-माद्रीकृतं नयनबन्धमिदं दधाति ॥ ४० ॥ ▼ Edit Permalink Bookmark धृतराष्ट्रः —पुत्र दुर्योधन ! अष्टादशाक्षौहिणीमहाराज ! कासि । ▼ Edit Permalink Bookmark राजा —अद्यास्मि महाराजः । ▼ Edit Permalink Bookmark धृतराष्ट्र : —एहि पुत्रशतज्येष्ठ ! देहि मे प्रतिवचनम् । ▼ Edit Permalink Bookmark राजा —ददामि खलु प्रतिवचनम् । अनेन वृत्तान्तेन व्रीलितोऽस्मि । ▼ Edit Permalink Bookmark धृतराष्ट्रः —एहि पुत्र ! अभिवादयस्व माम् । ▼ Edit Permalink Bookmark राजा —अयमयमागच्छामि ।( उत्थानं रूपयित्वा पतति ) हा धिक् ! अयं मे द्वितीयः प्रहारः । कष्टं भोः !हृतं मे भीमसेनेन गदापातकचग्रहे ।सममूरुद्वयेनाद्य गुरोः पादाभिवन्दनम् ॥ ४१ ॥ ▼ Edit Permalink Bookmark गान्धारी —एत्थ जादा ! ।अत्र जाते ! ▼ Edit Permalink Bookmark देव्यौ —अय्ये ! इमा म्ह ।आयें ! इमे स्व: । ▼ Edit Permalink Bookmark गान्धारी —अण्णेसह भत्तारं ।अन्वेषेथां भर्तारम् । ▼ Edit Permalink Bookmark देव्यौ —गच्छाम मन्दभाआगच्छावः मन्दभागे । ▼ Edit Permalink Bookmark धृ — ▼ Edit Permalink Bookmark दुर्जय: —ताद ! अहं दुज्जओ ।तात ! अहं दुर्जय: । ▼ Edit Permalink Bookmark धृतराष्ट्रः —पौत्र दुर्जय ! पितरमन्विच्छ । ▼ Edit Permalink Bookmark दुर्जयः —ताद ! परिस्संतो खु अहं ।तात ! परिश्रान्तः खल्वहम् । ▼ Edit Permalink Bookmark धृतराष्ट्रः —गच्छ पितुरङ्के विश्रमस्व । ▼ Edit Permalink Bookmark दुर्जयः —ताद ! अहं गच्छामि ।( उपसृत्य ) ताद ! कहिं सि तात ! अहं गच्छामि । तात क्वासि । ▼ Edit Permalink Bookmark राजा —अयमप्यागतः । भोः ! सर्वावस्थायां हृदयसंनिहितः पुत्रस्नेहो मां दहति । कुतः,दुःखानामनभिज्ञो यो ममाङ्कशयनोचितः ।निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ॥ ४२ ॥ ▼ Edit Permalink Bookmark दुर्जयः —अअं महाराओ भूमीए उवविट्ठो ।अयं महाराजो भूम्यापविष्टः । ▼ Edit Permalink Bookmark राजा —पुत्र किमर्थमिहागतः । ▼ Edit Permalink Bookmark दुर्जयः —तुवं चिरायसि त्ति । [ त्वं चिरायसीति । ] ▼ Edit Permalink Bookmark राजा —अहो अस्यामवस्थायामपि पुत्रस्नेहो हृदयं दहति । ▼ Edit Permalink Bookmark दुर्जयः —अहं पि खु दे अङ्के उवविसामि ।( अङ्कमारोहति )अहमपि खलु ते अङ्के उपविशामि । ▼ Edit Permalink Bookmark राजा —( निवार्य ) दुर्जय ! दुर्जय ! भोः ! कष्टम् ।हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम्सोऽयं कालविपर्यासाञ्चन्द्रो वह्नित्वमागतः ॥ ४३ ॥ ▼ Edit Permalink Bookmark दुर्जयः —अङ्के उववेसं किण्णिमित्तं तुवं वारोस । [ अङ्क उपवेशं किनिमित्तं त्वं वारयसि । ] ▼ Edit Permalink Bookmark राजा —त्यक्त्वा परिचितं पुत्र ! यत्र यत्र त्वयास्यताम् ।अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ॥ ४४ ॥ ▼ Edit Permalink Bookmark दुर्जयः —कहिहु महाराओ गमिस्सिदि ।कुन नु खलु महाराजो गमिष्यति । ▼ Edit Permalink Bookmark राजा —भ्रातृशतमनुगच्छामि । ▼ Edit Permalink Bookmark दुर्जय: —मं पितहि हि ।मामपि तत्र नय । ▼ Edit Permalink Bookmark राजा —गच्छ पुत्र ! एवं वृकोदरं ब्रूहि । ▼ Edit Permalink Bookmark दुर्जय: —एहि महाराअ ! अण्णेसीअसि ।