स्वात्मप्रकाशिका

जगत्कारणमज्ञानमेकमेव चिदन्वितम् ।एक एव मनः साक्षी जानात्येवं जगत्त्रयम् ॥ १ ॥
विवेकयुक्तबुद्ध्याहं जानाम्यात्मानमद्वयम् ।तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ २ ॥
विवर्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा ।इति संशयपाशेन बद्धोऽहं छिन्द्धि संशयम् ॥ ३ ॥
एवं शिष्यवचः श्रुत्वा गुरुराहोत्तरं स्फुटम् ।नाज्ञानं न च बुद्धिश्च न जगन्न च साक्षिता ॥ ४ ॥
बन्धमोक्षादयः सर्वे कृताः सत्येऽद्वये त्वयि ।भातीत्युक्ते जगत्सर्वं सद्रूपं ब्रह्म तद्भवेत् ॥ ५ ॥
सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ।प्रपञ्चाधाररूपेण वर्तते तज्जगन्न हि ॥ ६ ॥
यथेक्षुमभिसंव्याप्य शर्करा वर्तते तथा ।आश्चर्यब्रह्मरूपेण त्वं व्याप्तोऽसि जगत्त्रयम् ॥ ७ ॥
मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् ।जगत्त्रयमिदं सर्वं चिन्मात्रं सुविचारतः ॥ ८ ॥
ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनस्त्वयि कल्पिताः ।बुद्बुदादितरङ्गान्ता विकाराः सागरे यथा ॥ ९ ॥
तरङ्गत्वं ध्रुवं सिन्धुर्न वाञ्छति यथा तथा ।विषयानन्दवाञ्छा ते महदानन्दरूपतः ॥ १० ॥
पिष्टं व्याप्य गुडं यद्वन्माधुर्यं न हि वाञ्छति ।पूर्णानन्दो जगद्वयाप्य तदानन्दं न वाञ्छति ॥ ११ ॥
दारिद्र्याशा यथा नास्ति संपन्नस्य तथा तव ।ब्रह्मानन्दनिमग्नस्य विषयाशा न संभवेत् ॥ १२ ॥
विषं दृष्ट्वामृतं दृष्ट्वा विषं त्यजति बुद्धिमान् ।आत्मानमपि दृष्ट्वा त्वं त्यजानात्मानमादरात् ॥ १३ ॥
घटावभासको भानुर्घटनाशे न नश्यति ।देहावभासकः साक्षी देहनाशे न नश्यति ॥ १४ ॥
निराकारं जगत्सर्वं निर्मलं सच्चिदात्मकम् ।द्वैताभावात्कथं कस्माद्भयं पूर्णस्य मे वद ॥ १५ ॥
ब्रह्मादिकं जगत्सर्वं त्वय्यानन्दे प्रकल्पितम् ।त्वय्येव लीनंहिजगत्त्वं कथं लीयसे वद ॥ १६ ॥
न हि प्रपञ्चो न हि भूतजातंन चेन्द्रियं प्राणगणो न देहः ।न बुद्धिचित्तं न मनो न कर्ताब्रह्मैव सत्यं परमात्मरूपम् ॥ १७ ॥
सर्वं सुखं विद्धि सुदुःखनाशा-त्सर्वं च सद्रूपमसत्यनाशात् ।चिद्रूपमेव प्रतिभानयुक्तंतस्मादखण्डं परमात्मरूपम् ॥ १८ ॥
चिदेव देहस्तु चिदेव लोका-श्चिदेव भूतानि चिदिन्द्रियाणि ।कर्ता चिदन्तःकरणं चिदेवचिदेव सत्यं परमार्थरूपम् ॥ १९ ॥
न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ।मायामात्रविलासो हि मायातीतोऽहमद्वयः ॥ २० ॥
राज्यं करोतु विज्ञानी भिक्षामटतु निर्भयः ।दोषैर्न लिप्यते शुद्धः पद्मपत्रमिवाम्भसा ॥ २१ ।
पुण्यानि पापकर्माणि स्वप्नगानि न जाग्रति ।एवं जाग्रत्पुण्यपापकर्माणि न हि मे प्रभोः ॥ २२ ॥
कायः करोतु कर्माणि वृथा वागुच्यतामिह ।राज्यं ध्यायतु वा बुद्धिः पूर्णस्य मम का क्षतिः ॥ २३ ॥
