श्रीविनायकस्तोत्रम्

Click Settings to choose another script or language.
गण्डस्थलद्वयगलन्मदवारिधारा-सौरभ्यलुभ्यदलिडिम्भकगुम्भनादैः ।वाचालिताखिलदिशं वरदं नतानांवन्दामहे गजमुखं वयमादिदेवम् ॥ १ ॥
गर्विष्ठखेचरपुरत्रयनाथदैत्य-भङ्गोद्यतः स्वयमयं परमेश्वरोऽपि ।आदौ यमेव परिपूज्य विधूतसर्व-विघ्नो जिगाय तमिमं वयमाश्रयामः ॥ २ ॥
णप्रष्ठवर्णततिपञ्चमषष्ठवर्ण-युग्माविधेयविरहादतिमात्रदीनम् ।त्रायेत मामनुदिनं निजपुष्करात्त-कुम्भस्थरत्ननिकरानभिवृष्य देवः ॥ ३ ॥
पद्मासहायगिरिजापतिरत्य[वाग]धीश-देवादिनाकनिलयैर्वनितासहायैः ।अन्वास्यमानमखिलास्वपि दिक्षु सिद्ध-लक्ष्मीसहायमनिशं शरणं भजामः ॥ ४॥
तन्वीत नः शुभमतिं तरुणारुणश्री-दायादकायरुचिरिन्दुवतंससूनुः ।प्रत्यूहभङ्गपटुभिः सहितो वधूभि-रामोदमुख्यनिजपारिषदैः समेतः ॥ ५ ॥
ये चिन्तयन्ति निमिषार्धमपि प्रभो त्वांश्रीमन्निभानन विधूतभिदान्धकाराः ।बाभासमानमनिशं हृदये समुद्य-दानन्दबोधघनमेकममी नमस्याः ॥ ६ ॥
न श्रौतकर्मसु रतिर्न च बोधनिष्ठास्वामिन्नुमासुत न जातु कृतापि पूजा ।निस्सारवैषयिकसौख्यदुराशयैवनीतान्यहान्यहह किं कथये दयस्व ॥ ७ ॥
वस्त्राज्यदुग्धमधुभिः सितशर्कराढ्यैःपुण्ड्रेक्षखण्डकदलीफलनारिकेलैः ।लाजैश्च मोदकयुतैः परिपूजितुं त्वांधन्याः क्षमाः परमहं शरणं प्रपद्ये ॥ ८ ॥
समीरैः प्रोच्चण्डैः श्रवणयुगलीचालनभवै-र्नतानां प्रत्यूहच्छलजलदराशिं विदलयन् ।कटाभोगोदञ्चन्मदसुरभिलाशेषभुवनःशिवाचन्द्रोत्तंसप्रणयपरिणामोऽवतु गजः ॥ ९ ॥
॥ इति श्रीविनायकस्तोत्रं सम्पूर्णम् ॥