एहि महाराज ! अन्विष्यसे । ▼ Edit Permalink Bookmark राजा —पुत्र केन । ▼ Edit Permalink Bookmark दुर्जय: —अय्याए अय्येण सव्वेण अन्तेउरेण अ । [ आर्ययार्येण सर्वेणान्तःपुरेण च । ] ▼ Edit Permalink Bookmark राजा —गच्छ पुत्र ! नाहमागन्तुं समर्थः । ▼ Edit Permalink Bookmark दुर्जयः —अहं तुमं णइस्सं । [ अहं त्वां नेष्यामि । ] ▼ Edit Permalink Bookmark राजा —बालस्तावदसि पुत्र ! । ▼ Edit Permalink Bookmark दुर्जयः —( परिक्रम्य ) अय्या ! अअं महाराओ । [ आर्याः ! अयं महाराज: । ] ▼ Edit Permalink Bookmark देव्यौ —हा हा ! महाराओ । [ हा हा ! महाराज: । ] ▼ Edit Permalink Bookmark धृतराष्ट्रः —क्वासौ महाराजः । ▼ Edit Permalink Bookmark गान्धारी —कहिं मे पुत्तओ ।कुत्र मे पुत्रकः । ▼ Edit Permalink Bookmark दुर्जयः —अअं महाराओ भूमीए उवविट्ठो ।अयं महाराजो भूम्यामुपविष्टः । ▼ Edit Permalink Bookmark धृतराष्ट्रः —हन्त भोः ! किमयं महाराजः ।यः काञ्चनस्तम्भसमप्रमाणो लोके किलैको वसुधाधिपेन्द्रः ।कृतः स मे भूमिगतस्तपस्वी द्वारेन्द्रकीलार्धसमप्रमाणः ॥ ४५ ॥ ▼ Edit Permalink Bookmark गान्धारी —जाद सुयोधण ! परिस्संतोसि ।जात सुयोधन ! परिश्रान्तोऽसि । ▼ Edit Permalink Bookmark राजा —भवत्याः खल्वहं पुत्रः । ▼ Edit Permalink Bookmark धृतराष्ट्रः —केयं भोः ! । ▼ Edit Permalink Bookmark गान्धारी —महाराअ ! अहमभीदपुत्तप्पसविणी ।महाराज ! अहमभीतपुत्रप्रसविनी । ▼ Edit Permalink Bookmark राजा —अद्योत्पन्नमिवात्मानमवगच्छामि । भोस्तात किमिदानीं वैक्लव्येन । ▼ Edit Permalink Bookmark धृतराष्ट्रः —पुत्र कथमविक्लवो भविष्यामि ।यस्य वीर्यबलोत्सिक्तं संयुगाध्वरदीक्षितम् ।पूर्वं भ्रातृशतं नष्टं त्वय्येकस्मिन्हते हतम् ॥ ४६ ॥ ▼ Edit Permalink Bookmark ( पतति । ) ▼ Edit Permalink Bookmark राजा —हा धिक् । पतितोऽत्रभवान् । तात ! समाश्वासयात्रभवतीम् । ▼ Edit Permalink Bookmark धृतराष्ट्र: —पुत्र ! किमिति समाश्वासयामि । ▼ Edit Permalink Bookmark राजा —अपराङ्मुखो युधि हत इति । भोस्तात ! शोकनिग्रहेण क्रियतां ममानुग्रहः ।त्वत्पादमात्रप्रणताप्रमौलिर्ज्वलन्तमप्यग्निमचिन्तयित्वा ।येनैव मानेन समं प्रसूतस्तेनैव मानेन दिवं प्रयामि ॥ ४७ ॥ ▼ Edit Permalink Bookmark धृतराष्ट्रः —वृद्धस्य मे जीवितनिःस्पृहस्य निसर्गसंमीलितलोचनस्य ।धृतिं निगृह्यात्मनि संप्रवृत्तस्तीत्रस्समाक्रामति पुत्रशोकः ॥ ४८ ॥ ▼ Edit Permalink Bookmark बलदेवः —भोः ! कष्टम् ।दुर्योधननिराशस्य नित्यास्तमितचक्षुषः ।न शक्नोम्यत्रभवतः कर्तुमात्मनिवेदनम् ॥ ४९ ॥ ▼ Edit Permalink Bookmark राजा —विज्ञापयाम्यत्रभवतीम् । ▼ Edit Permalink Bookmark गान्धारी —भणाहि जाद ! ।भण जात ! ▼ Edit Permalink Bookmark राजा —नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् ।अन्यस्यामपि जात्यां मे त्वमेव जननी भव ॥ ५० ॥ ▼ Edit Permalink Bookmark गान्धारी —मम मणोरहो खु तुए भणिदो ।मम मनोरथः खलु स्वया भणित: । ▼ Edit Permalink Bookmark राजा —मालवि ! त्वमपि शृणु ।भिन्ना मे भ्रुकुटी गदानिपतितैर्व्यायुद्धकालोत्थितैः-र्वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः ।पश्येमौ व्रणकाञ्चनाङ्गदधरौपर्याप्तशोभौ भुजौभर्ता ते नपराङ्मुखो युधि हतः किं क्षत्रिये ! रोदिषि ॥ ५१ ॥ ▼ Edit Permalink Bookmark देवी —बाळा एसा सहधर्मचारिणी रोदामि ।बाला एषा सहधर्मचारिणी रोदिमि । ▼ Edit Permalink Bookmark राजा —पौरवि ! त्वमपि श्रृणु ।वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाःशत्रूणामुपरि स्थितं प्रियशतं न व्यंसिताः संश्रिताः ।युद्धेऽष्टादशवाहिनी नृपतयः संतापिता निग्रहेमानं मानिनि ! वीक्ष्य मे न हि रुदन्त्येवंविधानां स्त्रियः ॥ ५२ ॥ ▼ Edit Permalink Bookmark पौरवी —एक्ककिदप्पवेसणिचआ ण रोदामि । [ एककृतप्रवेशनिश्चया न रोदिमि । ] ▼ Edit Permalink Bookmark राजा —दुर्जय ! त्वमपि श्रुणु । ▼ Edit Permalink Bookmark धृतराष्ट्रः —गान्धारि ! किं नु खलु वक्ष्यति । ▼ Edit Permalink Bookmark गान्धारी —अहं पितं एव्व चिन्तेभि ।अहमपि तदेव चिन्तयामि । ▼ Edit Permalink Bookmark राजा —अहमिव पाण्डवाः शुश्रूषयितव्याः, तत्रभवत्याश्वांबायाः कुन्त्या निदेशो वर्तयितव्यः । अभिमन्योर्जननी द्रौपदी चोभे मातृवत्पूजयितव्ये । पश्य पुत्र !श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पितातुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज ।स्पृष्ट्रा चैव युधिष्ठिरस्य विपुलं क्षौमापसत्र्यं भुजंदेयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ॥ ५३ ॥ ▼ Edit Permalink Bookmark बलदेवः —अहो वैरं पश्चात्तापः संवृत्तः । अये शब्द इव ।सन्नाहदुन्दुभिनिनाद वियोगमूकेविक्षिप्तबाणकवचव्यजनातपत्रे ।तस्यैष कार्मुकरवो हतसूतयोधेविभ्रान्तवायसगणं गगनं करोति ॥ ५४ ॥ ▼ Edit Permalink Bookmark ( नेपथ्ये ) ▼ Edit Permalink Bookmark दुर्योधनेनाततकार्मुकेण यो युद्धयज्ञः सहितः प्रविष्टः ।तमेव भूयः प्रविशामि शून्यमध्वर्युणा वृत्तमिवाश्वमेधम् ॥ ५५ ॥ ▼ Edit Permalink Bookmark बलदेवः —अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते । य एषः,स्फुटितकमलपत्रस्पष्टविस्तीर्णदृष्टीरुचिरकनकयूपव्यायतालम्बबाहुः ।सरभसमयमुग्रं कार्मुकं कर्षमाणःसदहन इव मेरुः शृङ्गलग्नेन्द्रचापः ॥ ५६ ॥ ▼ Edit Permalink Bookmark ( ततः प्रविशत्यश्वत्थामा । ) ▼ Edit Permalink Bookmark अश्वत्थामा —( पूर्वोक्तमेव पठित्वा ) भो भोः ! समरसंरम्भोभयबलजलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्तविग्रहाः स्तोकावशेषश्वासानुबद्धमन्दप्राणाः समरश्लाघिनो राजानः ! शृण्वन्तु शृण्वन्तु भवन्तः ।छलबलदलितोरुः कौरवेन्द्रो न चाहंशिथिलविफलशस्त्रः सूतपुत्रो न चाहम् ।इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रःसरभसमहमेको द्रोणपुत्रः स्थितोऽस्मि ॥ ५७ ॥किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया । ( परिक्रम्य ) मा तावन् । मयि गुरुनिवपनव्यग्रे वञ्चितः किल कुरुकुलतिलकभूतः कुरुराजः । के एतच्छ्रद्धास्यति । कुतः, उद्यत्प्राञ्जलयो रथद्विपगताञ्चापद्वितीयैः करै-र्यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः ।भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणेव्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ॥ ५८ ॥तत् क्वनु खलु गतो गान्धारीपुत्रः । ( परिक्रम्यावलोक्य ) अये अयमभिहतगजतुरगनररथप्राकारमध्यगतः समरपयोधिपारगः कुमराजः । य एषः, मौलीनिपातचलकेशमयूखजालै-र्गात्रैर्गदानिपतनक्षतशोणितार्द्रैः ।