सिद्धान्तशिखोपनिषत्

ॐ अथ भारद्वाजः कुमारं पप्रच्छ । कोऽयं भवादृशानां परमशिवभक्तानां सिद्धान्तः । कुतः सर्वे न विदन्तीति । तद्गुह्यमुवाच स्कन्दः । भारद्वाज शृणु नाम क्वचिद्वदन्ति साम्बं सर्वदेवप्रकृष्टं शिवं वरेण्यं पक्वचित्ता: शिवस्य प्रसादतो ज्ञानमात्राद्विदन्ति ।
विश्वाधिकं शङ्करं ये प्रमूढा हीनं विष्णोर्ब्रह्मणो वा वदन्ति ।न संसारात् प्रमुच्यन्ते कदाचिच्छतैः कल्पैः कोटिभिर्वाऽथ दोषैः ॥
यथा राज्ञे कुर्वन्नमात्यबुद्धिंदेही विन्देद्बाधमस्माद्विनष्टम् ।सत्यादिरूपं शिवमेवं विदानोविष्ण्वादिबुद्ध्या हीयतेऽज्ञानसङ्गात् ॥
महानग्निः काष्ठमार्द्रं च शुष्कं कृत्वा दहेदीश्वरोत्कृष्टबुद्धिः ।दहेत् पापान्याशु विज्ञानदात्री न संसारे मज्जते वा कदाचित् ॥
महादेवे त्रिपुण्ड्रस्य धारणे भस्मकुण्ठने ।पुण्यलेशविहीनस्य श्रद्धा नैव प्रजायते ॥
पापपूर्णस्य मर्त्यस्य त्रिपुण्ड्रोद्भूलने शिवे ।रुद्राक्षधारणे द्वेषः स्वत एव प्रजायते ॥
जन्मान्यनन्तानि विस्तीर्य भूयः शिवप्रसादाद्धृतपुण्यलेश: ।शिवे भक्तिं प्राप्य तद्भक्तसङ्गान्न संसृतौ घोरदुःखात् प्रमज्जेत् ॥
योऽज्ञानाद्वा शिवशब्दं गृणानः पापैर्घोरैर्मुच्यते वा कदाचित् ।को वा वेत्ता महिमानं शिवस्य परात् परस्य ज्ञानगुह्यस्य गुह्यम् ॥
सद्योजाताद्ब्राह्मणाः संबभूवुर्वामदेवात् क्षत्रिया वै विशश्च ।अघोराच्छूद्रास्तत्पुरुषाच्छिवस्य पञ्चात्मकस्य गणा ईशतोऽस्य ॥
आत्माश्रमित्वाद्गुणवंशजाता लिङ्गाङ्गसङ्गस्तत्र जन्मान्तदीक्षा ।यथा गङ्गा शिवसङ्गात्तथैव न सूतकं वा नाप्यशुचित्वमेषाम् ॥
गच्छंस्तिष्ठन्निमिषन्नुन्मिषन् वा स्वपञ्चाग्राल्लिङ्गधारी शुचिः स्यात् ।भुञ्जन् मूत्राद्युत्सृजन् वा कदाचिन्न तत्रोच्छिष्टं भजते शुद्धदेही ॥
शीर्षे कण्ठे वक्षसि कक्षदेशे नाभौ हस्ते सर्वदा प्राणलिङ्गम् ।धार्यं यथासम्प्रदायं पुरस्ताद्गुरोर्विदित्वा हृदये मुख्यमुक्तम् ॥
स्नानं कृत्वा शिवतीर्थे च देहं सर्वं भस्मोद्धूलनात् पावयित्वा ।त्रिपुण्ड्रं धार्यं भर्त्सनात् पातकौघगिरेर्भस्म प्राहुरत्यर्थमेतत् ॥
स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्षःस्कन्धमणिबन्धेषु कूrpe ।नाभिप्रदेशे पार्श्वयोर्गण्डदेशे गुदप्रदेशे गुल्फयोश्च क्रमात् स्यात् ॥
वह्नित्रयं तच्च जगत्त्रयं यद्गुणत्रयं तच्च शक्तित्रयं स्यात् ।धृतं त्रिपुण्ड्रं यदि कोपि दैवात् तद्दृष्ट्वान्यः पातकौघाद्विमुक्तः ॥
निमीलिताक्षस्य पुरत्रयाणिदग्धाः शंभोर्नयनेभ्योऽथ ये तु ।जाता रुद्राक्षा जलबिन्दवोऽस्यसद्योजातादीन् पञ्च वक्त्राणि विन्द्यात् ॥
