श्रीत्रिपुरसुन्दरीपञ्चरत्नस्तवः

Click Settings to choose another script or language.
नीलालकां शशिमुखीं नवपल्लवोष्ठींचाम्पेयपुष्पसुषमोज्ज्वलदिव्यनासाम् ।पद्मेक्षणां मुकुरसुन्दरगण्डभागांत्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ १ ॥
श्रीकुन्दकुड्मलशिखोज्ज्वलदन्तबृन्द-मन्दस्मितद्युतितिरोहितचारुवाणीम् ।नानामणिस्थगितहारसुचारुकण्ठींत्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ २ ॥
पीनस्तनीं घनभुजां विपुलाब्जहस्तांभृङ्गावलीजितसुशोभितरोमराजिम् ।मत्तेभकुम्भकुचभारसुनम्रमध्यांत्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ३ ॥
रम्भोज्ज्वलोरुयुगलां मृगराजपत्रा-मिन्द्रादिदेवमकुटोज्ज्वलपादपद्माम् ।हेमाम्बरां घनघृताञ्चितखड्गवल्लींत्वां साम्प्रतं त्रिपुसुन्दरि देवि वन्दे ॥ ४ ॥
मत्तेभवक्त्रजननीं मृडदेहयुक्तांशैलाग्रमध्यनिलयां वरसुन्दराङ्गीम् ।कोटीश्वराख्यहृदि संस्थितपादपद्मांत्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ५ ॥
बाले त्वत्पादयुगलं ध्यात्वा सम्प्रति निर्मितम् ।नवीनं पञ्चरत्नं च धार्यतां चरणद्वये ॥ ६ ॥
॥ इति श्रीत्रिपुरसुन्दरीपञ्चरत्नस्तवः सम्पूर्णः ॥