सुदर्शनोपनिषत्

यज्ञोपवीती धृतचक्रधारी यो ब्राह्मणो ब्रह्मविद्ब्रह्मविदां मनीषी हिरण्यमादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्रीशूद्रैर्बाहुभ्यां धारयेत् । तस्माद्गर्भेण जायते । ब्राह्मणस्य शरीरं जायते । श्रीविष्णुं सर्वेश्वरं भजन्ति ।
नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु धारयेत् ।उद्धृतासि वराहेण कृष्णेन शतबाहुना ।
भूमिधेनुर्धरणी लोकधारिणी ॥
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥
तस्माद्विरेखं भवति । तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् । आचार्यस्य संमुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं सालोक्यसामीप्यसारूप्यसायुज्यं गच्छति । य एवं वेद । इत्युपनिषत् ।
यजुर्वेदे तृतीयकाण्डे तृतीयप्रश्ने--- "कक्षमुपौषेद्यदि दहति पुण्यसमं भवति यदि न दहति पापसममेतेन" । उष दाहे । उपकक्षं भुजः । "चरणं पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूताः । अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु"" पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत । "
यो ह वै सुश्लोकमौले धर्माननुतिष्ठमानोऽग्निना चक्रं योऽग्निर्वै सहस्रारस्सहस्रारो नेमिर्नेमिना तप्ततनूस्सायुज्यं सलोकतामाप्नोतीति ।
चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममृतस्य विष्णोः ।स एति नाकं दुरिता विधूय विशन्ति यद्यतयो वीतरागाः ॥
चमूषच्छ्येनश्शकुनो बिभृत्वा गोविन्दद्रप्स आयुधानि बिभ्रत्[?]अपामूर्मिं सचमानस्समुद्रं तुरीयं धाम महिषो विवक्ति[?]
शङ्खचक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः ।तदीयाराधनं चैव भक्तिर्बहुविधा स्मृता ॥
पशुपुत्रादिकं सर्वं गृहोपकरणानि च ।अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्याच्च वैष्णवम् ॥
पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः ।तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ॥
ये कण्ठलग्नतुलसीनलिनाक्षमालाये बाहुमूलपरिचिह्नितशङ्खचक्राः ।ये बा ललाटफलके लसदूर्ध्वपुण्ड्राःश्रीवैष्णवा भुवनमाशु पवित्रयन्ति ॥
पञ्चार्द्रतत्त्वविदुषां पञ्चसंस्कारसंस्कृतम् ।पञ्चावस्थास्वरूपं ते विज्ञेयं सततं विभो ॥
पञ्चसंस्कारयुक्तानां वैष्णवानां विशेषतः ।गृहार्चनविधाने न शङ्खं घण्टारवं त्यजेत् ॥ इति ॥
एतदथर्वशिरो योऽधीते य ऊर्ध्वपुण्ड्रं विधिवद्विदित्वा धारयति स वैदिको भवति । स कर्मार्हो भवति । अनेन तेजस्वी यशस्वी ब्रह्मवर्चस्वी भवति । अनेन कायिकवाचिकमानसपातकेभ्यः पूतो भवति । श्रीविष्णुसायुज्यमवाप्नोति । श्रीविष्णुसायुज्यमवाप्नोति । य एवं वेद । इत्युपनिषत् ॥
इति सुदर्शनोपनिषत् समाप्ता

Settings