चतुर्थावरणम्

तन्मध्येऽमितबोधानन्दाचलो विभाति । तदुपरि परमकैवल्यानन्दरूपानन्तशिखराः सन्ति । तत्र परमानन्दामृतमयैर्दिव्यानन्तप्राकारो ज्वलति । दिव्यगन्धैः स्वभावचिन्मयैरनन्तब्रह्मवनैरतिशोभितमानन्दकल्पतरुवनैरावतं मुक्तिकल्पतरुवनैः सुशोभितं पारावारानन्दरसनिर्भरैरतिशोभितं स्वात्मानन्दानुभवतरङ्गिण्याः प्रवाहैरतिमङ्गलं परमकल्याणमनन्तविभवममिततेजोराश्याकारमनन्तब्रह्मतेजोराशिसमष्ट्याकारमनन्तदिव्यतेजोज्वालाजालैरभितोऽनिशं प्रज्वलितमनन्तदिव्यापारब्रह्मविद्यासाम्राज्याधिदैवतममोघनिजमन्दकटाक्षचिदानन्दमयानेकप्रासादविशेषैः परिवेष्टितं ब्रह्मविद्यामयैरनन्तप्रकारानन्दामृतदिव्यमङ्गलविमानैः सुशोभितं चिद्रूपविलासनिभचिन्मयासनं विराजते । अधितिष्ठन्ति तेजोराशिं तदन्तर्गतदिव्यतेजोविशेषमखिलपवित्राणां परमं पवित्रं चिद्रूपपरानन्तनित्यमुक्तैरभिव्याप्तं सच्चिदानन्दरूपा: शिवात्मैक्योपासकाः ॥
इति चतुर्थावरणम्

Settings