श्रीयोगाञ्जनेयपञ्चरत्नम्

Click on words to see what they mean.

नरसिंहपदाम्भोजभ्रमरायितमानसम् ।योगयुक्तं हनूमन्तं घटिकाद्रिगतं भजे ॥ १ ॥
एष हत्वा निशाटानां कोटीर्वीरवरः पुरा ।अधुना दृश्यते योगी नरसिंहपदान्तिके ॥ २ ॥
सत्यं वद महावीर कुत्र ते रमते मनः ।नृवेषे वा हरौ किंस्विन्नृसिंहतनुधारिणि ॥ ३ ॥
विचिन्तयन्निवाभेदं श्रीरामनरसिंहयोः ।योगयुक्तो मरुत्सूनुः घटिकाद्रौ प्रदृश्यते ॥ ४ ॥
यस्मिन्मनः पथं याते न जनस्य विपत्पुनः ।तं भजे मरुतः पुत्रं योगिनं वीरकुञ्जरम् ॥ ५ ॥
॥ श्रीयोगाञ्जनेयपञ्चरत्नं समाप्तम् ॥