भात्यस्तमस्तकशिलातलसंनिविष्टःसन्ध्यावगाढ इव पश्चिमकालसूर्यः ॥ ५९ ॥( उपसृत्य ) भोः कुरुराज ! किमिदम् । ▼ Edit Permalink Bookmark राजा —गुरुपुत्र ! फलमपरितोषस्य । ▼ Edit Permalink Bookmark अश्वत्थामा —भोः कुरुराज ! सत्कारमूलमावर्जयिष्यामि ▼ Edit Permalink Bookmark राजा —किं भवान् करिष्यति । ▼ Edit Permalink Bookmark अश्वत्थामा —श्रूयताम् ।युद्धोद्यतं गरुडपृष्ठनिविष्टदेहंस्पष्टाष्टभीमभुजमुद्यतशार्ङ्गचक्रम् ।कृष्णं सपाण्डुतनयं युधि शस्त्रजालैःसंकीर्णलेख्यमिव चित्रपटं क्षिपामि ॥ ६० ॥ ▼ Edit Permalink Bookmark राजा —मा मा भवानेवम् ।गतं धात्र्युत्संगे सकलमभिषिक्तं नृपकुलंगतः कर्णः स्वर्गं निपतिततनुः शन्तनुसुतः ।गतं भ्रातॄणां मे शतमभिमुखं संयुगमुखेवयं चैवंभूताः गुरुसुत ! धनुर्मुञ्चतु भवान् ॥ ६१ ॥ ▼ Edit Permalink Bookmark अश्वत्थामा —भोः कुरुराज !संयुगे पाण्डुपुत्रेण गदापातकचग्रहे ।सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ॥ ६२ ॥ ▼ Edit Permalink Bookmark राजा —मा मैवम् । मानशरीरा राजानः । मानार्थमेव मया निग्रहो गृहीतः । पश्य गुरुपुत्र !यत्कृष्टा करनिग्रहाञ्चितकचा द्यूते तदा द्रौपदीयद्बालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः ।अक्षय्याजजिता वनं वनमृगैर्यत्पाण्डवाः संश्रितानन्वल्पं मयि तैः कृतं विमृश भो ! दर्पाहृतं दीक्षितैः ॥ ६३॥ ▼ Edit Permalink Bookmark अश्वत्थामा —सर्वथा कृतप्रतिज्ञोऽस्मि ।भवता चात्मना चैव वीरलोकैः शपाम्यहम् ।निशासमरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ ६४ ॥ ▼ Edit Permalink Bookmark बलदेवः —एतद्भविष्यत्युदाहृतं गुरुपुत्रेण । ▼ Edit Permalink Bookmark अश्वत्थामा —हलायुधोऽत्रभवान् । ▼ Edit Permalink Bookmark धृतराष्ट्रः —हन्त ! साक्षिमती खलु वञ्चना । ▼ Edit Permalink Bookmark अश्वत्थामा —दुर्जय ! इतस्तावत् ।पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते ।विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥ ६५ ॥ ▼ Edit Permalink Bookmark राजा —हन्त ! कृतं मे हृदयानुज्ञातम् । परित्यजन्तीव मे प्राणाः । इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः । एतत्कर्णमग्रतः कृत्वा समुत्थितं भ्रातृशतम् । अयमप्यैरावतशिरोविषक्तः काकपक्षधरो महेन्द्रकरतलमवलम्ब्य क्रुद्धोऽभिभाषते मामभिमन्युः । उर्वश्यादयोऽप्सरसो मामभिगताः । इमे महार्णवा मूर्तिमन्तः । एता गंगाप्रभृतयो महानद्यः । एष सहस्रहंसप्रयुक्तो मां नेतुं वीरवाही विमानः कालेन प्रेषितः । अयमयमागच्छामि ।( स्वर्गं गतः । ) ▼ Edit Permalink Bookmark ( यवनिकास्तरणं करोति । ) ▼ Edit Permalink Bookmark धृतराष्ट्रः —याम्येष सज्जनधनानि तपोवनानिपुत्रप्रणाशविफलं हि धिगस्तु राज्यम् । ▼ Edit Permalink Bookmark अश्वत्थामा —यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः ▼ Edit Permalink Bookmark ( भरतवाक्यम् । ) ▼ Edit Permalink Bookmark बलदेवः —गां पातु नो नरपतिः शमितारिपक्षः ॥ ६६ ॥ ▼ Edit Permalink Bookmark ( निष्क्रान्ताः सर्वे । ) ▼ Edit Permalink Bookmark ऊरुभङ्गं नाम नाटकं समाप्तम् ॥ ▼ Edit Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha