आशा सैषाऽवलोकच प्रचुरपरवसु प्रैषयन्मां तदर्थेनानादेशानटित्वार्जयमथ तदहं लोभपुत्रानुयातः ।दम्भं संगम्य मित्रं तदनु मदमहास्तेननिःस्वीकृतत्वात्खिन्नोऽप्येनां कुनाथः कथमहह पुनः प्रेरयन्तीं भजेयम् ॥ ४ ॥
द्वारेद्वारे परेषां तमसि विलसिते रत्यवाप्त्यै भ्रमन्त्यास्वस्त्रीसक्त्याऽन्यदीयां रतिमविदधतम्तान्मृषा विद्विषन्त्या |मुञ्चन्त्या लोकलजामहह कुलटयेवाशया दूषितो ना१प्रायश्चित्तं गृहीतुं किमपि न यतते संगयोग्यो हि नो ना ॥ ५ ॥
आविर्भूतप्रदोषां प्रवितततमसा निर्मितां भूरिजन्तु-प्रागल्भ्यं दारयन्तीं द्युतिनिधनकरीं भानिधेरप्यतीव |आलम्ब्याशानिशां यो विचरति परितः किं न स स्यात्पिशाच-श्चित्रं त्वेतच्चितायां न वसति लभते नाप्यदृश्यत्वमेषः ॥ ६ ॥
त्वं चेन्नीचत्वभीतः किमपि सुखमिह स्थातुकामोऽसि तद्भोविद्वन् ! मुञ्चापराशा मसदृशमुचितां हन्त पत्युर्जडानाम् ।एतामालम्ब्य दीनामनुदिनमिनवत्प्राग वात्यो(प्तो)दयत्वेऽ-प्यत्युच्चत्वेऽपि के के न हि बहुविंपदं दीप्तिमन्तोऽपि यान्ति ॥ ८ ॥
विद्याभ्यासाख्यमाद्ये वयसि गुरुगृहे भूरि दुःखं मयाप्तंवित्तप्राप्त्याशया च प्रचुरधरणिभृत्सेवनाह्वं द्वितीये ।तार्तीयीके सकामव्रतयजनजपध्यानरूपं परं तुप्रापि कापीप्सितं नो तदपि न चरमे मुच्यते हा दुराशा ॥ ९ ॥
मातस्तात प्रभो भो नयनविषयिते पादुके यन्मया तेतत्पुण्यं पूर्वजानामिति रचितवचा: शौचमाचारमुज्झन् ।जात्युच्चो नीचभूपानुपचरति तथाप्यौदरीं नैति पूर्तिसत्येवं हन्त जन्तुर्भजति न तु कथं विश्वदं विश्वनाथम् ॥ १० ॥
पङ्गोर्भावं वरं न त्वणुतरमनसां याचनायाङ्घ्रियानंमूकत्वं वा वरं न त्वपलपितगुणं देहिदेहीति वाणी ।जन्मान्धत्वं वरं न त्वधमधनवतामास्यभङ्गस्य वीक्षाबाधिर्ये वा वरं न त्वतिपरुषगिरः संश्रुतिः प्रार्थितानाम् ॥ १४ ॥
स्वैर्लोकैर्योऽनुगम्य: प्रथममसदपि प्राप्नुयाद्यो गुणित्वंपश्चाद्विन्द्याद्गुरुत्वं ध्रुवमुदयति यः प्राणहीनो वरं सः ।न त्वर्थी योऽतिहेयो द्रुतमुचितजनैर्यश्च सिद्धं गुणित्वंमुञ्चेद्योचे(दञ्चे?)लघुत्वं महदहह न वा याति जातूदयं यः ॥ १५ ॥
धन्यं वन्यं हि मन्ये तृणमतनुगुणग्राहिकः कोऽपि लोकोमूर्धन्याधाय धाम स्वमभिनयति यत्सर्वदानन्ददायि ।धिग्व्यर्थं त्वर्थिनं तं पृथुगुणमपि यं वीक्षतेऽपि क्षणं नोदूरोद्विग्नो जनो न प्रणमति न नयत्यात्मगेहं च तत्किम् ॥ १६ ॥
चौर्य कार्यं तदा यैर्निजमुदरदरीपूरणं नो भवेच्चेद्उच्चैर्नीचत्वहेतुं न तु विदधतु ते याचनं यातनार्थम् ।यस्माच्चोरा: सुराजानुमतविधिवशाच्छूलपीठोपवेशाद्उच्चत्वं तत्प्रयान्ति स्फुरति करतलोत्तानता नैव तत्र ॥ १७ ॥
यं कंचित्सञ्चितस्वं कुवचनरचनं नैव याचस्व किंचित्त्वामित्थं चित्त ! याचे तव रुचिरथ चेद्याचने याच्य ईशः ।भिक्षार्थित्वेन जानन्व्यसनमिव पृथु प्रार्थितव्यर्थतोत्थंसामर्थ्याद्विश्वनाथः कथमपि वृथयत्यर्थनामर्थिनां न ॥ १८ ॥
दुष्टेऽस्मिन्भोगिभावे श्रवणरहितता विष्णुसेविद्विषत्ताद्वैजिह्यं जिह्यगत्वं परहतिपटुताऽध:स्थलोके निवासः ।भोगच्छेदे विपत्तिः सपदि च तदिदं सर्वमर्ह पर तत्चित्रं वाताशनत्वं न यदिह न हि वा भोगसंकोचिता यत् ॥ ३५ ॥