त्रिपुरोपनिषत्

त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् ।अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥ १ ॥
ॐ वाङ्मे मनसीति शान्तिः ॥
ॐ तिस्रः पुरस्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः संनिविष्टाः । अधिष्ठाना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥ १ ॥ नवयोनीर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च । नवानां चक्रा अधिनाथा स्योना नव भद्रा नव मुद्रा महीनाम् ॥ २ ॥ एका स आसीत्प्रथमा सा नवासीदासोनविंशादासोनत्रिंशात् । चत्वारिंशादथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु ॥ ३ ॥ ऊर्ध्वज्वलज्ज्वलनं ज्योतिरग्रे तमो वै तिरश्चीनमजरं तद्रजोऽभूत् । आनन्दनं मोदनं ज्योतिरिन्दोरेता उ वै मण्डला मण्डयन्ति ॥ ४ ॥ यास्तिस्रो रेखाः सदनानि भूस्त्रीस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः । एतत्त्रयं पूरकं पूरकाणां मन्त्री प्रथते मदनो मदन्या ॥ ५ ॥ मदन्तिका मानिनी मङ्गला च सुभागा च सा सुन्दरी सिद्धिमत्ता । लज्जा मतिस्तुष्टिरष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥ ६ ॥ इमां विज्ञाय सुधिया मदन्ती परिस्रुता तर्पयन्तः स्वपीठम् । नाकस्य पृष्ठे महतो वसन्ति परं धाम त्रैपुरं चाविशन्ति ॥ ७ ॥ कामो योनिः कामकला वज्रपाणिर्गुहाहसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमातादिविद्या ॥ ८ ॥ षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिकमादेशयन्तः । कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥ ९ ॥ पुरं हन्त्री मुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा । बृहत्तिथिर्दश पञ्च च नित्या सषोडशीकं पुरमध्यं बिभर्ति ॥ १० ॥ यद्वा मण्डलाद्वा स्तनबिम्बमेकं मुखं चाधस्त्रीणि गुहासदनानि । कामी कलां कामरूपां चिकित्वा नरो जायते कामरूपश्च कामः ॥ ११ ॥ परिस्रुतं झषमाजं फलं च भक्तानि योनीः सुपरिष्कृताश्च । निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥ १२ ॥ सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् । इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ १३ ॥ भगः शक्तिर्भगवाकाम ईश उभा दाताराविह सौभगानाम् । समप्रधानौ समसत्त्वौ समोजौतयोः शक्तिरजरा विश्वयोनिः ॥ १४ ॥ परिस्रुता हविषा भावितेन प्रसंकोचे गलिते वैमनस्कः । शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति ॥ १५ ॥ इयं महोपनिषत्त्रैपुर्या यामक्षयं परमो गीर्भिरीट्टे । एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या च विद्या ॥ १६ ॥ ॐ ह्रीमों हीमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ वाङ्मे मनसीति शान्तिः ॥
इति श्रीत्रिपुरोपनिषत्समाप्ता ॥ ८५ ॥

Settings