द्वात्रिंशद्रुद्राक्षाः कण्ठमालाप्रयुक्ताःशिखायामेको द्विचत्वारिंशदुक्ताः ।शिरोधार्याः कर्णयोर्द्वादशाऽथशतत्रयं तूपवीतं च बाह्वोः ॥
द्वात्रिंशदुक्ता मणिबन्धयोश्च चतुर्विंशाः शतमष्टौ जपार्थम् । पुरा लीना: सृष्टिकालाच्छिवस्य पञ्चाक्षरे मन्त्रवर्ये समस्ताः । भूतानि पञ्च वेदा आगमाश्च शिवाल्लब्धोऽभून्मन्त्रवर्यो विधात्रा ॥
देहिनो देहमायान्ति न यावन्मन्त्रनायकः ।तावत्पापानि गर्जन्ति सत्यं सत्यं पुनः पुनः ॥
योऽयं नकारः सोऽयमकारः स सद्योजातो भूrऋग्वेद: संपुटमुच्यते । योऽयं मकारः सोऽयमुकारः स वामदेव आपो यजुर्वेदो वक्त्रमुच्यते । योऽयं शिकारः सोऽयं मकारः स घोरः स वायुः सामवेदो गुण उच्यते । योऽयं वकारः सोऽयं नादः स तत्पुरुषः स तेजोऽथर्ववेदाऽघोरमुच्यते । योऽयं यकारः तदिदं समस्तमोमिति निर्विशेषप्रणवः स सर्वोत्तम ईशान आकाश आगमो लिङ्गमुच्यते । इत्येतत्तत्त्वं यो विजानाति स नित्यं शुद्धबुद्धपरमानन्दपरमशिवस्वरूपः ।
पुरा देवा: पशुपाशाद्विमुक्ताः शिवं पूज्यैव हरिपद्मादयोऽपि ।ऐन्द्रनीलं पूजितं विष्णुनासील्लिङ्गं वैडूर्यं विधिना पद्मरागम् ॥
शक्रेण हैमं यक्षराजेन विश्वेदेवै रौप्यं वसुभिः कांस्यकं च ।यद्दारुकूटं वायुना पार्थिवं तदश्विभ्यामासीत् स्फाटिकं पाशिनाथ ॥
आदित्यैस्ताम्रं मौक्तिकं देवतैस्तैरनन्ताद्यैः फणिभिश्च प्रवालम् ।दैत्यैर्जालं राक्षसैश्च त्रिलोहं गणैः शैलं सैकतं मातृकाभिः ॥
दारूद्भवं निर्ऋतिना यमेन सुपूज्यमासीन्मारकतं च रुद्रैः ।सुभस्मरूपं सूक्ष्मरूपं च लक्ष्म्या शैलान्येव मुनयो भेजिरेऽथ ॥
सरस्वती रत्नरूपं च दुर्गा हैमं लिङ्गं पूजयामास भक्त्या ।जलैरुष्णै: शीतलैर्वा कदाचिदज्ञानाद्वा पतितैः पत्रपुष्पैः ।तुष्टो यच्छेद्वाञ्छितार्थं महेशः किं दुर्लभं शिवभक्तस्य लोके ॥
अत्यल्पमपि नैवेद्यं फलं वा जलमेव वा ।तदेव प्राशयित्वाथ ब्रह्मभूयाय कल्पते ॥
किमन्यैर्धार्यैर्भस्मनि शुद्धपुण्ड्रे स्थिते किमन्यैर्मन्त्रवर्येऽथ मन्त्रैः ।शिवे स्थिते सर्वदेवाधिराजे भारद्वाज निर्जरैः किं तथाऽन्यैः ॥
सिद्धान्तोऽयं निश्चितोऽस्माभिरेष भारद्वाज गुह्यमेतन्न वाच्यम् ।सदा प्रशान्ताय न नास्तिकाय परीक्ष्याथ ब्रूहि सर्वार्थवेत्रे ॥
इत्याह भगवान् स्कन्दः । तामेनां सिद्धान्तशिखां प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानोऽह्निकृतं पापं नाशयति । सार्वकालं प्रयुञ्जानः पापैरपापो भवतीति विज्ञायते । इति वेदवचनं भवति । इति वेदवचनं भवति । ॐ सत्यमित्युपनिषत् ॥
इति सिद्धान्तशिखोपनिषत् समाप्ता

Settings