प्राणाश्चरन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ।आनन्दामृतपूर्णस्य मम दुःखं कथं भवेत् ॥ २४ ॥
आनन्दाम्बुधिमग्नोऽसौ देही तत्र न दृश्यते ।लवणं जलमध्यस्थं यथा तत्र लयं गतम् ॥ २५ ॥
इन्द्रियाणि मनः प्राणा अहंकारः परस्परम् ।जाड्यसंगतिमुत्सृज्य मग्ना मयि चिदर्णवे ॥ २६ ॥
आत्मानमञ्जसा वेद्मि त्वज्ञानं प्रपलायितम् ।कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २७ ॥
चिदमृतसुखराशौ चित्तफेनं विलीनंक्षयमधिगत एव वृत्तिचञ्चत्तरङ्गः ।स्तिमितसुखसमुद्रो निर्विचेष्टः सुपूर्णःकथमिह ममदुःखं सर्वदैकोऽहमस्मि ॥ २८ ॥
आनन्दरूपोऽहमखण्डबोधःपरात्परोऽहं घनचित्प्रकाशः ।मेघा यथा व्योम न च स्पृशन्तिसंसारदुःखानि न मां स्पृशन्ति ॥ २९ ॥
अस्थिमांसपुरीषान्त्रचर्मलोमसमन्वितः ।अन्नादः स्थूलदेहः स्यादतोऽहं शुद्धचिद्धनः ॥ ३० ॥
स्थूलदेहाश्रिता एते स्थूलाद्भिन्नस्य मे न हि ।लिङ्गं जडात्मकं नाहं चित्स्वरूपोऽहमद्वयः ॥ ३१ ॥
क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः ।लिङ्गदेहाश्रिता ह्येते नैवालिङ्गस्य मे विभोः ॥ ३२ ॥
अनाद्यज्ञानमेवात्र कारणं देहमुच्यते ।नाहं कारणदेहोऽपि स्वप्रकाशो निरञ्जनः ॥ ३३ ॥
जडत्वप्रियमोदत्वधर्माः कारणदेहगाः ।न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः ॥ ३४ ॥
जीवाद्भिन्नः परेशोऽस्ति परेशत्वं कुतस्तव ।इत्यज्ञजनसंवादो विचारः क्रियतेऽधुना ॥ ३५ ॥
अधिष्ठानं चिदाभासो बुद्धिरेतत्रयं यदा ।अज्ञानादेकवद्भाति जीव इत्युच्यते तदा ॥ ३६ ॥
अधिष्ठानं न जीवः स्यात्प्रत्येकं निर्विकारतः ।अवस्तुत्वाच्चिदाभासो नास्ति तस्य च जीवता ॥ ३७ ॥
प्रत्येकं जीवता नास्ति बुद्धेरपि जडत्वतः ।जीव आभासकूटस्थबुद्धित्रयमतो भवेत् ॥ ३८ ॥
मायाभासी विशुद्धात्मा त्रयमेतन्महेश्वरः ।मायाभासोऽप्यवस्तुत्वात्प्रत्येकं नेश्वरो भवेत् ॥ ३९ ॥
पूर्णत्वान्निर्विकारत्वाद्विशुद्धत्वान्महेश्वरः ।जडत्वहेतोर्मायायामीश्वरत्वं नु दुर्घटम् ॥ ४० ॥
तस्मादेतत्त्रयं मिथ्या तदर्थो नेश्वरो भवेत् ।इति जीवेश्वरौ भातः स्वाज्ञानान्न हि वस्तुतः ॥ ४१ ॥
घटाकाशमठाकाशौ महाकाशे प्रकल्पितौ ।एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ॥ ४२ ॥
मायातत्कार्यविलये नेश्वरत्वं च जीवता ।ततः शुद्धचिदेवाहं चिद्व्योमनिरुपाधितः ॥ ४३ ॥
सत्यचिद्घनमनन्तमद्वयंसर्वदृश्यरहितं निरामयम् ।यत्पदं विमलमद्वयं शिवंतत्सदाहमिति मौनमाश्रये ॥ ४४ ॥
पूर्णमद्वयमखण्डचेतनंविश्वभेदकलनादिवर्जितम् ।अद्वितीयपरसंविदंशकंतत्सदाहमिति मौनमाश्रये ॥ ४५ ॥
जन्ममृत्युसुखदुःखवर्जितंजातिनीतिकुलगोत्रदूरगम् ।चिद्विवर्तजगतोऽस्य कारणंतत्सदाहमिति मौनमाश्रये ॥ ४६ ॥
