श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम्

Click Settings to choose another script or language.
श्रीमद्विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ।वक्ष्यामि शृणु देवेशि सावधानेन चेतसा ॥ १ ॥
सर्वपापप्रशमनं सर्वविघ्ननिवारकम् ।सर्वरोगहरं दिव्यं साधकाभीष्टदायकम् ॥ २ ॥
ब्रह्मादयः सुराः सर्वे वसिष्ठाद्या मुनीश्वराः ।विद्यागणाधिनाथस्य चक्राराधनतत्पराः ॥ ३ ॥
स्तोत्रेणानेन सम्पूज्य जप्त्वा स्वे स्वे पदे स्थिताः ।सुखिनोऽद्यापि दृश्यन्ते सद्यः सन्तुष्टमानसाः ॥ ४ ॥
तादृशं परमं दिव्यं प्रत्यक्षफलदायकम् ।यः पठेत् प्रातरुत्थाय चिन्तयेन्मूर्ध्निबालकम्?॥ ५ ॥
स सर्वदुरितान्मुक्तोसर्वान् कामानवाप्नुयात् ।चक्रपूजाविधानेन प्रयाणे समुपस्थिते ॥ ६ ॥
शोभनेषु समस्तेषु कार्येष्वन्येषु बुद्धिमान् ।स्तोत्रेणानेन सम्पूज्य जप्त्वाभीष्टमवाप्नुयात् ॥ ७ ॥
धान्यकामी लभेद्धान्यं धनकामी धनं लभेत् ।सन्तानकामी सन्तानं क्षेत्रार्थी क्षेत्रमुत्तमम् ॥ ८ ॥
सर्वं लभेत् सर्वकामी निष्कामी तत्फलं लभेत् ।विद्यागणपतिर्विघ्नहरो गजमुखोऽव्ययः ॥ ९ ॥
विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः ।विश्वसृग्विश्वभुग्विश्वसंहर्ता विश्वगोपनः ॥ १० ॥
विश्वानुग्राहकः सत्यःशिवतुल्यःशिवात्मजः ।विचित्रनर्तनो वीरो विश्वसन्तोषवर्धनः ॥ ११ ॥
विमर्शी विमलाचारो विश्वाकारो विनायकः ।स्वतन्त्रः सुलभः खर्चः सुमुखः सुखबोधकः ॥ १२ ॥
सूर्याग्निशशिदृक् सोमकलाचूडः सुखासनः ।स्वप्रकाशःस्वधावक्त्रःस्वयंव्यक्तःस्मृतिप्रियः॥१३॥
शक्तीशः शङ्करः शम्भुः प्रभुर्विभुरुमासुतः ।शान्तः शतमखाराध्यश्चतुरश्चक्रनायकः ॥ १४ ॥
कालजित् करुणामूर्तिरव्यक्तः शाश्वतः शुभः ।उग्रकर्मोदितानन्दी शिवभक्तः शिवान्तरः ॥ १५ ॥
चैतन्यधृतिरव्यग्रः सर्वज्ञः सर्वशत्रुहृत् ।सर्वाग्रः समरानन्दी संसिद्धगणनायकः ॥ १६ ॥
साम्बप्रमोदको वज्री मानसो मोदकप्रियः ।एकदन्तो बृहत्कुक्षिःदीर्घतुण्डोविकर्णकः ॥ १७ ॥
ब्रह्माण्डकन्दुकश्चित्रवर्णश्चित्ररथासनः ।तेजस्वी तीक्ष्णधिषणः शक्तिबृन्दनिषेवितः ॥ १८ ॥
परापराश्च पश्यन्ती प्राणनाथः प्रमत्तहृत् ।(?)संक्लिष्टमध्यमस्पष्टो वैखरीजनकः शुचिः ॥ १९ ॥
धर्मप्रवर्तकः कामो भूमिस्फुरितविग्रहः ।तपस्वी तरुणोल्लासी योगिनीभोगतत्परः ॥ २० ॥
जितेन्द्रियो जयश्रीको जन्ममृत्युविदारणः ।जगद्गुरुरमेयात्मा जङ्गमस्थावरात्मकः ॥ २१ ॥
नमस्कारप्रियो नानामतभेदविभेदकः ।नयवित् समदृक् शूरः सर्वलोकैकशासनः ॥ २२ ॥
विशुद्धविक्रमो वृद्धः संवृद्धः ससुहृद्गणः ।सर्वसाक्षी सदानन्दी सर्वलोकप्रियङ्करः ॥ २३ ॥
सर्वातीतः समरसः सत्यावासः सतां गतिः ।इति विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ॥ २४ ॥
यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः ।तस्य साधकवर्यस्य सर्वावस्थासु सर्वदा ।नासाध्यमस्ति किमपि विद्याविघ्नेश्वरात्मनः॥ २५ ॥
॥ इति महाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे शङ्करविरचिते श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