द्वितीय: पटल:

सनत्कुमारो भगवन्तं पितरं प्रणिपत्य पप्रच्छ ॥
कथं ध्यानं कथं न्यासः कथं पूजाविधानकम् ।अर्घ्यदानं कथं कार्यं ब्रवीतु भगवानिदम् ॥ इति ॥
ततो भगवान् पितामह आह---
यतवाक्कायमनसः सूर्यभक्तो ब्रह्मचारी व्रतधरः ष. . . . .
समुदायगुरुं कृधि । उद्यन्नद्यमिनो भज । पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे । तस्य नो देहि सूर्य । इति द्व्यर्चं महामन्त्रं जप्त्वा प्रत्यर्थिनो जयति । उद्यन्नद्यमित्र महः । आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य । हरिमाणं च नाशय । शुकेषु मे हरिमाणम् । रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे । हरिमाणं निदध्मसि । उदगादयमादित्यः । विश्वेन सहसा सह । द्विषन्तं मम रन्धयन् । मो अहं द्विषतो रथम् । उद्यन्नद्येत्ययं तृचो रोगघ्नः उपनिषदंत्यार्धर्चशो द्विषं (?) ना (?) यो नः शपादशपत् । यश्च नःशपतः शपात् । उषाश्च तस्मै निम्रुक् च । सर्वं पापं समूहताम् । इत्येकर्चो रोगघ्नः प्रत्यर्थिहारी ।
आकाशो वह्निना युक्तो दीर्घाद्यश्च सबिन्दुकः ।आद्योऽयमर्णकोपिष्ठो द्वितीयेन द्वितीयकः ॥
तृतीयेन तृतीयः स्यात् द्वादशेन तृतीयकः ।भूतेन पञ्चमः प्रोक्तः षष्ठः षोडशतः स्वरात् ॥
षडर्चोऽयं महामन्त्रः सर्वसिद्धिप्रदायकः ।एतन्मन्त्रं मयोद्दिष्टं गुह्याद्गुह्यतमं महत् ॥
एतज्जत्वा महामन्त्रं सर्वपापैः प्रमुच्यते ।पूजयित्वा विवस्वन्तमर्घ्यदानं समाचरेत् ।एवं यः कुरुते पूजां मुच्यते सर्वकिल्बिषैः ॥
सर्वामश्नुत इति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये द्वितीयः पटल:

Settings