उलूकस्य यथा भानावन्धकारः प्रतीयते ।स्वप्रकाशे परानन्दे तमो मूढस्य भासते ॥ ४७ ।
यथा दृष्टिनिरोधार्तो सूर्यो नास्तीति मन्यते ।तथाज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ ४८ ॥
यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ।न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशयन् ॥ ४९ ॥
स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ।स्वल्पोऽपि बोधो महतीमविद्यां शमयेत्तथा ॥ ५० ॥
चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ।आनन्दत्वान्न मे दुःखमज्ञानाद्भाति तत्त्रयम् ॥ ५१ ॥
कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि ।अहंकारादि देहान्तं जगन्नास्त्यहमद्वयः ॥ ५२ ।
भानौ तमःप्रकाशत्वान्नाङ्गीकुर्वन्ति सज्जनाः ।तमस्तत्कार्यसाक्षीति भ्रान्तबुद्धिरहो मयि ॥ ५३ ॥
यथा शीतं जलं वह्निसंबन्धादुष्णवद्भवेत् ।बुद्धितादात्म्यसंबन्धात्कर्तृत्वं वस्तुतो न हि ॥ ५४ ॥
जलबिन्दुभिराकाशं न सिक्तं न च शुध्यति ।तथा गङ्गाजलेनायं न शुद्धो नित्यशुद्धतः ॥ ५५ ॥
वृक्षोत्पन्नफलैर्वृक्षो यथा तृप्तिं न गच्छति ।मय्यध्यस्तान्नपानाद्यैस्तथा तृप्तिर्न विद्यते ॥ ५६ ॥
स्थाणौ प्रकल्पितश्चोरः स स्थाणुत्वं न बाधते ।स्वस्मिन्कल्पितजीवश्च स्वं बाधितुमशक्यते ॥ ५७ ॥
अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ।विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥ ५८ ॥
बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते ।विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥ ५९ ॥
सूक्ष्मनाडीषु संचारो बुद्धेः स्वप्नः प्रजायते ।संचारधर्मरहिते स्वप्नो नास्ति तथा मयि ॥ ६० ॥
परिपूर्णस्य नित्यस्य शुद्धस्य ज्योतिषो मम ।आगन्तुकमलाभावात्किं स्नानेन प्रयोजनम् ॥ ६१ ॥
देशाभावात्क्व गन्तव्यं स्थानाभावात्क्व वा स्थितिः ।पूर्णे मयि स्थानदेशौ कल्पितावहमद्वयः ॥ ६२ ॥
प्राणसंचारसंशोषात्पिपासा जायते खलु ।शोषणानर्हचिद्रूपे मय्येषा जायते कथम् ॥ ६३ ॥
नाडीषु पीड्यमानासु वाय्वग्निभ्यां भवेत्क्षुधा ।तयोः पीडनहेतुत्वात्संविद्रूपे कथं मयि ॥ ६४ ॥
शरीरस्थितिशैथिल्यं श्वेतलोमसमन्वितम् ।जरा भवति सा नास्ति निरंशे मयि सर्वगे ॥ ६५ ॥
योषित्क्रीडा सुखस्यान्तर्गर्वाढ्यं यौवनं किल ।आत्मानन्दे परे पूर्णे मयि नास्ति हि यौवनम् ॥ ६६ ॥
मूढबुद्धिपरिव्याप्तं दुःखानामालयं सदा ।बाल्यं कोपनशीलान्तं न मे सुखजलाम्बुधेः ॥ ६७ ॥
एवं तत्त्वविचाराब्धौ निमग्नानां सदा नृणाम् ।परमाद्वैतविज्ञानमपरोक्षं न संशयः ॥ ६८ ॥
इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्य- पादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ स्वात्मप्रकाशिका संपूर्णा ॥

Settings