आविर्भूतप्रदोषां प्रवितततमसा निर्मितां भूरिजन्तु-प्रागल्भ्यं दारयन्तीं द्युतिनिधनकरीं भानिधेरप्यतीव |आलम्ब्याशानिशां यो विचरति परितः किं न स स्यात्पिशाच-श्चित्रं त्वेतच्चितायां न वसति लभते नाप्यदृश्यत्वमेषः ॥ ६ ॥
त्वं चेन्नीचत्वभीतः किमपि सुखमिह स्थातुकामोऽसि तद्भोविद्वन् ! मुञ्चापराशा मसदृशमुचितां हन्त पत्युर्जडानाम् ।एतामालम्ब्य दीनामनुदिनमिनवत्प्राग वात्यो(प्तो)दयत्वेऽ-प्यत्युच्चत्वेऽपि के के न हि बहुविंपदं दीप्तिमन्तोऽपि यान्ति ॥ ८ ॥
पङ्गोर्भावं वरं न त्वणुतरमनसां याचनायाङ्घ्रियानंमूकत्वं वा वरं न त्वपलपितगुणं देहिदेहीति वाणी ।जन्मान्धत्वं वरं न त्वधमधनवतामास्यभङ्गस्य वीक्षाबाधिर्ये वा वरं न त्वतिपरुषगिरः संश्रुतिः प्रार्थितानाम् ॥ १४ ॥
दुष्टेऽस्मिन्भोगिभावे श्रवणरहितता विष्णुसेविद्विषत्ताद्वैजिह्यं जिह्यगत्वं परहतिपटुताऽध:स्थलोके निवासः ।भोगच्छेदे विपत्तिः सपदि च तदिदं सर्वमर्ह पर तत्चित्रं वाताशनत्वं न यदिह न हि वा भोगसंकोचिता यत् ॥ ३५ ॥