मा गान्म्लानिं मृणालीमृदुरिति दययेवाप्रविष्टोऽहिलोकंलोकालोकस्य पार्श्वं प्रतपति न परं यस्तदाख्यार्थमेव ।ऊर्ध्वं ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैर्घ्यो द्युसीम्निस्वेच्छावश्यावकाशावधिरवतु स वस्तापनो रोचिरोघः ॥ १९ ॥
रोचिषामोघो रोचिरोघो दीप्तिपुञ्जः । स तापनः सूर्यसंबन्धी मयूखत्रातो वो गुष्मानवतु रक्षतु । किंभूतः । यो न प्रविष्टोऽहिलोकं फणिसद्म । किमिति । मा गान्मा यासीदिति म्लानिं पीडामयमहिलोको मृणालीकोमलः । ततो यद्यहं पातालं गच्छेयं तदा नूनमयं म्लानिं यास्यतीति । दयया कृपया । लोकालोकस्य परं पार्श्वं तदाख्यार्थमेव तत्संज्ञार्थमेव न प्रतपति न प्रकाशयति । तस्य हि लोकालोकसंबन्धात्तदभावाच्च लोकश्च स आलोकश्च सः । अर्वाचीने पार्श्वे यत्र भगवान्प्रतपति तत्र लोका विद्यन्ते नापरत्र । यदि तत्रापि भगवान्प्रतपति तदा सोऽपि लोक एव स्यात् । तदालोकालोक इत्याख्या तस्य नश्येत् । अनेन कारणेन तस्य परं पार्श्वं न प्रतपति । ऊर्ध्वमुपरिष्टाद्ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैर्ध्यः । ब्रह्माण्डखण्डस्य स्फुटनं दलनं तस्माद्भयं तेन परित्यक्तं दैर्ध्यं द्राघिमा येन स तथोक्तः । क्व । द्युसीम्नि गगनमर्यादायाम् । दिवः सीमा द्युसीमा तस्मिन् । किंविशिष्टः । स्वेच्छावश्यावकाशावधिः । स्वेच्छावश्यो वशंगतोऽवकाशावधि: स्थानमर्यादा यस्य सः ॥
अश्यामः काल एको न भवति भुवनान्तोऽपि वीतेऽन्धकारेसद्यः प्रालेयपादो न विलयमचलश्चन्द्रमा अप्युपैति ।बन्धः सिद्धाञ्जलीनां न हि कुमुदवनस्यापि यत्रोज्जिहानेतत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥ २० ॥
दिनपतेरादित्यस्य तद्धाम तत्तेजो वो युष्मभ्यं कामाधिकमभिलाषाधिकं दिशतु यच्छतु । कामाधिकं सामर्थ्यात्प्रस्तावात्प्रार्थितमेव । यत्र यस्मिन्धान्म्युज्जिहाने उद्गच्छति सति न खल्वहर्लक्षणः काल एवाश्यामो भवति अपि तु भुवनान्तोऽपि । कालस्याश्यामत्वं श्यामा रात्रिस्तद्रहितत्वम् । न विद्यते श्यामास्मिन्निति कृत्वा । तेजस्युद्गच्छत्यहर्लक्षणः कालो भवति तस्य राजत्र्या सहानवस्थानलक्षणो विरोध इत्यश्यामः । भुवनान्तः पुनः श्यामगुणरहितः । कस्मिन्नवसरे । अन्धकारे तमसि वीते विगते सति । 'वीतान्धकारः' इति पाठान्तरम् । तत्र वीतं गतमन्धकारं यस्मादवसरादिति योज्यम् ।किं च स व्यक्तलक्षणः प्रालेयपादो हिमप्रधानप्रत्यन्तनगोऽचलः पर्वत एव न विलयमेति न विलीयते द्रवति अपि तु चन्द्रमा अपि विलयमेति म्लानिं विच्छायतां याति । प्रालेयपादो हिमकिरणश्चन्द्रमा अपि । बन्धो मुकुलभावो न हि सिद्धाञ्जलीनामेव । सिद्धा देवविशेषाः । अञ्जलय उभयकरविन्यासः । तेषां बन्धो रचना । सिद्धा हि भगवन्तमुपतिष्ठमाना अञ्जलोन्विदधति । न हि सिद्धाञ्जलीनां बन्धो भवति, अपि तु कुमुदवनस्यापि । कुमुदान्यपि तस्मिन्काले मीलन्ति संकोचं यान्ति । प्रातः प्रभाते । कीदृशं तद्धाम । प्रेक्षणीयं प्रेक्षणार्हं रमणीयमिति ॥
Most of our texts are sourced from a custom snapshot of GRETIL, which you can find
here.
Our रामायणम् and महाभारतम्
texts are sourced from
John Smith's website.
Parse data comes from a custom snapshot of the Digital Corpus of Sanskrit, which you can find
here.