श्रीवीरभद्रभुजङ्गप्रयातस्तोत्रम्

Click Settings to choose another script or language.
गुणदोषभद्रं सदा वीरभद्रंमुदा भद्रकाल्या समाश्लिष्टमुग्रम् ।स्वभक्तेषु भद्रं तदन्येष्वभद्रंकृपाम्भोधिमुद्रं भजे वीरभद्रम् ॥ १ ॥
महादेवमीशं स्वदीक्षागताशंविबोध्याशुदक्षं नियन्तुं समक्षे ।प्रमार्ष्टुं च दाक्षायणीदैन्यभावंशिवाङ्गाम्बुजातं भजे वीरभद्रम् ॥ २ ॥
सदस्यानुदस्याशु सूर्येन्दुबिम्बेकराङ्घ्रिप्रपातैरदंतासिताङ्गौ[ङ्गे]कृतं शारदाया हृतं नासभूषंप्रकृष्टप्रभावं भजे वीरभद्रम्(?)॥ ३ ॥
सतन्द्रं महेन्द्रं विधायाशु रोषात्कृशानुं निकृत्ताग्रजिह्वं[प्रधाव्य]. . . .कृष्णवर्णं बलाद्भासभानंप्रचण्डाट्टहासं भजे वीरभद्रम् ॥ ४ ॥
न रक्षोऽधिकः सप्ततन्तौ समुद्रंपुरोडाशभागं. . . .. . .प्रदेशे. . . कृतं तन्त्रभूतं भजे वीरभद्रम् ॥ ५ ॥
जलाधीश्वरोऽसौ कृशानुप्रदेशेयथा वर्तते चेत्तथाग्निः प्रशान्तः ।भवेदित्यलं वार्धि. . .विक्षिप्य हृष्टं भजे वीरभद्रम् ॥ ६ ॥
गगत्प्राण[मा]शाधिपानां प्रपञ्चेमहान्तं मृगारूढमुक्त्वा सरोषम् ।कुबेरं च वैरूप्यदृष्टिं च कृत्वासपाण्ड्वङ्गमीशं भजे वीरभद्रम् ॥ ७ ॥
तथान्यान् दिगीशान् सुरानुग्रदृष्ट्याऋषीनल्पबुद्धीन् धरादेवबृन्दान् ।विनिर्भर्त्स्य हुत्वानले त्रिर्गणौघै-रघोरावतारं भजे वीरभद्रम् ॥ ८ ॥
विधातुः कपालं कृतं पानपात्रंनृसिंहस्य कायं(?)च शूलाङ्गभूषम् ।गले कालकूटं स्वचिह्नं च धृत्वामहौद्धत्यभूषं भजे वीरभद्रम् ॥ ९ ॥
महादेव मद्भाग्यदेवप्रसिद्ध[प्रसीद]प्रकृष्टारिबाधामलं संहराशु ।प्रयत्नेन मां रक्ष रक्षेति यो वैवदेत्तस्य देवं भजे वीरभद्रम् ॥ १० ॥
महाहेतिशैलेन्द्र. . .धिकास्तेकरासक्तशूलासिबाणासनानि ।शरास्ते युगान्ताशनिप्रख्यशौर्याभवन्तीत्युपास्यं भजे वीरभद्रम् ॥ ११ ॥
यदा त्वत्कृपापात्रजन्तुस्वचित्तेमहादेव वीरेश मां रक्ष रक्ष ।विपक्षानमून भक्ष भक्षेति यो वैवदेत्तस्य मित्रं भजे वीरभद्रम् ॥ १२ ॥
अनन्तश्च शङ्खस्तथा कम्बलोऽसौवमत्कालकूटश्च कर्कोटकाहिः ।तथा तक्षकञ्चारिसङ्घान्निहन्या-दिति प्रार्थ्यमानं भजे वीरभद्रम् ॥ १३ ॥
गलासक्तरुद्राक्षमालाविराज-द्विभूतित्रिपुण्ड्राङ्कफालप्रदेशः ।सदा शैवपञ्चाक्षरीमन्त्रजापीभवे भक्तवर्यः स्मरन् सिद्धिमेति ॥ १४ ॥
भुजङ्गप्रयातैर्महारुद्रमीशंसदा तोषयेद्यो महेशं सुरेशम् ।[भूत्वा]धरायां समग्रं च भुक्त्वाविपद्भ्यो विमुक्तः सुखी स्यात्सुरः स्यात् ॥ १५ ॥
॥ इति श्रीवीरभद्रभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