सूत्रधारः —मार्ष ! किं नावगच्छसि । तनयशतनयनशून्ये दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशेषे युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके,एतद्रणं हतगजाश्वनरेन्द्रयोधंसंकीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।युद्धे वृकोदरसुयोधनयोः प्रवृत्तेयौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३ ॥