भानो: संबन्धीनि दीधितीनां दश शतानि सहस्रमिति यावत् । युष्माकं शिवं भद्रं दधतु पुष्णन्तु कुर्वन्तु वा । अनेकार्थत्वाद्धातूनामिति । किंभूतानीत्याह—-यानि एकं ज्योतिरेकं तेजः प्रधानमालोककारणम् । पुनरपि कीदृशानि, दृशौ द्वे चक्षुषी द्वे । त्रिजगति त्रैलोक्ये गदितानि कथितानि । कैः, अब्जजास्यैः कमलयोनिवदनैः । कियद्भिः, चतुर्भिश्चतुःसंख्योपेतैः । भूतानां पृथिव्यादीनां पञ्चमम् । पञ्चानां भूतानां तेजसि सति पञ्च संख्या संपद्यते । तथा ऋतुषु वसन्तादिषु षट्स्वलमत्यर्थं नानाविधान्युच्चावचप्रकाराणि । तीव्रमन्दादिभेदेन भिद्यमानत्वात् । पुनरपि किंभूतानि । सप्तत्रिदशमुनिनुतानि त्रिदशमुनयो देवर्षयोऽत्रिप्रभृतयः सप्त च ते त्रिदशमुनयश्च तैर्नुतानि । भूयोऽपि किंभूतानि । अष्टदिग्भाञ्जि अष्टाशाश्रितानि । पूर्वाह्णे दिनमुखे नवत्वं प्रत्यग्रत्वं यान्ति भजन्ते । पूर्वं ज्योतिस्त्वेनैकत्वम् । पुनर्हक्त्वेन द्वित्वम् । भुवनत्वेन त्रित्वम् । चतुर्षु ब्रह्मवत्रेषु चतुःसंख्यात्वम् । पृथिव्यादिरूपतया पञ्चधा । वसन्तादिसंख्यायाः षट्त्वम् । अत्रिप्रभृतिभिः सप्तत्वम् । तीव्रमन्दादिभेदेन नानात्वम् । अष्टदिग्भाक्त्वेनाष्टत्वम् । आश्रयभेदाद्भेदः । पूर्वाह्णे नवत्वमिति शब्दसाम्यान्नवत्वं नवसंख्यायोगिता प्रदर्शितेति ॥