श्रीवेङ्कटेशस्तोत्रम् (२)

Click Settings to choose another script or language.
क्षेमं मे कमलापतिर्वितरतु श्रीवेङ्कटाद्रीश्वरःकारुण्यामृतवारिधित्रिजगतां क्षेमंकरो वत्सलः ।श्रीमद्भाष्यकृता सुबोधनिधिना रामानुजस्वामिनाभक्त्या दत्तपरत्वचिह्नविलसद्बाहुर्महावैभवः ॥ १ ॥
रेखारूपमनोज्ञदिव्यकलशश्रीपाञ्चजन्यध्वज-ज्ञानाब्जाङ्कुशकल्पचक्रविलसत्पादारविन्दद्वयम् ।लक्ष्मीदिव्यपदाम्बुजातयुगळीजाज्वल्यमानोल्लस-ल्लाक्षालक्षितवक्षसं सुशरणं श्रीवेङ्कटेशं भजे ॥ २ ॥
सद्योजातमनोज्ञपल्लवलसत्पाण्यम्बुजाभ्यां रमाबिभ्राणौ सभयं तु यस्य चरणौ संवाहनेऽपि क्लमम् ।शीघ्रं किञ्च सरोरुहारुणतलौ मञ्जीरभूषोज्ज्वलौतं देवं श्रितपारिजातमतुलं श्रीवेङ्कटेशं भजे ॥ ३ ॥
ब्रह्मेशादिकिरीटकोटिघटितप्रत्यग्रनानाविध-श्रीमद्रत्नमहःप्ररोहनिकरैर्नीराजितश्रीपदम् ।आनन्दाख्यविमानदिव्यनिलये लक्ष्म्या सह क्रीडितंसाक्षान्मन्मथमन्मथं गुणनिधिं श्रीवेङ्कटेशं भजे ॥ ४ ॥
श्रीपादौ चरणागतैः प्रथमतो यस्यावगाह्यौ जनैःदेदीप्रावमृतायिताविव शिशोर्मातुः स्तनौ श्रीपतेः ।गोत्रायां विपिने वृषाद्रिशिखरे चित्तेऽप्यनन्यात्मनांवेदान्ते सममाहितौ तमतुलं श्रीवेङ्कटेशं भजे ॥ ५ ॥
अत्यन्तप्रियदर्शनं कमलया प्रारूढवक्षःस्थलंनानाभूषणभूषितं प्रविलसत्पीताम्बरप्रोज्ज्वलम् ।सर्वाभीष्टवरप्रदं प्रणमतां जाज्वल्यमानप्रभंबालार्कोज्ज्वलदिव्यरत्नमकुटं श्रीवेङ्कटेशं भजे ॥ ६ ॥
अम्भोजामृतसिन्धुजातकलशप्रस्पर्धिदिव्याननंसुभ्रूसुन्दरमध्यचन्द्रविलसत्फालं मनोज्ञस्मितम् ।आकर्णायतलोचनं मणिमयश्रीहारभूषोज्ज्वलंश्रीवत्साङ्कितवक्षसं श्रितनिधिं श्रीवेङ्कटेशं भजे ॥ ७ ॥
सर्वज्ञं कलिकल्मषन्नममलं लक्ष्मीनिवासोरसंशक्तं सन्नतवत्सलं विधिमुखैर्देवैः सदा वन्दितम् ।संसारार्णवतारकाङ्घ्रियुगळं कन्दर्पकोटिप्रभंषाड्गुण्यात्मकदिव्यमङ्गलतनुं श्रीवेङ्कटेशं भजे ॥ ८ ॥
अन्धः पश्यति दुःखिनस्तु सुखिनो मूकः प्रवक्ति स्फुटंपङ्गुर्धावति वेगतस्तु लभते वन्ध्या च भव्यं सुतम् ।आर्ताश्चापि निरामयास्तु बधिराः शृण्वन्ति सम्यक् ततोयस्यानुग्रहवैभवेन विमलं श्रीवेङ्कटेशं भजे ॥ ९ ॥
भक्ताभीष्टदभाष्यकारगुरुणा दत्ताब्जचक्रोज्ज्वल-द्वाहुं भक्तजनानुभाव्यमनिशं नीलाम्बुदश्यामलम् ।सर्वाधीश्वरता प्रकाशकलसन्मुक्ताकिरीटोज्ज्वलंराकाचन्द्रमुखं दयागुणनिधिं श्रीवेङ्कटेशं भजे ॥ १० ॥
लक्ष्मीगेहभुजान्तरं कलियुगप्रत्यक्षनारायणंसत्यानन्दचिदात्मकं परिनुतं पञ्चाननाद्यैर्बुधैः ।श्रीशेषाचलशृङ्गमङ्गलमहाभूषायितश्रीपदंसर्वेषां जगतामभीष्टवरदं श्रीवेङ्कटेशं भजे ॥ ११ ॥
सर्वेषां सुहृदं सुशीलमनघं श्रीमङ्गलाशासनंकुर्वद्भिः परिशुद्धमानसयुतैः श्रीवैष्णवैः संवृतम् ।बिम्बाभाधरमुद्यदिन्दुवदनं कर्णान्तलोलेक्षणंश्रीमद्दिन्यललाटपट्टतिलकं श्रीवेङ्कटेशं भजे ॥ १२ ॥
कौशेयपुष्पितकटीतटमम्बुजाक्षंकान्ताकुचाम्बुरुहकुड्मललोलदृष्टिम् ।कन्दर्पदर्पहरसुन्दरदिव्यमूर्तिंश्रीवेङ्कटेशमगतिः शरणं प्रपद्ये ॥ १३ ॥
आपादमौलिमभिजातमनोहराङ्ग-मादित्यकोटिकिरणोज्ज्वलहेतिराजम् ।आताम्रदिव्यमधुराधरपल्लवं चश्रीवेङ्कटेशमगतिः शरणं प्रपद्ये ॥ १४ ॥
दिव्यैर्दन्तिकरोपमैर्मृदुतरैः सुस्निग्धवर्णैः शुभैःनानाभूषणभूषितैः शुभनखैः कल्याणरेखाञ्चितैः ।वृत्तैर्ज्याकिणकर्कशैरभयदैः पीनैश्चतुर्भिः सतांश्रीमद्बाहुभिरायतैर्विलसितं श्रीवेङ्कटेशं भजे ॥ १५ ॥
दातारं किल सम्पदां स्वचरणद्वन्द्वाश्रितानां सतांदैत्यानां तु निघातिनं त्रिजगतां नाथं महावत्सलम् ।सिंहस्कन्धमनेकरत्नरचितश्रीहारवक्षःस्थलंश्रीमत्पुण्ड्रललल्ललाटफलकं श्रीवेङ्कटेशं भजे ॥ १६ ॥
लक्ष्मीनिवास निखिलाश्रितलोकबन्धोवैकुण्ठनाथ निरवद्यगुणैकसिन्धो ।श्रीवेङ्कटेश भुवि विश्रुतदिव्यकीर्तेपाहि प्रपन्नमगतिं शरणागतं माम् ॥ १७ ॥
वरगुणमणिसिन्धुर्वत्सलः श्रीनिवासःकलशजलधिकन्याप्राणनाथो दयालुः ।मणिवरमणिभूषावत्सजाज्वल्यमानोवितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ १८ ॥
कनकमयकिरीटो दिव्यलावण्यसिन्धुःप्रणतवरदबन्धुः पद्मपत्रायताक्षः ।सुलभचरणयुग्मः स्वाश्रितानां कृपालुःवितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ १९ ॥
मरतकगिरिमूर्तिर्मङ्गलानां निवासःस्फटिकमकुटमूर्धा पीतकौशेयवासः ।कनकवलयभूषा प्रोज्ज्वलद्दिव्यबाहुःवितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २० ॥
सरसिजमुखपाणिः सर्वलोकैकनाथःविकचकमलनेत्रः श्यामलः कोमलाङ्गः ।जलजचरणयुग्मः श्रीनिवासो दयालुःवितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २१ ॥
विधिविबुधनियन्ता विश्वभक्तार्तिहन्ताविनतविविधजातिक्षेमकल्यणमन्ता ।विमलमधुरमन्दस्मेरदिव्याननाब्जोवितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २२ ॥
अत्यर्कानलदीप्तमुत्तमपदं वैकुण्ठमत्यद्भुतंत्यक्त्वानुग्रहकाम्यया प्रणमतां लक्ष्म्या सह क्रीडितः ।श्रीमद्वेङ्कटभूधरे मणिगणैर्नानाविधैर्धातुभि-र्देदीप्रे भगवान् ममास्तु गुणवान् क्षेमंकरः सर्वदा ॥ २३ ॥
भक्तानां दोषभोग्यः प्रवरगुणनिधिर्मङ्गलानां निवासःविख्यातः सर्वधाता सरसिजनयनो वेदवेदान्तवेद्यः ।शेषाद्रौ शेषतल्पे जलधितनयया सार्धमिन्दीवराक्ष्याक्रीडन् देवाधिराजो मम तु वितरतान्मङ्गलं श्रीनिवासः ॥ २४ ॥
विधिशिवविबुधेन्द्रप्राणिरक्षैकदीक्षोविविधकलिनिहन्ता वत्सलः स्वाश्रितेषु ।श्रुतहृदयनिवासः शीलवान् पङ्कजाक्षोविलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥ २५ ॥
मरतकमणिरत्नस्फाटिकच्छन्नदिव्य-प्रवरकनकभूषाभूषितः संश्रितार्थम् ।नयनसुभगदिव्यश्यामकल्याणगात्रोविलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥ २६ ॥
वरद निखिलबन्धो क्षान्तिसौशील्यसिन्धोकमलनयन विष्णो शङ्खचक्रासिपाणे ।दिवि भुवि मम बन्धो श्रीपते वेङ्कटेशश्रितजनशुभकल्प श्रीनिधे त्राहि दासम् ॥ २७ ॥
दिवि भुवि मम सौख्यं संप्रयच्छ प्रयच्छश्रुतिशिरसि विदीप्त श्रीनिधे वेङ्कटेश ।चलमतिमविनीतं मां च कन्दर्पवश्यंतव किल दयनीयं पाहि पाहि प्रसीद ॥ २८ ॥
कलौ लोकनाथ प्रशस्त प्रशस्तप्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ।हरे दीनबन्धो प्रसीद प्रसीदसदा वेङ्कटेशं स्मरामि स्मरामि ॥ २९ ॥
स्वामिपुष्करिणीतीरे श्रीमद्वेङ्कटभूधरे ।वसते रमया सार्धं वेङ्कटेशाय मङ्गलम् ॥ ३० ॥
॥ इति श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